Ṛk 6.75.11
Saṃhitā
सु॒प॒र्णं व॑स्ते मृ॒गो अ॑स्या॒ दंतो॒ गोभिः॒ संन॑द्धा पतति॒ प्रसू॑ता ।
यत्रा॒ नरः॒ सं च॒ वि च॒ द्रवं॑ति॒ तत्रा॒स्मभ्य॒मिष॑वः॒ शर्म॑ यंसन् ॥
सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः संनद्धा पतति प्रसूता |
यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यम् इषवः शर्म यंसन् ||
suparṇám vaste mṛgó asyā dánto góbhiḥ sáṃnaddhā patati prásūtā ǀ
yátrā náraḥ sám ca ví ca drávanti tátrāsmábhyamíṣavaḥ śárma yaṃsan ǁ
suparṇaṃ vaste mṛgo asyā danto gobhiḥ saṃnaddhā patati prasūtā |
yatrā naraḥ saṃ ca vi ca dravanti tatrāsmabhyam iṣavaḥ śarma yaṃsan ||
Padapāṭha
सु॒ऽप॒र्णम् । व॒स्ते॒ । मृ॒गः । अ॒स्याः॒ । दन्तः॑ । गोभिः॑ । सम्ऽन॑द्धा । प॒त॒ति॒ । प्रऽसू॑ता ।
यत्र॑ । नरः॑ । सम् । च॒ । वि । च॒ । द्रव॑न्ति । तत्र॑ । अ॒स्मभ्य॑म् । इष॑वः । शर्म॑ । यं॒स॒न् ॥
सुऽपर्णम् । वस्ते । मृगः । अस्याः । दन्तः । गोभिः । सम्ऽनद्धा । पतति । प्रऽसूता ।
यत्र । नरः । सम् । च । वि । च । द्रवन्ति । तत्र । अस्मभ्यम् । इषवः । शर्म । यंसन् ॥
su-parṇám ǀ vaste ǀ mṛgáḥ ǀ asyāḥ ǀ dántaḥ ǀ góbhiḥ ǀ sám-naddhā ǀ patati ǀ prá-sūtā ǀ
yátra ǀ náraḥ ǀ sám ǀ ca ǀ ví ǀ ca ǀ drávanti ǀ tátra ǀ asmábhyam ǀ íṣavaḥ ǀ śárma ǀ yaṃsan ǁ
su-parṇam ǀ vaste ǀ mṛgaḥ ǀ asyāḥ ǀ dantaḥ ǀ gobhiḥ ǀ sam-naddhā ǀ patati ǀ pra-sūtā ǀ
yatra ǀ naraḥ ǀ sam ǀ ca ǀ vi ǀ ca ǀ dravanti ǀ tatra ǀ asmabhyam ǀ iṣavaḥ ǀ śarma ǀ yaṃsan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.075.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.21.01
- Maṇḍala · Anuvāka · Ṛk
- 06.06.110
- Devatā देवता
- 1: Varman; 2: Dhanu; 3: Jyā; 4: Ārtnī; 5: Iṣudhi; 6: Sārathi, Raṣmaya; 7: Aṣvās; 8: Ratha; 9: Rathopāḥ; 10: Liṅgoktadevatās; 11, 12, 15, 16: Iṣavaḥ; 13, 14: Pratodaḥ; 17-19: Liṅgoktadevatās Who Help In Battle
- Ṛṣi ऋषि
- Pāyu Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.