कूर्मपुराणKūrmapurāṇa

KūPur, 2, 7

58 of 95 · 66 verses

Select a line for its word-by-word analysis.

1.1१.१

ईश्वर उवाच । (१।१)

īśvara uvāca

1.2१.२

शृणुध्वमृषयः सर्वे प्रभावं परमेष्ठिनः । (१।२)

śṛṇudhvamṛṣayaḥ sarve prabhāvaṃ parameṣṭhinaḥ |

1.3१.३

यं ज्ञात्वा पुरुषो मुक्तो न संसारे पतेत् पुनः ॥ (१।३)

yaṃ jñātvā puruṣo mukto na saṃsāre patet punaḥ ||

2.1२.१

परात् परतरं ब्रह्म शाश्वतं निष्कलं ध्रुवम् । (२।१)

parāt parataraṃ brahma śāśvataṃ niṣkalaṃ dhruvam |

2.2२.२

नित्यानन्दं निर्विकल्पं तद्धाम परमं मम ॥ (२।२)

nityānandaṃ nirvikalpaṃ taddhāma paramaṃ mama ||

3.1३.१

अहं ब्रह्मविदां ब्रह्मा स्वयंभूर्विश्वतोमुखः । (३।१)

ahaṃ brahmavidāṃ brahmā svayaṃbhūrviśvatomukhaḥ |

3.2३.२

मायाविनामहं देवः पुराणो हरिरव्ययः ॥ (३।२)

māyāvināmahaṃ devaḥ purāṇo hariravyayaḥ ||

4.1४.१

योगिनामस्म्यहं शंभुः स्त्रीणां देवी गिरीन्द्रजा । (४।१)

yogināmasmyahaṃ śaṃbhuḥ strīṇāṃ devī girīndrajā |

4.2४.२

आदित्यानामहं विष्णुर्वसूनामस्मि पावकः ॥ (४।२)

ādityānāmahaṃ viṣṇurvasūnāmasmi pāvakaḥ ||

5.1५.१

रुद्राणां शङ्करश्चाहं गरुडः पततामहम् । (५।१)

rudrāṇāṃ śaṅkaraścāhaṃ garuḍaḥ patatāmaham |

5.2५.२

ऐरावतो गजेन्द्राणां रामः शस्त्रभृतामहम् ॥ (५।२)

airāvato gajendrāṇāṃ rāmaḥ śastrabhṛtāmaham ||

6.1६.१

ऋषीणां च वसिष्ठो ऽहं देवानां च शतक्रतुः । (६।१)

ṛṣīṇāṃ ca vasiṣṭho 'haṃ devānāṃ ca śatakratuḥ |

6.2६.२

शिल्पिनां विश्वकर्माहं प्रह्लादो ऽस्म्यमरद्विषाम् ॥ (६।२)

śilpināṃ viśvakarmāhaṃ prahlādo 'smyamaradviṣām ||

7.1७.१

मुनीनामप्यहं व्यासो गणानां च विनायकः । (७।१)

munīnāmapyahaṃ vyāso gaṇānāṃ ca vināyakaḥ |

7.2७.२

वीराणां वीरभद्रो ऽहं सिद्धानां कपिलो मुनिः ॥ (७।२)

vīrāṇāṃ vīrabhadro 'haṃ siddhānāṃ kapilo muniḥ ||

8.1८.१

पर्वतानामहं मेरुर्नक्षत्राणां च चन्द्रमाः । (८।१)

parvatānāmahaṃ merurnakṣatrāṇāṃ ca candramāḥ |

8.2८.२

वज्रं प्रहरणानां च व्रतानां सत्यमस्म्यहम् ॥ (८।२)

vajraṃ praharaṇānāṃ ca vratānāṃ satyamasmyaham ||

9.1९.१

अनन्तो भोगिनां देवः सेनानीनां च पावकिः । (९।१)

ananto bhogināṃ devaḥ senānīnāṃ ca pāvakiḥ |

9.2९.२

आश्रमाणां च गार्हस्थ्यम् ईश्वराणां महेश्वरः ॥ (९।२)

