Ṛk 6.51.10
Saṃhitā
ते हि श्रेष्ठ॑वर्चस॒स्त उ॑ नस्ति॒रो विश्वा॑नि दुरि॒ता नयं॑ति ।
सु॒क्ष॒त्रासो॒ वरु॑णो मि॒त्रो अ॒ग्निर्ऋ॒तधी॑तयो वक्म॒राज॑सत्याः ॥
ते हि श्रेष्ठवर्चसस् त उ नस् तिरो विश्वानि दुरिता नयन्ति |
सुक्षत्रासो वरुणो मित्रो अग्निर् ऋतधीतयो वक्मराजसत्याः ||
té hí śréṣṭhavarcasastá u nastiró víśvāni duritā́ náyanti ǀ
sukṣatrā́so váruṇo mitró agnírṛtádhītayo vakmarā́jasatyāḥ ǁ
te hi śreṣṭhavarcasas ta u nas tiro viśvāni duritā nayanti |
sukṣatrāso varuṇo mitro agnir ṛtadhītayo vakmarājasatyāḥ ||
Padapāṭha
ते । हि । श्रेष्ठ॑ऽवर्चसः । ते । ऊं॒ इति॑ । नः॒ । ति॒रः । विश्वा॑नि । दुः॒ऽइ॒ता । नय॑न्ति ।
सु॒ऽक्ष॒त्रासः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः । ऋ॒तऽधी॑तयः । व॒क्म॒राज॑ऽसत्याः ॥
ते । हि । श्रेष्ठऽवर्चसः । ते । ऊं इति । नः । तिरः । विश्वानि । दुःऽइता । नयन्ति ।
सुऽक्षत्रासः । वरुणः । मित्रः । अग्निः । ऋतऽधीतयः । वक्मराजऽसत्याः ॥
té ǀ hí ǀ śréṣṭha-varcasaḥ ǀ té ǀ ūṃ íti ǀ naḥ ǀ tiráḥ ǀ víśvāni ǀ duḥ-itā́ ǀ náyanti ǀ
su-kṣatrā́saḥ ǀ váruṇaḥ ǀ mitráḥ ǀ agníḥ ǀ ṛtá-dhītayaḥ ǀ vakmarā́ja-satyāḥ ǁ
te ǀ hi ǀ śreṣṭha-varcasaḥ ǀ te ǀ ūṃ iti ǀ naḥ ǀ tiraḥ ǀ viśvāni ǀ duḥ-itā ǀ nayanti ǀ
su-kṣatrāsaḥ ǀ varuṇaḥ ǀ mitraḥ ǀ agniḥ ǀ ṛta-dhītayaḥ ǀ vakmarāja-satyāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.051.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.8.12.05
- Maṇḍala · Anuvāka · Ṛk
- 06.05.025
- Devatā देवता
- 1: Varuṇa, Viśvedevās; 2-16: Viśvedevās
- Ṛṣi ऋषि
- Ṛjiśvan Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh, Uṣṇih, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.