KūPur, 2, 28
Select a line for its word-by-word analysis.
चतुर्थमायुषो भागं संन्यासेन नयेत् क्रमात् ॥ (१।३)
caturthamāyuṣo bhāgaṃ saṃnyāsena nayet kramāt ||
अग्नीन् आत्मनि संस्थाप्य द्विजः प्रव्रजितो भवेत् । (२।१)
agnīn ātmani saṃsthāpya dvijaḥ pravrajito bhavet |
तदा संन्यासमिच्छेच्च पतितः स्याद् विपर्यये ॥ (३।२)
tadā saṃnyāsamicchecca patitaḥ syād viparyaye ||
प्राजापत्यां निरूप्येष्टिमाग्नेयीमथवा पुनः । (४।१)
prājāpatyāṃ nirūpyeṣṭimāgneyīmathavā punaḥ |
दान्तः पक्वकषायो ऽसौ ब्रह्माश्रममुपाश्रयेत् ॥ (४।२)
dāntaḥ pakvakaṣāyo 'sau brahmāśramamupāśrayet ||
कर्मसंन्यासिनस्त्वन्ये त्रिविधाः परिकीर्तिताः ॥ (५।२)
karmasaṃnyāsinastvanye trividhāḥ parikīrtitāḥ ||
यः सर्वसङ्गनिर्मुक्तो निर्द्वन्द्वश्चैव निर्भयः । (६।१)
yaḥ sarvasaṅganirmukto nirdvandvaścaiva nirbhayaḥ |
प्रोच्यते ज्ञानसंन्यासी स्वात्मन्येव व्यवस्थितः ॥ (६।२)
procyate jñānasaṃnyāsī svātmanyeva vyavasthitaḥ ||
प्रोच्यते वेदसंन्यासी मुमुक्षुर्विजितेन्द्रियः ॥ (७।२)
procyate vedasaṃnyāsī mumukṣurvijitendriyaḥ ||
यस्त्वग्नीन् आत्मसात्कृत्वा ब्रह्मार्पणपरो द्विजः । (८।१)
yastvagnīn ātmasātkṛtvā brahmārpaṇaparo dvijaḥ |
त्रयाणामपि चैतेषां ज्ञानी त्वभ्यधिको मतः । (९।१)
trayāṇāmapi caiteṣāṃ jñānī tvabhyadhiko mataḥ |
न तस्य विद्यते कार्यं न लिङ्गं वा विपश्चितः ॥ (९।२)
na tasya vidyate kāryaṃ na liṅgaṃ vā vipaścitaḥ ||
निर्ममो निर्भयः शान्तो निर्द्वन्द्वः पर्णभोजनः । (१०।१)
nirmamo nirbhayaḥ śānto nirdvandvaḥ parṇabhojanaḥ |
जीर्णकौपीनवासाः स्यान्नग्नो वा ध्यानतत्परः ॥ (१०।२)
jīrṇakaupīnavāsāḥ syānnagno vā dhyānatatparaḥ ||
ब्रह्मचारी मिताहारो ग्रामादन्नं समाहरेत् । (११।१)
brahmacārī mitāhāro grāmādannaṃ samāharet |
नाध्येतव्यं न वक्तव्यं श्रोतव्यं न कदाचन । (१३।२)
nādhyetavyaṃ na vaktavyaṃ śrotavyaṃ na kadācana |
एवं ज्ञात्वा परो योगी ब्रह्मभूयाय कल्पते ॥ (१३।३)
evaṃ jñātvā paro yogī brahmabhūyāya kalpate ||
मुण्डी शिखी वाथ भवेत् त्रिदण्डी निष्परिग्रहः । (१४।२)
muṇḍī śikhī vātha bhavet tridaṇḍī niṣparigrahaḥ |
ग्रामान्ते वृक्षमूले वा वसेद् देवालये ऽपि वा । (१५।१)
grāmānte vṛkṣamūle vā vased devālaye 'pi vā |
भैक्ष्येण वर्तयेन्नित्यं नैकान्नादी भवेत् क्वचित् ॥ (१५।३)
bhaikṣyeṇa vartayennityaṃ naikānnādī bhavet kvacit ||
यस्तु मोहेन वालस्याद् एकान्नादी भवेद् यतिः । (१६।१)