āśramāṇāṃ ca gārhasthyam īśvarāṇāṃ maheśvaraḥ ||

10.1१०.१

महाकल्पश्च कल्पानां युगानां कृतमस्म्यहम् । (१०।१)

mahākalpaśca kalpānāṃ yugānāṃ kṛtamasmyaham |

10.2१०.२

कुबेरः सर्वयक्षाणां गणेशानां च वीरकः ॥ (१०।२)

kuberaḥ sarvayakṣāṇāṃ gaṇeśānāṃ ca vīrakaḥ ||

11.1११.१

प्रजापतीनां दक्षो ऽहं निरृतिः सर्वरक्षसाम् । (११।१)

prajāpatīnāṃ dakṣo 'haṃ nirṛtiḥ sarvarakṣasām |

11.2११.२

वायुर्बलवतामस्मि द्वीपानां पुष्करो ऽस्म्यहम् ॥ (११।२)

vāyurbalavatāmasmi dvīpānāṃ puṣkaro 'smyaham ||

12.1१२.१

मृगेन्द्राणां च सिंहो ऽहं यन्त्राणां धनुरेव च । (१२।१)

mṛgendrāṇāṃ ca siṃho 'haṃ yantrāṇāṃ dhanureva ca |

12.2१२.२

वेदानां सामवेदो ऽहं यजुषां शतरुद्रियम् ॥ (१२।२)

vedānāṃ sāmavedo 'haṃ yajuṣāṃ śatarudriyam ||

13.1१३.१

सावित्री सर्वजप्यानां गुह्यानां प्रणवो ऽस्म्यहम् । (१३।१)

sāvitrī sarvajapyānāṃ guhyānāṃ praṇavo 'smyaham |

13.2१३.२

सूक्तानां पौरुषं सूक्तं ज्येष्ठसाम च सामसु ॥ (१३।२)

sūktānāṃ pauruṣaṃ sūktaṃ jyeṣṭhasāma ca sāmasu ||

14.1१४.१

सर्ववेदार्थविदुषां मनुः स्वायंभुवो ऽस्म्यहम् । (१४।१)

sarvavedārthaviduṣāṃ manuḥ svāyaṃbhuvo 'smyaham |

14.2१४.२

ब्रह्मावर्तस्तु देशानां क्षेत्राणामविमुक्तकम् ॥ (१४।२)

brahmāvartastu deśānāṃ kṣetrāṇāmavimuktakam ||

15.1१५.१

विद्यानामात्मविद्याहं ज्ञानानामैश्वरं परम् । (१५।१)

vidyānāmātmavidyāhaṃ jñānānāmaiśvaraṃ param |

15.2१५.२

भूतानामस्म्यहं व्योम सत्त्वानां मृत्युरेव च ॥ (१५।२)

bhūtānāmasmyahaṃ vyoma sattvānāṃ mṛtyureva ca ||

16.1१६.१

पाशानामस्म्यहं माया कालः कलयतामहम् । (१६।१)

pāśānāmasmyahaṃ māyā kālaḥ kalayatāmaham |

16.2१६.२

गतीनां मुक्तिरेवाहं परेषां परमेश्वरः ॥ (१६।२)

gatīnāṃ muktirevāhaṃ pareṣāṃ parameśvaraḥ ||

17.1१७.१

यच्चान्यदपि लोके ऽस्मिन् सत्त्वं तेजोबलाधिकम् । (१७।१)

yaccānyadapi loke 'smin sattvaṃ tejobalādhikam |

17.2१७.२

तत्सर्वं प्रतिजानीध्वं मम तेजोविजृम्भितम् ॥ (१७।२)

tatsarvaṃ pratijānīdhvaṃ mama tejovijṛmbhitam ||

18.1१८.१

आत्मानः पशवः प्रोक्ताः सर्वे संसारवर्तिनः । (१८।१)

ātmānaḥ paśavaḥ proktāḥ sarve saṃsāravartinaḥ |

18.2१८.२

तेषां पतिरहं देवः स्मृतः पशुपतिर्बुधैः ॥ (१८।२)

teṣāṃ patirahaṃ devaḥ smṛtaḥ paśupatirbudhaiḥ ||

19.1१९.१

मायापाशेन बध्नामि पशूनेतान् स्वलीलया । (१९।१)

māyāpāśena badhnāmi paśūnetān svalīlayā |

19.2१९.२

मामेव मोचकं प्राहुः पशूनां वेदवादिनः ॥ (१९।२)

māmeva mocakaṃ prāhuḥ paśūnāṃ vedavādinaḥ ||

20.1२०.१

मायापाशेन बद्धानां मोचको ऽन्यो न विद्यते । (२०।१)

māyāpāśena baddhānāṃ mocako 'nyo na vidyate |

20.2२०.२

मामृते परमात्मानं भूताधिपतिमव्ययम् ॥ (२०।२)

māmṛte paramātmānaṃ bhūtādhipatimavyayam ||

21.1२१.१

चतुर्विंशतितत्त्वानि माया कर्म गुणा इति । (२१।१)

caturviṃśatitattvāni māyā karma guṇā iti |

21.2२१.२

एते पाशाः पशुपतेः क्लेशाश्च पशुबन्धनाः ॥ (२१।२)

ete pāśāḥ paśupateḥ kleśāśca paśubandhanāḥ ||

22.1२२.१

मनो बुद्धिरहङ्कारः खानिलाग्निजलानि भूः । (२२।१)

mano buddhirahaṅkāraḥ khānilāgnijalāni bhūḥ |

22.2२२.२

एताः प्रकृतयस्त्वष्टौ विकाराश्च तथापरे ॥ (२२।२)

etāḥ prakṛtayastvaṣṭau vikārāśca tathāpare ||

23.1२३.१

श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चैव तु पञ्चमम् । (२३।१)

