Ṛk 6.51.9
Saṃhitā
ऋ॒तस्य॑ वो र॒थ्यः॑ पू॒तद॑क्षानृ॒तस्य॑ पस्त्य॒सदो॒ अद॑ब्धान् ।
ताँ आ नमो॑भिरुरु॒चक्ष॑सो॒ नॄन्विश्वा॑न्व॒ आ न॑मे म॒हो य॑जत्राः ॥
ऋतस्य वो रथ्यः पूतदक्षान् ऋतस्य पस्त्यसदो अदब्धान् |
तां आ नमोभिर् उरुचक्षसो नॄन् विश्वान् व आ नमे महो यजत्राः ||
ṛtásya vo rathyáḥ pūtádakṣānṛtásya pastyasádo ádabdhān ǀ
tā́m̐ ā́ námobhirurucákṣaso nṝ́nvíśvānva ā́ name mahó yajatrāḥ ǁ
ṛtasya vo rathyaḥ pūtadakṣān ṛtasya pastyasado adabdhān |
tāṃ ā namobhir urucakṣaso nṝn viśvān va ā name maho yajatrāḥ ||
Padapāṭha
ऋ॒तस्य॑ । वः॒ । र॒थ्यः॑ । पू॒तऽद॑क्षान् । ऋ॒तस्य॑ । प॒स्त्य॒ऽसदः॑ । अद॑ब्धान् ।
तान् । आ । नमः॑ऽभिः । उ॒रु॒ऽचक्ष॑सः । नॄन् । विश्वा॑न् । वः॒ । आ । न॒मे॒ । म॒हः । य॒ज॒त्राः॒ ॥
ऋतस्य । वः । रथ्यः । पूतऽदक्षान् । ऋतस्य । पस्त्यऽसदः । अदब्धान् ।
तान् । आ । नमःऽभिः । उरुऽचक्षसः । नॄन् । विश्वान् । वः । आ । नमे । महः । यजत्राः ॥
ṛtásya ǀ vaḥ ǀ rathyáḥ ǀ pūtá-dakṣān ǀ ṛtásya ǀ pastya-sádaḥ ǀ ádabdhān ǀ
tā́n ǀ ā́ ǀ námaḥ-bhiḥ ǀ uru-cákṣasaḥ ǀ nṝ́n ǀ víśvān ǀ vaḥ ǀ ā́ ǀ name ǀ maháḥ ǀ yajatrāḥ ǁ
ṛtasya ǀ vaḥ ǀ rathyaḥ ǀ pūta-dakṣān ǀ ṛtasya ǀ pastya-sadaḥ ǀ adabdhān ǀ
tān ǀ ā ǀ namaḥ-bhiḥ ǀ uru-cakṣasaḥ ǀ nṝn ǀ viśvān ǀ vaḥ ǀ ā ǀ name ǀ mahaḥ ǀ yajatrāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.051.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.8.12.04
- Maṇḍala · Anuvāka · Ṛk
- 06.05.024
- Devatā देवता
- 1: Varuṇa, Viśvedevās; 2-16: Viśvedevās
- Ṛṣi ऋषि
- Ṛjiśvan Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh, Uṣṇih, Anuṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.