Ṛk 6.51.6
Saṃhitā
मा नो॒ वृका॑य वृ॒क्ये॑ समस्मा अघाय॒ते री॑रधता यजत्राः ।
यू॒यं हि ष्ठा र॒थ्यो॑ नस्त॒नूनां॑ यू॒यं दक्ष॑स्य॒ वच॑सो बभू॒व ॥
मा नो वृकाय वृक्ये समस्मा अघायते रीरधता यजत्राः |
यूयं हि ष्ठा रथ्यो नस् तनूनां यूयं दक्षस्य वचसो बभूव ||
mā́ no vṛ́kāya vṛkyé samasmā aghāyaté rīradhatā yajatrāḥ ǀ
yūyám hí ṣṭhā́ rathyó nastanū́nām yūyám dákṣasya vácaso babhūvá ǁ
mā no vṛkāya vṛkye samasmā aghāyate rīradhatā yajatrāḥ |
yūyaṃ hi ṣṭhā rathyo nas tanūnāṃ yūyaṃ dakṣasya vacaso babhūva ||
Padapāṭha
मा । नः॒ । वृका॑य । वृ॒क्ये॑ । स॒म॒स्मै॒ । अ॒घ॒ऽय॒ते । री॒र॒ध॒त॒ । य॒ज॒त्राः॒ ।
यू॒यम् । हि । स्थ । र॒थ्यः॑ । नः॒ । त॒नूना॑म् । यू॒यम् । दक्ष॑स्य । वच॑सः । ब॒भू॒व ॥
मा । नः । वृकाय । वृक्ये । समस्मै । अघऽयते । रीरधत । यजत्राः ।
यूयम् । हि । स्थ । रथ्यः । नः । तनूनाम् । यूयम् । दक्षस्य । वचसः । बभूव ॥
mā́ ǀ naḥ ǀ vṛ́kāya ǀ vṛkyé ǀ samasmai ǀ agha-yaté ǀ rīradhata ǀ yajatrāḥ ǀ
yūyám ǀ hí ǀ sthá ǀ rathyáḥ ǀ naḥ ǀ tanū́nām ǀ yūyám ǀ dákṣasya ǀ vácasaḥ ǀ babhūvá ǁ
mā ǀ naḥ ǀ vṛkāya ǀ vṛkye ǀ samasmai ǀ agha-yate ǀ rīradhata ǀ yajatrāḥ ǀ
yūyam ǀ hi ǀ stha ǀ rathyaḥ ǀ naḥ ǀ tanūnām ǀ yūyam ǀ dakṣasya ǀ vacasaḥ ǀ babhūva ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.051.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.8.12.01
- Maṇḍala · Anuvāka · Ṛk
- 06.05.021
- Devatā देवता
- 1: Varuṇa, Viśvedevās; 2-16: Viśvedevās
- Ṛṣi ऋषि
- Ṛjiśvan Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh, Uṣṇih, Anuṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.