KūPur, 2, 20
Select a line for its word-by-word analysis.
अथ श्राद्धममावास्यां प्राप्य कार्यं द्विजोत्तमैः । (१।२)
atha śrāddhamamāvāsyāṃ prāpya kāryaṃ dvijottamaiḥ |
पिण्डान्वाहार्यकं भक्त्या भुक्तिमुक्तिफलप्रदम् ॥ (१।३)
piṇḍānvāhāryakaṃ bhaktyā bhuktimuktiphalapradam ||
पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते । (२।१)
piṇḍānvāhāryakaṃ śrāddhaṃ kṣīṇe rājani śasyate |
प्रतिपत्प्रभृति ह्यन्यास्तिथयः कृष्णपक्षके । (३।१)
pratipatprabhṛti hyanyāstithayaḥ kṛṣṇapakṣake |
चतुर्दशीं वर्जयित्वा प्रशस्ता ह्युत्तरोत्तराः ॥ (३।२)
caturdaśīṃ varjayitvā praśastā hyuttarottarāḥ ||
तिस्रश्चान्वष्टकाः पुण्या माघी पञ्चदशी तथा ॥ (४।२)
tisraścānvaṣṭakāḥ puṇyā māghī pañcadaśī tathā ||
शस्यापाकश्राद्धकाला नित्याः प्रोक्ता दिने दिने ॥ (५।२)
śasyāpākaśrāddhakālā nityāḥ proktā dine dine ||
नैमित्तिकं तु कर्तव्यं ग्रहणे चन्द्रसूर्ययोः । (६।१)
naimittikaṃ tu kartavyaṃ grahaṇe candrasūryayoḥ |
काम्यानि चैव श्राद्धानि शस्यन्ते ग्रहणादिषु । (७।१)
kāmyāni caiva śrāddhāni śasyante grahaṇādiṣu |
संक्रान्त्यमक्षयं श्राद्धं तथा जन्मदिनेष्वपि । (८।१)
saṃkrāntyamakṣayaṃ śrāddhaṃ tathā janmadineṣvapi |
नक्षत्रेषु च सर्वेषु कार्यं काम्यं विशेषतः ॥ (८।२)
nakṣatreṣu ca sarveṣu kāryaṃ kāmyaṃ viśeṣataḥ ||
स्वर्गं च लभते कृत्वा कृत्तिकासु द्विजोत्तमः । (९।१)
svargaṃ ca labhate kṛtvā kṛttikāsu dvijottamaḥ |
अपत्यमथ रोहिण्यां सौम्ये तु ब्रह्मवर्चसम् ॥ (९।२)
apatyamatha rohiṇyāṃ saumye tu brahmavarcasam ||
रौद्राणां कर्मणां सिद्धिमार्द्रायां शौर्यमेव च । (१०।१)
raudrāṇāṃ karmaṇāṃ siddhimārdrāyāṃ śauryameva ca |
पुनर्वसौ तथा भूमिं श्रियं पुष्ये तथैव च ॥ (१०।२)
punarvasau tathā bhūmiṃ śriyaṃ puṣye tathaiva ca ||
सर्वान् कामांस्तथा सार्पे पित्र्ये सौभाग्यमेव च । (११।१)
sarvān kāmāṃstathā sārpe pitrye saubhāgyameva ca |
अर्यम्णे तु धनं विन्द्यात् फाल्गुन्यां पापनाशनम् ॥ (११।२)
aryamṇe tu dhanaṃ vindyāt phālgunyāṃ pāpanāśanam ||
ज्ञातिश्रैष्ठ्यं तथा हस्ते चित्रायां च बहून् सुतान् । (१२।१)
jñātiśraiṣṭhyaṃ tathā haste citrāyāṃ ca bahūn sutān |
वाणिज्यसिद्धिं स्वातौ तु विशाखासु सुवर्णकम् ॥ (१२।२)
vāṇijyasiddhiṃ svātau tu viśākhāsu suvarṇakam ||
मैत्रे बहूनि मित्राणि राज्यं शाक्रे तथैव च । (१३।१)
