पञ्चार्थभाष्यPañcārthabhāṣya

PABh zu PāśupSūtra, 1, 21

22 of 168 · 32 verses

Select a line for its word-by-word analysis.

1.0१.०

अत्र दूरं नाम यद् एतद् दर्शनाद्यं विकरणान्तं माहेश्वरम् ऐश्वर्यम् अनेन कदाचित् प्राप्तपूर्वकं तस्मिंस् तत्प्राप्तौ च ॥ (१।०)

atra dūraṃ nāma yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam anena kadācit prāptapūrvakaṃ tasmiṃs tatprāptau ca ||

2.0२.०

दर्शनादिष्व् आधिकारिको ऽत्र दूरशब्दो द्रष्टव्यः ॥ (२।०)

darśanādiṣv ādhikāriko 'tra dūraśabdo draṣṭavyaḥ ||

3.0३.०

तत्प्राप्तिश् च योगप्रवृत्तितः ॥ (३।०)

tatprāptiś ca yogapravṛttitaḥ ||

4.0४.०

आह यद्य् एवं सूत्रतो ऽभिधीयन्तां दर्शनादयः ॥ (४।०)

āha yady evaṃ sūtrato 'bhidhīyantāṃ darśanādayaḥ ||

5.0५.०

तद् उच्यन्ते ॥ (५।०)

tad ucyante ||

6.0६.०

दर्शनम् इत्य् अत्रापि च नस्त्रिकं चिन्त्यते ॥ (६।०)

darśanam ity atrāpi ca nastrikaṃ cintyate ||

7.0७.०

द्रष्टा दर्शनं दृश्यम् इति ॥ (७।०)

draṣṭā darśanaṃ dṛśyam iti ||

8.0८.०

अत्र द्रष्टा सिद्धः ॥ (८।०)

atra draṣṭā siddhaḥ ||

9.0९.०

दर्शनम् अस्य सिद्धिः ज्ञानम् ॥ (९।०)

darśanam asya siddhiḥ jñānam ||

10.0१०.०

द्रष्टव्यानि रूपाणि ॥ (१०।०)

draṣṭavyāni rūpāṇi ||

11.0११.०

तत् कृत्स्नेषु विषयेषु समासविस्तरविभागविशेषतश् च दर्शनं प्रवर्तत इत्य् अर्थः ॥ (११।०)

tat kṛtsneṣu viṣayeṣu samāsavistaravibhāgaviśeṣataś ca darśanaṃ pravartata ity arthaḥ ||

12.0१२.०

तथा श्रवणम् इत्य् अत्रापि नस्त्रिकं चिन्त्यन्ते ॥ (१२।०)

tathā śravaṇam ity atrāpi nastrikaṃ cintyante ||

13.0१३.०

श्रोता श्रवणं श्रव्यम् इति ॥ (१३।०)

śrotā śravaṇaṃ śravyam iti ||

14.0१४.०

तत्र श्रोता सिद्धः ॥ (१४।०)

tatra śrotā siddhaḥ ||

15.0१५.०

श्रवणम् अस्य सिद्धिर् ज्ञानम् ॥ (१५।०)

śravaṇam asya siddhir jñānam ||

16.0१६.०

श्रव्याः शब्दाः ॥ (१६।०)

śravyāḥ śabdāḥ ||

17.0१७.०

तद् अस्य सिद्धस्य श्राव्येष्व् अर्थेषु समासविस्तरविभागविशेषतश् च श्रवणं प्रवर्तत इत्य् अर्थः ॥ (१७।०)

tad asya siddhasya śrāvyeṣv artheṣu samāsavistaravibhāgaviśeṣataś ca śravaṇaṃ pravartata ity arthaḥ ||

18.0१८.०

तथा मननम् इत्य् अत्रापि च नस्त्रिकं चिन्त्यते ॥ (१८।०)

tathā mananam ity atrāpi ca nastrikaṃ cintyate ||

19.0१९.०

मन्ता मननं मन्तव्यम् इति ॥ (१९।०)

mantā mananaṃ mantavyam iti ||

20.0२०.०

अत्र मन्ता सिद्धः ॥ (२०।०)

atra mantā siddhaḥ ||

21.0२१.०

मननम् अस्य सिद्धिर् ज्ञानम् ॥ (२१।०)

mananam asya siddhir jñānam ||

22.0२२.०

मन्तव्यानि परचित्तानि ॥ (२२।०)

mantavyāni paracittāni ||

23.0२३.०

देवमनुष्यतिर्यग्योनीनां धर्मार्थकाममोक्षचित्तानां मन्ता भवतीत्य् अर्थः ॥ (२३।०)

devamanuṣyatiryagyonīnāṃ dharmārthakāmamokṣacittānāṃ mantā bhavatīty arthaḥ ||

24.0२४.०

तथा विज्ञानम् इत्य् अत्रापि नस्त्रिकं चिन्त्यन्ते ॥ (२४।०)

tathā vijñānam ity atrāpi nastrikaṃ cintyante ||

25.0२५.०

विज्ञाता विज्ञानं विज्ञेयम् इति ॥ (२५।०)

vijñātā vijñānaṃ vijñeyam iti ||

26.0२६.०

तत्र विज्ञाता सिद्धः ॥ (२६।०)

tatra vijñātā siddhaḥ ||

27.0२७.०

विज्ञानम् अस्य सिद्धिर् ज्ञानम् ॥ (२७।०)

vijñānam asya siddhir jñānam ||

28.0२८.०

विज्ञेया वृत्तयः ॥ (२८।०)

vijñeyā vṛttayaḥ ||

29.0२९.०

अस्य सिद्धस्य प्रवर्तन्ते स्वतः प्रादुर्भवन्तीत्य् अर्थः ॥ (२९।०)

asya siddhasya pravartante svataḥ prādurbhavantīty arthaḥ ||

30.0३०.०

अस्य ज्ञानम् अस्ति नेति ॥ (३०।०)

asya jñānam asti neti ||

31.0३१.०

उच्यते अस्ति ॥ (३१।०)

ucyate asti ||

32.0३२.०

यस्माद् आह ॥ (३२।०)

yasmād āha ||

Data courtesy of The Digital Corpus of Sanskrit.

PABh zu PāśupSūtra, 1, 21

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit