Ṛk 5.36.1
Saṃhitā
स आ ग॑म॒दिंद्रो॒ यो वसू॑नां॒ चिके॑त॒द्दातुं॒ दाम॑नो रयी॒णां ।
ध॒न्व॒च॒रो न वंस॑गस्तृषा॒णश्च॑कमा॒नः पि॑बतु दु॒ग्धमं॒शुं ॥
स आ गमद् इन्द्रो यो वसूनां चिकेतद् दातुं दामनो रयीणाम् |
धन्वचरो न वंसगस् तृषाणश् चकमानः पिबतु दुग्धम् अंशुम् ||
sá ā́ gamadíndro yó vásūnām cíketaddā́tum dā́mano rayīṇā́m ǀ
dhanvacaró ná váṃsagastṛṣāṇáścakamānáḥ pibatu dugdhámaṃśúm ǁ
sa ā gamad indro yo vasūnāṃ ciketad dātuṃ dāmano rayīṇām |
dhanvacaro na vaṃsagas tṛṣāṇaś cakamānaḥ pibatu dugdham aṃśum ||
Padapāṭha
सः । आ । ग॒म॒त् । इन्द्रः॑ । यः । वसू॑नाम् । चिके॑तत् । दातु॑म् । दाम॑नः । र॒यी॒णाम् ।
ध॒न्व॒ऽच॒रः । न । वंस॑गः । तृ॒षा॒णः । च॒क॒मा॒नः । पि॒ब॒तु॒ । दु॒ग्धम् । अं॒शुम् ॥
सः । आ । गमत् । इन्द्रः । यः । वसूनाम् । चिकेतत् । दातुम् । दामनः । रयीणाम् ।
धन्वऽचरः । न । वंसगः । तृषाणः । चकमानः । पिबतु । दुग्धम् । अंशुम् ॥
sáḥ ǀ ā́ ǀ gamat ǀ índraḥ ǀ yáḥ ǀ vásūnām ǀ cíketat ǀ dā́tum ǀ dā́manaḥ ǀ rayīṇā́m ǀ
dhanva-caráḥ ǀ ná ǀ váṃsagaḥ ǀ tṛṣāṇáḥ ǀ cakamānáḥ ǀ pibatu ǀ dugdhám ǀ aṃśúm ǁ
saḥ ǀ ā ǀ gamat ǀ indraḥ ǀ yaḥ ǀ vasūnām ǀ ciketat ǀ dātum ǀ dāmanaḥ ǀ rayīṇām ǀ
dhanva-caraḥ ǀ na ǀ vaṃsagaḥ ǀ tṛṣāṇaḥ ǀ cakamānaḥ ǀ pibatu ǀ dugdham ǀ aṃśum ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.036.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.07.01
- Maṇḍala · Anuvāka · Ṛk
- 05.03.028
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Prabhūvasu Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.