maitre bahūni mitrāṇi rājyaṃ śākre tathaiva ca |
मूले कृषिं लभेद् यानसिद्धिमाप्ये समुद्रतः ॥ (१३।२)
mūle kṛṣiṃ labhed yānasiddhimāpye samudrataḥ ||
सर्वान् कामान् वैश्वदेवे श्रैष्ठ्यं तु श्रवणे पुनः । (१४।१)
sarvān kāmān vaiśvadeve śraiṣṭhyaṃ tu śravaṇe punaḥ |
श्रविष्ठायां तथा कामान् वारुणे च परं बलम् ॥ (१४।२)
śraviṣṭhāyāṃ tathā kāmān vāruṇe ca paraṃ balam ||
अजैकपादे कुप्यं स्याद् अहिर्बुध्न्ये गृहं शुभम् । (१५।१)
ajaikapāde kupyaṃ syād ahirbudhnye gṛhaṃ śubham |
रेवत्यां बहवो गावो ह्यश्विन्यां तुरगांस्तथा । (१५।२)
revatyāṃ bahavo gāvo hyaśvinyāṃ turagāṃstathā |
याम्ये ऽथ जीवनं तत् स्याद्यदि श्राद्धं प्रयच्छति ॥ (१५।३)
yāmye 'tha jīvanaṃ tat syādyadi śrāddhaṃ prayacchati ||
आदित्यवारे त्वारोग्यं चन्द्रे सौभाग्यमेव च । (१६।१)
ādityavāre tvārogyaṃ candre saubhāgyameva ca |
कौजे सर्वत्र विजयं सर्वान् कामान् बुधस्य तु ॥ (१६।२)
kauje sarvatra vijayaṃ sarvān kāmān budhasya tu ||
विद्याम् अभीष्टां जीवे तु धनं वै भार्गवे पुनः । (१७।१)
vidyām abhīṣṭāṃ jīve tu dhanaṃ vai bhārgave punaḥ |
शमैश्वरे लभेदायुः प्रतिपत्सु सुतान् शुभान् ॥ (१७।२)
śamaiśvare labhedāyuḥ pratipatsu sutān śubhān ||
कन्यकां वै द्वितीयायां तृतीयायां तु वन्दिनः । (१८।१)
kanyakāṃ vai dvitīyāyāṃ tṛtīyāyāṃ tu vandinaḥ |
पशून्क्षुद्रांश्चतुर्थ्यां तु पञ्चम्यांशोभनान् सुतान् ॥ (१८।२)
paśūnkṣudrāṃścaturthyāṃ tu pañcamyāṃśobhanān sutān ||
षष्ट्यां द्यूतं कृषिं चापि सप्तम्यां लभते नरः । (१९।१)
ṣaṣṭyāṃ dyūtaṃ kṛṣiṃ cāpi saptamyāṃ labhate naraḥ |
अष्टम्यामपि वाणिज्यं लभते श्राद्धदः सदा ॥ (१९।२)
aṣṭamyāmapi vāṇijyaṃ labhate śrāddhadaḥ sadā ||
स्यान्नवम्यामेकखुरं दशम्यां द्विखुरं बहु । (२०।१)
syānnavamyāmekakhuraṃ daśamyāṃ dvikhuraṃ bahu |
एकादश्यां तथा रूप्यं ब्रह्मवर्चस्विनः सुतान् ॥ (२०।२)
ekādaśyāṃ tathā rūpyaṃ brahmavarcasvinaḥ sutān ||
ज्ञातिश्रैष्ठ्यं त्रयोदश्यां चतुर्दश्यां तु क्रुप्रजाः । (२१।२)
jñātiśraiṣṭhyaṃ trayodaśyāṃ caturdaśyāṃ tu kruprajāḥ |
पञ्चदश्यां सर्वकामानाप्नोति श्राद्धदः सदा ॥ (२१।३)
pañcadaśyāṃ sarvakāmānāpnoti śrāddhadaḥ sadā ||
तस्माच्छ्राद्धं न कर्तव्यं चतुर्दश्यां द्विजातिभिः । (२२।१)
tasmācchrāddhaṃ na kartavyaṃ caturdaśyāṃ dvijātibhiḥ |
शस्त्रेण तु हतानां वै तत्र श्राद्धं प्रकल्पयेत् ॥ (२२।२)
śastreṇa tu hatānāṃ vai tatra śrāddhaṃ prakalpayet ||
द्रव्यब्राह्मणसंपत्तौ न कालनियमः कृतः । (२३।१)
dravyabrāhmaṇasaṃpattau na kālaniyamaḥ kṛtaḥ |
तस्माद् भोगापवर्गार्थं श्राद्धं कुर्युर्द्विजातयः ॥ (२३।२)
tasmād bhogāpavargārthaṃ śrāddhaṃ kuryurdvijātayaḥ ||
कर्मारम्भेषु सर्वेषु कुर्याद् आ अभ्युदयं पुनः । (२४।१)
karmārambheṣu sarveṣu kuryād ā abhyudayaṃ punaḥ |
पुत्रजन्मादिषु श्राद्धं पार्वणं पर्वणि स्मृतम् ॥ (२४।२)
putrajanmādiṣu śrāddhaṃ pārvaṇaṃ parvaṇi smṛtam ||
अहन्यहनि नित्यं स्यात् काम्यं नैमित्तिकं पुनः । (२५।१)
ahanyahani nityaṃ syāt kāmyaṃ naimittikaṃ punaḥ |
एकोद्दिष्टादि विज्ञेयं वृद्धिश्राद्धं तु पार्वणम् ॥ (२५।२)
ekoddiṣṭādi vijñeyaṃ vṛddhiśrāddhaṃ tu pārvaṇam ||
एतत् पञ्चविधं श्राद्धं मनुना परिकीर्तितम् । (२६।१)
etat pañcavidhaṃ śrāddhaṃ manunā parikīrtitam |
यात्रायां षष्ठमाख्यातं तत्प्रयत्नेन पालयेत् ॥ (२६।२)
yātrāyāṃ ṣaṣṭhamākhyātaṃ tatprayatnena pālayet ||
शुद्धये सप्तमं श्राद्धं ब्रह्मणा परिभाषितम् । (२७।१)
śuddhaye saptamaṃ śrāddhaṃ brahmaṇā paribhāṣitam |
दैविकं चाष्टमं श्राद्धं यत्कृत्वा मुच्यते भयात् ॥ (२७।२)
daivikaṃ cāṣṭamaṃ śrāddhaṃ yatkṛtvā mucyate bhayāt ||
संध्यारात्र्योर्न कर्तव्यं राहोरन्यत्र दर्शनात् । (२८।१)
saṃdhyārātryorna kartavyaṃ rāhoranyatra darśanāt |
गङ्गायामक्षयं श्राद्धं प्रयागे ऽमरकण्टके । (२९।१)
gaṅgāyāmakṣayaṃ śrāddhaṃ prayāge 'marakaṇṭake |
गायन्ति पितरो गाथां कीर्तयन्ति मनीषिणः ॥ (२९।२)
gāyanti pitaro gāthāṃ kīrtayanti manīṣiṇaḥ ||
एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः । (३०।१)
eṣṭavyā bahavaḥ putrāḥ śīlavanto guṇānvitāḥ |
तेषां तु समवेतानां यद्येको ऽपि गयां व्रजेत् ॥ (३०।२)
teṣāṃ tu samavetānāṃ yadyeko 'pi gayāṃ vrajet ||
गयां प्राप्यानुषङ्गेण यदि श्राद्धं समाचरेत् । (३१।१)
gayāṃ prāpyānuṣaṅgeṇa yadi śrāddhaṃ samācaret |
वाराणस्यां विशेषेण यत्र देवः स्वयं हरः ॥ (३२।२)
vārāṇasyāṃ viśeṣeṇa yatra devaḥ svayaṃ haraḥ ||
गङ्गाद्वारे प्रभासे च बिल्वके नीलपर्वते । (३३।१)
gaṅgādvāre prabhāse ca bilvake nīlaparvate |
कुरुक्षेत्रे च कुब्जाम्रे भृगुतुङ्गे महालये ॥ (३३।२)
kurukṣetre ca kubjāmre bhṛgutuṅge mahālaye ||
नर्मदायां कुशावर्ते श्रीशैले भद्रकर्णके । (३५।१)
narmadāyāṃ kuśāvarte śrīśaile bhadrakarṇake |
वेत्रवत्यां विपाशायां गोदावर्यां विशेषतः ॥ (३५।२)
