Ṛk 5.36.2
Saṃhitā
आ ते॒ हनू॑ हरिवः शूर॒ शिप्रे॒ रुह॒त्सोमो॒ न पर्व॑तस्य पृ॒ष्ठे ।
अनु॑ त्वा राज॒न्नर्व॑तो॒ न हि॒न्वन् गी॒र्भिर्म॑देम पुरुहूत॒ विश्वे॑ ॥
आ ते हनू हरिवः शूर शिप्रे रुहत् सोमो न पर्वतस्य पृष्ठे |
अनु त्वा राजन्न् अर्वतो न हिन्वन् गीर्भिर् मदेम पुरुहूत विश्वे ||
ā́ te hánū harivaḥ śūra śípre rúhatsómo ná párvatasya pṛṣṭhé ǀ
ánu tvā rājannárvato ná hinván gīrbhírmadema puruhūta víśve ǁ
ā te hanū harivaḥ śūra śipre ruhat somo na parvatasya pṛṣṭhe |
anu tvā rājann arvato na hinvan gīrbhir madema puruhūta viśve ||
Padapāṭha
आ । ते॒ । हनू॒ इति॑ । ह॒रि॒ऽवः॒ । शू॒र॒ । शिप्रे॒ इति॑ । रुह॑त् । सोमः॑ । न । पर्व॑तस्य । पृ॒ष्ठे ।
अनु॑ । त्वा॒ । रा॒ज॒न् । अर्व॑तः । न । हि॒न्वन् । गीः॒ऽभिः । म॒दे॒म॒ । पु॒रु॒ऽहू॒त॒ । विश्वे॑ ॥
आ । ते । हनू इति । हरिऽवः । शूर । शिप्रे इति । रुहत् । सोमः । न । पर्वतस्य । पृष्ठे ।
अनु । त्वा । राजन् । अर्वतः । न । हिन्वन् । गीःऽभिः । मदेम । पुरुऽहूत । विश्वे ॥
ā́ ǀ te ǀ hánū íti ǀ hari-vaḥ ǀ śūra ǀ śípre íti ǀ rúhat ǀ sómaḥ ǀ ná ǀ párvatasya ǀ pṛṣṭhé ǀ
ánu ǀ tvā ǀ rājan ǀ árvataḥ ǀ ná ǀ hinván ǀ gīḥ-bhíḥ ǀ madema ǀ puru-hūta ǀ víśve ǁ
ā ǀ te ǀ hanū iti ǀ hari-vaḥ ǀ śūra ǀ śipre iti ǀ ruhat ǀ somaḥ ǀ na ǀ parvatasya ǀ pṛṣṭhe ǀ
anu ǀ tvā ǀ rājan ǀ arvataḥ ǀ na ǀ hinvan ǀ gīḥ-bhiḥ ǀ madema ǀ puru-hūta ǀ viśve ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.036.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.07.02
- Maṇḍala · Anuvāka · Ṛk
- 05.03.029
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Prabhūvasu Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.