KūPur, 2, 42
Select a line for its word-by-word analysis.
तीर्थानां च परं तीर्थं वितस्ता परमा नदी । (४।१)
tīrthānāṃ ca paraṃ tīrthaṃ vitastā paramā nadī |
यत्र माहेश्वरा धर्मा मुनिभिः सम्प्रवर्तिताः ॥ (७।२)
yatra māheśvarā dharmā munibhiḥ sampravartitāḥ ||
परित्यजति यः प्राणान् रुद्रलोकं स गच्छति ॥ (८।२)
parityajati yaḥ prāṇān rudralokaṃ sa gacchati ||
अन्यच्च तीर्थप्रवरं कन्यातीर्थमिति श्रुतम् । (९।१)
anyacca tīrthapravaraṃ kanyātīrthamiti śrutam |
तत्र गत्वा त्यजेत् प्राणांल्लोकान् प्राप्नोति शाश्वतान् ॥ (९।२)
tatra gatvā tyajet prāṇāṃllokān prāpnoti śāśvatān ||
जामदग्न्यस्य तु शुभं रामस्याक्लिष्टकर्मणः । (१०।१)
jāmadagnyasya tu śubhaṃ rāmasyākliṣṭakarmaṇaḥ |
तत्र स्नात्वा तीर्थवरे गोसहस्रफलं लभेत् ॥ (१०।२)
tatra snātvā tīrthavare gosahasraphalaṃ labhet ||
महाकालमिति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् । (११।१)
mahākālamiti khyātaṃ tīrthaṃ trailokyaviśrutam |
गत्वा प्राणान् परित्यज्य गाणपत्यमवाप्नुयात् ॥ (११।२)
gatvā prāṇān parityajya gāṇapatyamavāpnuyāt ||
गुह्याद् गुह्यतमं तीर्थं नकुलीश्वरमुत्तमम् । (१२।१)
guhyād guhyatamaṃ tīrthaṃ nakulīśvaramuttamam |
तत्र संनिहितः श्रीमान् भगवान् नकुलीश्वरः ॥ (१२।२)
tatra saṃnihitaḥ śrīmān bhagavān nakulīśvaraḥ ||
देव्या सह महादेवो नित्यं शिष्यैश्च संवृतः ॥ (१३।२)
devyā saha mahādevo nityaṃ śiṣyaiśca saṃvṛtaḥ ||
तत्र स्नात्वा महादेवं पूजयित्वा वृषध्वजम् । (१४।१)
tatra snātvā mahādevaṃ pūjayitvā vṛṣadhvajam |
सर्वपापैर्विमुच्येत मृतस्तज्ज्ञानमाप्नुयात् ॥ (१४।२)
sarvapāpairvimucyeta mṛtastajjñānamāpnuyāt ||
अन्यच्च देवदेवस्य स्थानं पुण्यतमं शुभम् । (१५।१)
anyacca devadevasya sthānaṃ puṇyatamaṃ śubham |
भीमेश्वरमिति ख्यातं गत्वा मुञ्चति पातकम् ॥ (१५।२)
bhīmeśvaramiti khyātaṃ gatvā muñcati pātakam ||
तत्र स्नात्वा च पीत्वा च मुच्यते ब्रह्महत्यया ॥ (१६।२)
tatra snātvā ca pītvā ca mucyate brahmahatyayā ||
तस्याः पुरस्तान्माहात्म्यं भाषितं वो मया त्विह । (१८।१)
tasyāḥ purastānmāhātmyaṃ bhāṣitaṃ vo mayā tviha |
नान्यत्र लभ्यते मुक्तिर्योगिनाप्येकजन्मना ॥ (१८।२)
nānyatra labhyate muktiryogināpyekajanmanā ||
एते प्राधान्यतः प्रोक्ता देशाः पापहरा नृणाम् । (१९।१)
ete prādhānyataḥ proktā deśāḥ pāpaharā nṛṇām |
गत्वा संक्षालयेत् पापं जन्मान्तरशतैः कृतम् ॥ (१९।२)
gatvā saṃkṣālayet pāpaṃ janmāntaraśataiḥ kṛtam ||
यः स्वधर्मान् परित्यज्य तीर्थसेवां करोति हि । (२०।१)
yaḥ svadharmān parityajya tīrthasevāṃ karoti hi |
प्रकुर्यात् तीर्थसंसेवां ये चान्ये तादृशा जनाः ॥ (२१।२)
prakuryāt tīrthasaṃsevāṃ ye cānye tādṛśā janāḥ ||
सहाग्निर्वा सपत्नीको गच्छेत् तीर्थानि यत्नतः । (२२।१)
sahāgnirvā sapatnīko gacchet tīrthāni yatnataḥ |
सर्वपापविनिर्मुक्तो यथोक्तां गतिमाप्नुयात् ॥ (२२।२)
sarvapāpavinirmukto yathoktāṃ gatimāpnuyāt ||
ऋणानि त्रीण्यपाकृत्य कुर्याद् वा तीर्थसेवनम् । (२३।१)
ṛṇāni trīṇyapākṛtya kuryād vā tīrthasevanam |
विधाय वृत्तिं पुत्राणां भार्यां तेषु निधाय च ॥ (२३।२)
vidhāya vṛttiṃ putrāṇāṃ bhāryāṃ teṣu nidhāya ca ||
प्रायश्चित्तप्रसङ्गेन तीर्थमाहात्म्यमीरितम् । (२४।१)
prāyaścittaprasaṅgena tīrthamāhātmyamīritam |
यः पठेच्छृणुयाद् वापि मुच्यते सर्वपातकैः ॥ (२४।२)
yaḥ paṭhecchṛṇuyād vāpi mucyate sarvapātakaiḥ ||
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे द्विचत्वारिंशो ऽध्यायः ॥ (२५।१)
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge dvicatvāriṃśo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.