कूर्मपुराणKūrmapurāṇa

KūPur, 1, 26

26 of 95 · 46 verses

Select a line for its word-by-word analysis.

1.1१.१

सूत उवाच । (१।१)

sūta uvāca

1.2१.२

ततो लब्धवरः कृष्णो जाम्बवत्यां महेश्वरात् । (१।२)

tato labdhavaraḥ kṛṣṇo jāmbavatyāṃ maheśvarāt |

1.3१.३

अजीजनन्महात्मानं साम्बमात्मजमुत्तमम् ॥ (१।३)

ajījananmahātmānaṃ sāmbamātmajamuttamam ||

2.1२.१

प्रद्युम्नस्याप्यभूत् पुत्रो ह्यनिरुद्धो महाबलः । (२।१)

pradyumnasyāpyabhūt putro hyaniruddho mahābalaḥ |

2.2२.२

तावुभौ गुणसम्पन्नौ कृष्णस्यैवापरे तनू ॥ (२।२)

tāvubhau guṇasampannau kṛṣṇasyaivāpare tanū ||

3.1३.१

हत्वा च कंसं नरकमन्यांश्च शतशो ऽसुरान् । (३।१)

hatvā ca kaṃsaṃ narakamanyāṃśca śataśo 'surān |

3.2३.२

विजित्य लीलया शक्रं जित्वा बाणं महासुरम् ॥ (३।२)

vijitya līlayā śakraṃ jitvā bāṇaṃ mahāsuram ||

4.1४.१

स्थापयित्वा जगत् कृत्स्नं लोके धर्मांश्च शाश्वतान् । (४।१)

sthāpayitvā jagat kṛtsnaṃ loke dharmāṃśca śāśvatān |

4.2४.२

चक्रे नारायणो गन्तुं स्वस्थानं बुद्धिमुत्तमाम् ॥ (४।२)

cakre nārāyaṇo gantuṃ svasthānaṃ buddhimuttamām ||

5.1५.१

एतस्मिन्नन्तरे विप्रा भृग्वाद्याः कृष्णमीश्वरम् । (५।१)

etasminnantare viprā bhṛgvādyāḥ kṛṣṇamīśvaram |

5.2५.२

आजग्मुर्द्वारकां द्रष्टुं कृतकार्यं सनातनम् ॥ (५।२)

ājagmurdvārakāṃ draṣṭuṃ kṛtakāryaṃ sanātanam ||

6.1६.१

स तानुवाच विश्वात्मा प्रणिपत्याभिपूज्य च । (६।१)

sa tānuvāca viśvātmā praṇipatyābhipūjya ca |

6.2६.२

आसनेषूपविष्टान् वै सह रामेण धीमता ॥ (६।२)

āsaneṣūpaviṣṭān vai saha rāmeṇa dhīmatā ||

7.1७.१

गमिष्ये तत् परं स्थानं स्वकीयं विष्णुसंज्ञितम् । (७।१)

gamiṣye tat paraṃ sthānaṃ svakīyaṃ viṣṇusaṃjñitam |

7.2७.२

कृतानि सर्वकार्याणि प्रसीदध्वं मुनीश्वराः ॥ (७।२)

kṛtāni sarvakāryāṇi prasīdadhvaṃ munīśvarāḥ ||

8.1८.१

इदं कलियुगं घोरं सम्प्राप्तम् अधुनाशुभम् । (८।१)

idaṃ kaliyugaṃ ghoraṃ samprāptam adhunāśubham |

8.2८.२

भविष्यन्ति जनाः सर्वे ह्यस्मिन् पापानुवर्तिनः ॥ (८।२)

bhaviṣyanti janāḥ sarve hyasmin pāpānuvartinaḥ ||

9.1९.१

प्रवर्तयध्वं मज्ज्ञानं ब्राह्मणानां हितावहम् । (९।१)

pravartayadhvaṃ majjñānaṃ brāhmaṇānāṃ hitāvaham |

9.2९.२

येनेमे कलिजैः पापैर्मुच्यन्ते हि द्विजोत्तमाः ॥ (९।२)

yeneme kalijaiḥ pāpairmucyante hi dvijottamāḥ ||

10.1१०.१

ये मां जनाः संस्मरन्ति कलौ सकृदपि प्रभुम् । (१०।१)

ye māṃ janāḥ saṃsmaranti kalau sakṛdapi prabhum |

10.2१०.२

तेषां नश्यतु तत् पापं भक्तानां पुरुषोत्तमे ॥ (१०।२)

teṣāṃ naśyatu tat pāpaṃ bhaktānāṃ puruṣottame ||

11.1११.१

येऽर्चयिष्यन्ति मां भक्त्या नित्यं कलियुगे द्विजाः । (११।१)

ye'rcayiṣyanti māṃ bhaktyā nityaṃ kaliyuge dvijāḥ |

11.2११.२

विधिना वेददृष्टेन ते गमिष्यन्ति तत् पदम् ॥ (११।२)