śrotraṃ tvakcakṣuṣī jihvā ghrāṇaṃ caiva tu pañcamam |

23.2२३.२

पायूपस्थं करौ पादौ वाक् चैव दशमी मता ॥ (२३।२)

pāyūpasthaṃ karau pādau vāk caiva daśamī matā ||

24.1२४.१

शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च । (२४।१)

śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca |

24.2२४.२

त्रयोविंशतिरेतानि तत्त्वानि प्राकृतानि तु ॥ (२४।२)

trayoviṃśatiretāni tattvāni prākṛtāni tu ||

25.1२५.१

चतुर्विंशकमव्यक्तं प्रधानं गुणलक्षणम् । (२५।१)

caturviṃśakamavyaktaṃ pradhānaṃ guṇalakṣaṇam |

25.2२५.२

अनादिमध्यनिधनं कारणं जगतः परम् ॥ (२५।२)

anādimadhyanidhanaṃ kāraṇaṃ jagataḥ param ||

26.1२६.१

सत्त्वं रजस्तमश्चेति गुणत्रयमुदाहृतम् । (२६।१)

sattvaṃ rajastamaśceti guṇatrayamudāhṛtam |

26.2२६.२

साम्यावस्थितिमेतेषामव्यक्तं प्रकृतिं विदुः ॥ (२६।२)

sāmyāvasthitimeteṣāmavyaktaṃ prakṛtiṃ viduḥ ||

27.1२७.१

सत्त्वं ज्ञानं तमो ऽज्ञानं रजो मिश्रमुदाहृतम् । (२७।१)

sattvaṃ jñānaṃ tamo 'jñānaṃ rajo miśramudāhṛtam |

27.2२७.२

गुणानां बुद्धिवैषम्याद् वैषम्यं कवयो विदुः ॥ (२७।२)

guṇānāṃ buddhivaiṣamyād vaiṣamyaṃ kavayo viduḥ ||

28.1२८.१

धर्माधर्माविति प्रोक्तौ पाशौ द्वौ बन्धसंज्ञितौ । (२८।१)

dharmādharmāviti proktau pāśau dvau bandhasaṃjñitau |

28.2२८.२

मय्यर्पितानि कर्माणि निबन्धाय विमुक्तये ॥ (२८।२)

mayyarpitāni karmāṇi nibandhāya vimuktaye ||

29.1२९.१

अविद्यामस्मितां रागं द्वेषं चाभिनिवेशकम् । (२९।१)

avidyāmasmitāṃ rāgaṃ dveṣaṃ cābhiniveśakam |

29.2२९.२

क्लेशाख्यानचलान् प्राहुः पाशानात्मनिबन्धनान् ॥ (२९।२)

kleśākhyānacalān prāhuḥ pāśānātmanibandhanān ||

30.1३०.१

एतेषामेव पाशानां माया कारणमुच्यते । (३०।१)

eteṣāmeva pāśānāṃ māyā kāraṇamucyate |

30.2३०.२

मूलप्रकृतिरव्यक्ता सा शक्तिर्मयि तिष्ठति ॥ (३०।२)

mūlaprakṛtiravyaktā sā śaktirmayi tiṣṭhati ||

31.1३१.१

स एव मूलप्रकृतिः प्रधानं पुरुषो ऽपि च । (३१।१)

sa eva mūlaprakṛtiḥ pradhānaṃ puruṣo 'pi ca |

31.2३१.२

विकारा महदादीनि देवदेवः सनातनः ॥ (३१।२)

vikārā mahadādīni devadevaḥ sanātanaḥ ||

32.1३२.१

स एव बन्धः स च बन्धकर्ता स एव पाशः पशवः स एव । (३२।१)

sa eva bandhaḥ sa ca bandhakartā sa eva pāśaḥ paśavaḥ sa eva |

32.2३२.२

स वेद सर्वं न च तस्य वेत्ता तमाहुरग्र्यं पुरुषं पुराणम् ॥ (३२।२)

sa veda sarvaṃ na ca tasya vettā tamāhuragryaṃ puruṣaṃ purāṇam ||

33.1३३.१

इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे ईश्वरगीतासु सप्तमो ऽध्यायः ॥ (३३।१)

iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu saptamo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

KūPur, 2, 7

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit