Ṛk 6.51.8
Saṃhitā
नम॒ इदु॒ग्रं नम॒ आ वि॑वासे॒ नमो॑ दाधार पृथि॒वीमु॒त द्यां ।
नमो॑ दे॒वेभ्यो॒ नम॑ ईश एषां कृ॒तं चि॒देनो॒ नम॒सा वि॑वासे ॥
नम इद् उग्रं नम आ विवासे नमो दाधार पृथिवीम् उत द्याम् |
नमो देवेभ्यो नम ईश एषां कृतं चिद् एनो नमसा विवासे ||
náma ídugrám náma ā́ vivāse námo dādhāra pṛthivī́mutá dyā́m ǀ
námo devébhyo náma īśa eṣām kṛtám cidéno námasā́ vivāse ǁ
nama id ugraṃ nama ā vivāse namo dādhāra pṛthivīm uta dyām |
namo devebhyo nama īśa eṣāṃ kṛtaṃ cid eno namasā vivāse ||
Padapāṭha
नमः॑ । इत् । उ॒ग्रम् । नमः॑ । आ । वि॒वा॒से॒ । नमः॑ । दा॒धा॒र॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ।
नमः॑ । दे॒वेभ्यः॑ । नमः॑ । ई॒शे॒ । ए॒षा॒म् । कृ॒तम् । चि॒त् । एनः॑ । नम॑सा । आ । वि॒वा॒से॒ ॥
नमः । इत् । उग्रम् । नमः । आ । विवासे । नमः । दाधार । पृथिवीम् । उत । द्याम् ।
नमः । देवेभ्यः । नमः । ईशे । एषाम् । कृतम् । चित् । एनः । नमसा । आ । विवासे ॥
námaḥ ǀ ít ǀ ugrám ǀ námaḥ ǀ ā́ ǀ vivāse ǀ námaḥ ǀ dādhāra ǀ pṛthivī́m ǀ utá ǀ dyā́m ǀ
námaḥ ǀ devébhyaḥ ǀ námaḥ ǀ īśe ǀ eṣām ǀ kṛtám ǀ cit ǀ énaḥ ǀ námasā ǀ ā́ ǀ vivāse ǁ
namaḥ ǀ it ǀ ugram ǀ namaḥ ǀ ā ǀ vivāse ǀ namaḥ ǀ dādhāra ǀ pṛthivīm ǀ uta ǀ dyām ǀ
namaḥ ǀ devebhyaḥ ǀ namaḥ ǀ īśe ǀ eṣām ǀ kṛtam ǀ cit ǀ enaḥ ǀ namasā ǀ ā ǀ vivāse ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.051.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.8.12.03
- Maṇḍala · Anuvāka · Ṛk
- 06.05.023
- Devatā देवता
- 1: Varuṇa, Viśvedevās; 2-16: Viśvedevās
- Ṛṣi ऋषि
- Ṛjiśvan Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh, Uṣṇih, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.