yastu mohena vālasyād ekānnādī bhaved yatiḥ |
न तस्य निष्कृतिः काचिद् धर्मशास्त्रेषु कथ्यते ॥ (१६।२)
na tasya niṣkṛtiḥ kācid dharmaśāstreṣu kathyate ||
प्राणिहंसानिवृत्तश्च मौनी स्यात् सर्वनिस्पृहः ॥ (१७।२)
prāṇihaṃsānivṛttaśca maunī syāt sarvanispṛhaḥ ||
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् । (१८।१)
dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet |
सत्यपूतां वदेद् वाणीं मनःपूतं समाचरेत् ॥ (१८।२)
satyapūtāṃ vaded vāṇīṃ manaḥpūtaṃ samācaret ||
नैकत्र निवसेद् देशे वर्षाभ्यो ऽन्यत्र भिक्षुकः । (१९।१)
naikatra nivased deśe varṣābhyo 'nyatra bhikṣukaḥ |
मोक्षशास्त्रेषु निरतो ब्रह्मसूत्री जितेन्द्रियः ॥ (२०।२)
mokṣaśāstreṣu nirato brahmasūtrī jitendriyaḥ ||
दम्भाहङ्कारनिर्मुक्तो निन्दापैशुन्यवर्जितः । (२१।१)
dambhāhaṅkāranirmukto nindāpaiśunyavarjitaḥ |
अभ्यसेत् सततं वेदं प्रणवाख्यं सनातनम् । (२२।१)
abhyaset satataṃ vedaṃ praṇavākhyaṃ sanātanam |
आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥ (२४।२)
ādhyātmikaṃ ca satataṃ vedāntābhihitaṃ ca yat ||
पुत्रेषु वाथ निवसन् ब्रह्मचारी यतिर्मुनिः । (२५।१)
putreṣu vātha nivasan brahmacārī yatirmuniḥ |
वेदमेवाभ्यसेन्नित्यं स याति परमां गतिम् ॥ (२५।२)
vedamevābhyasennityaṃ sa yāti paramāṃ gatim ||
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं तपः परम् । (२६।१)
ahiṃsā satyamasteyaṃ brahmacaryaṃ tapaḥ param |
वेदान्तज्ञाननिष्ठो वा पञ्च यज्ञान् समाहितः । (२७।१)
vedāntajñānaniṣṭho vā pañca yajñān samāhitaḥ |
कुर्यादहरहः स्नात्वा भिक्षान्नेनैव तेन हि ॥ (२७।२)
kuryādaharahaḥ snātvā bhikṣānnenaiva tena hi ||
होममन्त्राञ्जपेन्नित्यं काले काले समाहितः । (२८।१)
homamantrāñjapennityaṃ kāle kāle samāhitaḥ |
स्वाध्यायं चान्वहं कुर्यात् सावित्रीं संध्ययोर्जपेत् ॥ (२८।२)
svādhyāyaṃ cānvahaṃ kuryāt sāvitrīṃ saṃdhyayorjapet ||
एकान्नं वर्जयेन्नित्यं कामं क्रोधं परिग्रहम् ॥ (२९।२)
ekānnaṃ varjayennityaṃ kāmaṃ krodhaṃ parigraham ||
कमण्डलुकरो विद्वान् त्रिदण्डी याति तत्परम् ॥ (३०।२)
kamaṇḍalukaro vidvān tridaṇḍī yāti tatparam ||
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे ऽष्टाविंशो ऽध्यायः ॥ (३१।१)
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge 'ṣṭāviṃśo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.