Ṛk 5.72.1
Saṃhitā
आ मि॒त्रे वरु॑णे व॒यं गी॒र्भिर्जु॑हुमो अत्रि॒वत् ।
नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये ॥
आ मित्रे वरुणे वयं गीर्भिर् जुहुमो अत्रिवत् |
नि बर्हिषि सदतं सोमपीतये ||
ā́ mitré váruṇe vayám gīrbhírjuhumo atrivát ǀ
ní barhíṣi sadatam sómapītaye ǁ
ā mitre varuṇe vayaṃ gīrbhir juhumo atrivat |
ni barhiṣi sadataṃ somapītaye ||
Padapāṭha
आ । मि॒त्रे । वरु॑णे । व॒यम् । गीः॒ऽभिः । जु॒हु॒मः॒ । अ॒त्रि॒ऽवत् ।
नि । ब॒र्हिषि॑ । स॒द॒त॒म् । सोम॑ऽपीतये ॥
आ । मित्रे । वरुणे । वयम् । गीःऽभिः । जुहुमः । अत्रिऽवत् ।
नि । बर्हिषि । सदतम् । सोमऽपीतये ॥
ā́ ǀ mitré ǀ váruṇe ǀ vayám ǀ gīḥ-bhíḥ ǀ juhumaḥ ǀ atri-vát ǀ
ní ǀ barhíṣi ǀ sadatam ǀ sóma-pītaye ǁ
ā ǀ mitre ǀ varuṇe ǀ vayam ǀ gīḥ-bhiḥ ǀ juhumaḥ ǀ atri-vat ǀ
ni ǀ barhiṣi ǀ sadatam ǀ soma-pītaye ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.072.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.10.01
- Maṇḍala · Anuvāka · Ṛk
- 05.05.108
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Bāhuvṛkta Ātreya
- Chandas छन्दस्
- Uṣnih
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.