Ṛk 5.48.3
Saṃhitā
आ ग्राव॑भिरह॒न्ये॑भिर॒क्तुभि॒र्वरि॑ष्ठं॒ वज्र॒मा जि॑घर्ति मा॒यिनि॑ ।
श॒तं वा॒ यस्य॑ प्र॒चर॒न्त्स्वे दमे॑ संव॒र्तयं॑तो॒ वि च॑ वर्तय॒न्नहा॑ ॥
आ ग्रावभिर् अहन्येभिर् अक्तुभिर् वरिष्ठं वज्रम् आ जिघर्ति मायिनि |
शतं वा यस्य प्रचरन् स्वे दमे संवर्तयन्तो वि च वर्तयन्न् अहा ||
ā́ grā́vabhirahanyebhiraktúbhirváriṣṭham vájramā́ jigharti māyíni ǀ
śatám vā yásya pracárantsvé dáme saṃvartáyanto ví ca vartayannáhā ǁ
ā grāvabhir ahanyebhir aktubhir variṣṭhaṃ vajram ā jigharti māyini |
śataṃ vā yasya pracaran sve dame saṃvartayanto vi ca vartayann ahā ||
Padapāṭha
आ । ग्राव॑ऽभिः । अ॒ह॒न्ये॑भिः । अ॒क्तुऽभिः॑ । वरि॑ष्ठम् । वज्र॑म् । आ । जि॒घ॒र्ति॒ । मा॒यिनि॑ ।
श॒तम् । वा॒ । यस्य॑ । प्र॒ऽचर॑न् । स्वे । दमे॑ । स॒म्ऽव॒र्तय॑न्तः । वि । च॒ । व॒र्त॒य॒न् । अहा॑ ॥
आ । ग्रावऽभिः । अहन्येभिः । अक्तुऽभिः । वरिष्ठम् । वज्रम् । आ । जिघर्ति । मायिनि ।
शतम् । वा । यस्य । प्रऽचरन् । स्वे । दमे । सम्ऽवर्तयन्तः । वि । च । वर्तयन् । अहा ॥
ā́ ǀ grā́va-bhiḥ ǀ ahanyébhiḥ ǀ aktú-bhiḥ ǀ váriṣṭham ǀ vájram ǀ ā́ ǀ jigharti ǀ māyíni ǀ
śatám ǀ vā ǀ yásya ǀ pra-cáran ǀ své ǀ dáme ǀ sam-vartáyantaḥ ǀ ví ǀ ca ǀ vartayan ǀ áhā ǁ
ā ǀ grāva-bhiḥ ǀ ahanyebhiḥ ǀ aktu-bhiḥ ǀ variṣṭham ǀ vajram ǀ ā ǀ jigharti ǀ māyini ǀ
śatam ǀ vā ǀ yasya ǀ pra-caran ǀ sve ǀ dame ǀ sam-vartayantaḥ ǀ vi ǀ ca ǀ vartayan ǀ ahā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.048.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.02.03
- Maṇḍala · Anuvāka · Ṛk
- 05.04.029
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Pratibhānu Ātreya
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.