vetravatyāṃ vipāśāyāṃ godāvaryāṃ viśeṣataḥ ||
व्रीहिभिश्च यवैर्माषैर् अद्भिर् मूलफलेन वा । (३७।१)
vrīhibhiśca yavairmāṣair adbhir mūlaphalena vā |
श्यामाकैश्च यवैः शाकैर् नीवारैश्च प्रियङ्गुभिः । (३७।२)
śyāmākaiśca yavaiḥ śākair nīvāraiśca priyaṅgubhiḥ |
गौधूमैश्च तिलैर्मुद्गैर्मासं प्रीणयते पितॄन् ॥ (३७।३)
gaudhūmaiśca tilairmudgairmāsaṃ prīṇayate pitṝn ||
आम्रान् पाने रतानिक्षून् मृद्वीकांश्च सदाडिमान् । (३८।१)
āmrān pāne ratānikṣūn mṛdvīkāṃśca sadāḍimān |
विदार्याश्च भरण्डाश्च श्राद्धकाले प्रदापयेत् ॥ (३८।२)
vidāryāśca bharaṇḍāśca śrāddhakāle pradāpayet ||
लाजान् मधुयुतान् दद्यात् सक्तून् शर्करया सह । (३९।१)
lājān madhuyutān dadyāt saktūn śarkarayā saha |
दद्याच्छ्राद्धे प्रयत्नेन शृङ्गाटककशेरुकान् ॥ (३९।२)
dadyācchrāddhe prayatnena śṛṅgāṭakakaśerukān ||
द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु । (४०।१)
dvau māsau matsyamāṃsena trīn māsān hāriṇena tu |
षण्मासांश्छागमांसेन पार्षतेनाथ सप्त वै । (४१।१)
ṣaṇmāsāṃśchāgamāṃsena pārṣatenātha sapta vai |
वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ (४३।२)
vārdhrīṇasasya māṃsena tṛptirdvādaśavārṣikī ||
आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः ॥ (४४।२)
ānantyāyaiva kalpante munyannāni ca sarvaśaḥ ||
क्रीत्वा लब्ध्वा स्वयं वाथ मृतानाहृत्य वा द्विजः । (४५।१)
krītvā labdhvā svayaṃ vātha mṛtānāhṛtya vā dvijaḥ |
दद्याच्छ्राद्धे प्रयत्नेन तदस्याक्षयमुच्यते ॥ (४५।२)
dadyācchrāddhe prayatnena tadasyākṣayamucyate ||
पिप्पलीं क्रमुकं चैव तथा चैव मसूरकम् । (४६।१)
pippalīṃ kramukaṃ caiva tathā caiva masūrakam |
कूष्माण्डालाबुवार्ताकान् भूस्तृणं सुरसं तथा ॥ (४६।२)
kūṣmāṇḍālābuvārtākān bhūstṛṇaṃ surasaṃ tathā ||
राजमाषांस्तथा क्षीरं माहिषं च विवर्जयेत् ॥ (४७।२)
rājamāṣāṃstathā kṣīraṃ māhiṣaṃ ca vivarjayet ||
कोद्रवान् कोविदारांश्च पालक्यान् मरिचांस्तथा । (४८।१)
kodravān kovidārāṃśca pālakyān maricāṃstathā |
वर्जयेत् सर्वयत्नेन श्राद्धकाले द्विजोत्तमः ॥ (४८।२)
varjayet sarvayatnena śrāddhakāle dvijottamaḥ ||
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे विंशो ऽध्यायः ॥ (४९।१)
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge viṃśo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.