vidhinā vedadṛṣṭena te gamiṣyanti tat padam ||

12.1१२.१

ये ब्राह्मणा वंशजाता युष्माकं वै सहस्रशः । (१२।१)

ye brāhmaṇā vaṃśajātā yuṣmākaṃ vai sahasraśaḥ |

12.2१२.२

तेषां नारायणे भक्तिर्भविष्यति कलौ युगे ॥ (१२।२)

teṣāṃ nārāyaṇe bhaktirbhaviṣyati kalau yuge ||

13.1१३.१

परात् परतरं यान्ति नारायणपरायणाः । (१३।१)

parāt parataraṃ yānti nārāyaṇaparāyaṇāḥ |

13.2१३.२

न ते तत्र गमिष्यन्ति ये द्विषन्ति महेश्वरम् ॥ (१३।२)

na te tatra gamiṣyanti ye dviṣanti maheśvaram ||

14.1१४.१

ध्यानं होमं तपस्तप्तं ज्ञानं यज्ञादिको विधिः । (१४।१)

dhyānaṃ homaṃ tapastaptaṃ jñānaṃ yajñādiko vidhiḥ |

14.2१४.२

तेषां विनश्यति क्षिप्रं ये निन्दन्ति पिनाकिनम् ॥ (१४।२)

teṣāṃ vinaśyati kṣipraṃ ye nindanti pinākinam ||

15.1१५.१

यो मां समाश्रयेन्नित्यमेकान्तं भावमाश्रितः । (१५।१)

yo māṃ samāśrayennityamekāntaṃ bhāvamāśritaḥ |

15.2१५.२

विनिन्द्य देवमीशानं स याति नरकायुतम् ॥ (१५।२)

vinindya devamīśānaṃ sa yāti narakāyutam ||

16.1१६.१

तस्मात् सा परिहर्तव्या निन्दा पशुपतौ द्विजाः । (१६।१)

tasmāt sā parihartavyā nindā paśupatau dvijāḥ |

16.2१६.२

कर्मणा मनसा वाचा तद्भक्तेष्वपि यत्नतः ॥ (१६।२)

karmaṇā manasā vācā tadbhakteṣvapi yatnataḥ ||

17.1१७.१

ये तु दक्षाध्वरे शप्ता दधीचेन द्विजोत्तमाः । (१७।१)

ye tu dakṣādhvare śaptā dadhīcena dvijottamāḥ |

17.2१७.२

भविष्यन्ति कलौ भक्तैः परिहार्याः प्रयत्नतः ॥ (१७।२)

bhaviṣyanti kalau bhaktaiḥ parihāryāḥ prayatnataḥ ||

18.1१८.१

द्विषन्तो देवमीशानं युष्माकं वंशसंभवाः । (१८।१)

dviṣanto devamīśānaṃ yuṣmākaṃ vaṃśasaṃbhavāḥ |

18.2१८.२

शप्ताश्च गौतमेनोर्व्यां न संभाष्या द्विजोत्तमैः ॥ (१८।२)

śaptāśca gautamenorvyāṃ na saṃbhāṣyā dvijottamaiḥ ||

19.1१९.१

इत्येवमुक्ताः कृष्णेन सर्व एव महर्षयः । (१९।१)

ityevamuktāḥ kṛṣṇena sarva eva maharṣayaḥ |

19.2१९.२

ओमित्युक्त्वा ययुस्तूर्णंस्वानि स्थानानि सत्तमाः ॥ (१९।२)

omityuktvā yayustūrṇaṃsvāni sthānāni sattamāḥ ||

20.1२०.१

ततो नारायणः कृष्णो लीलयैव जगन्मयः । (२०।१)

tato nārāyaṇaḥ kṛṣṇo līlayaiva jaganmayaḥ |

20.2२०.२

संहृत्य स्वकुलं सर्वं ययौ तत् परमं पदम् ॥ (२०।२)

saṃhṛtya svakulaṃ sarvaṃ yayau tat paramaṃ padam ||

21.1२१.१

इत्येष वः समासेन राज्ञां वंशो ऽनुकीर्तितः । (२१।१)

ityeṣa vaḥ samāsena rājñāṃ vaṃśo 'nukīrtitaḥ |

21.2२१.२

न शक्यो विस्तराद् वक्तुं किं भूयः श्रोतुमिच्छथ ॥ (२१।२)

na śakyo vistarād vaktuṃ kiṃ bhūyaḥ śrotumicchatha ||

22.1२२.१

यः पठेच्छृणुयाद् वापि वंशानां कथनं शुभम् । (२२।१)

yaḥ paṭhecchṛṇuyād vāpi vaṃśānāṃ kathanaṃ śubham |

22.2२२.२

सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥ (२२।२)

sarvapāpavinirmuktaḥ svargaloke mahīyate ||

23.1२३.१

इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायां पूर्वविभागे षड्विंशो ऽध्यायः ॥ (२३।१)

iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣaḍviṃśo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

KūPur, 1, 26

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit