KūPur, 2, 16
Select a line for its word-by-word analysis.
न हिंस्यात् सर्वभूतानि नानृतं वा वदेत् क्वचित् । (१।२)
na hiṃsyāt sarvabhūtāni nānṛtaṃ vā vadet kvacit |
नाहितं नाप्रियं वाक्यं न स्तेनः स्यात् कदाचन ॥ (१।३)
nāhitaṃ nāpriyaṃ vākyaṃ na stenaḥ syāt kadācana ||
न चान्यस्मादशक्तश्च निन्दितान् वर्जयेद् बुधः ॥ (३।२)
na cānyasmādaśaktaśca ninditān varjayed budhaḥ ||
नित्यं याचनको न स्यात् पुनस्तं नैव याचयेत् । (४।१)
nityaṃ yācanako na syāt punastaṃ naiva yācayet |
न देवद्रव्यहारी स्याद् विशेषेण द्विजोत्तमः । (५।१)
na devadravyahārī syād viśeṣeṇa dvijottamaḥ |
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते । (६।१)
na viṣaṃ viṣamityāhurbrahmasvaṃ viṣamucyate |
पुष्पे शाक्रोदके काष्ठे तथा मूले फले तृणे । (७।१)
puṣpe śākrodake kāṣṭhe tathā mūle phale tṛṇe |
ग्रहीतव्यानि पुष्पाणि देवार्चनविधौ द्विजाः । (८।१)
grahītavyāni puṣpāṇi devārcanavidhau dvijāḥ |
तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेद् बुधः । (९।१)
tṛṇaṃ kāṣṭhaṃ phalaṃ puṣpaṃ prakāśaṃ vai hared budhaḥ |
धर्मार्थं केवलं विप्रा ह्यन्यथा पतितो भवेत् ॥ (९।२)
dharmārthaṃ kevalaṃ viprā hyanyathā patito bhavet ||
तिलमुद्गयवादीनां मुष्टिर्ग्राह्या पथि स्थितैः । (१०।१)
tilamudgayavādīnāṃ muṣṭirgrāhyā pathi sthitaiḥ |
क्षुधार्तैर्नान्यथा विप्रा धर्मविद्भिरिति स्थितिः ॥ (१०।२)
kṣudhārtairnānyathā viprā dharmavidbhiriti sthitiḥ ||
न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् । (११।१)
na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret |
व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम् ॥ (११।२)
vratena pāpaṃ pracchādya kurvan strīśūdradambhanam ||
प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः । (१२।१)
pretyeha cedṛśo vipro garhyate brahmavādibhiḥ |
छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति ॥ (१२।२)
chadmanācaritaṃ yacca vrataṃ rakṣāṃsi gacchati ||
स लिङ्गिनां हरेदेनस्तिर्यग्योनौ च जायते ॥ (१३।२)
sa liṅgināṃ haredenastiryagyonau ca jāyate ||
सद्यः पतन्ति पापेषु कर्मणस्तस्य तत् फलम् ॥ (१४।२)
sadyaḥ patanti pāpeṣu karmaṇastasya tat phalam ||
पाषण्डिनो विकर्मस्थान् वामाचारांस्तथैव च । (१५।१)
pāṣaṇḍino vikarmasthān vāmācārāṃstathaiva ca |
पञ्चरात्रान् पाशुपतान् वाङ्मात्रेणापि नार्चयेत् ॥ (१५।२)
pañcarātrān pāśupatān vāṅmātreṇāpi nārcayet ||
वेदनिन्दारतान् मर्त्यान् देवनिन्दारतांस्तथा । (१६।१)
vedanindāratān martyān devanindāratāṃstathā |
द्विजनिन्दारतांश्चैव मनसापि न चिन्तयेत् ॥ (१६।२)
dvijanindāratāṃścaiva manasāpi na cintayet ||
कुर्वाणः पतते जन्तुस्तस्माद् यत्नेन वर्जयेत् ॥ (१७।२)
kurvāṇaḥ patate jantustasmād yatnena varjayet ||
ज्ञानापवादो नास्तिक्यं तस्मात् कोटिगुणाधिकम् ॥ (१८।२)
jñānāpavādo nāstikyaṃ tasmāt koṭiguṇādhikam ||
गोभिश्च दैवतैर्विप्रैः कृष्या राजोपसेवया । (१९।१)
gobhiśca daivatairvipraiḥ kṛṣyā rājopasevayā |
कुलान्यकुलतां यान्ति यानि हीनानि धर्मतः ॥ (१९।२)
kulānyakulatāṃ yānti yāni hīnāni dharmataḥ ||
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ (२०।२)
kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca ||
अनृतात् पारदार्याच्च तथाभक्ष्यस्य भक्षणात् । (२१।१)
anṛtāt pāradāryācca tathābhakṣyasya bhakṣaṇāt |
अश्रौतधर्माचरणात् क्षिप्रं नश्यति वै कुलम् ॥ (२१।२)
aśrautadharmācaraṇāt kṣipraṃ naśyati vai kulam ||
विहिताचारहीनेषु क्षिप्रं नश्यति वै कुलम् ॥ (२२।२)
vihitācārahīneṣu kṣipraṃ naśyati vai kulam ||
नाधार्मिकैर्वृते ग्रामे न व्याधिबहुले भृशम् । (२३।१)
nādhārmikairvṛte grāme na vyādhibahule bhṛśam |
हिमवद्विन्ध्ययोर्मध्ये पूर्वपश्चिमयोः शुभम् । (२४।१)
himavadvindhyayormadhye pūrvapaścimayoḥ śubham |
मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेद् द्विजः ॥ (२४।२)
muktvā samudrayordeśaṃ nānyatra nivased dvijaḥ ||
कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः । (२५।१)
kṛṣṇo vā yatra carati mṛgo nityaṃ svabhāvataḥ |
पुण्याश्च विश्रुता नद्यस्तत्र वा निवसेद् द्विजः ॥ (२५।२)
puṇyāśca viśrutā nadyastatra vā nivased dvijaḥ ||
अर्धक्रोशान्नदीकूलं वर्जयित्वा द्विजोत्तमः । (२६।१)
ardhakrośānnadīkūlaṃ varjayitvā dvijottamaḥ |
नान्यत्र निवसेत् पुण्यं नान्त्यजग्रामसन्निधौ ॥ (२६।२)
nānyatra nivaset puṇyaṃ nāntyajagrāmasannidhau ||
न संवसेच्च पतितैर्न चण्डालैर्न पुक्कसैः । (२७।१)
na saṃvasecca patitairna caṇḍālairna pukkasaiḥ |
न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः ॥ (२७।२)
na mūrkhairnāvaliptaiśca nāntyairnāntyāvasāyibhiḥ ||
एकशय्यासनं पङ्क्तिर्भाण्डपक्वान्नमिश्रणम् । (२८।१)
ekaśayyāsanaṃ paṅktirbhāṇḍapakvānnamiśraṇam |
एकादश समुद्दिष्टा दोषाः सांकर्यसंज्ञिताः ॥ (२९।२)
ekādaśa samuddiṣṭā doṣāḥ sāṃkaryasaṃjñitāḥ ||
समीपे वा व्यवस्थानात् पापं संक्रमते नृणाम् । (३०।१)
samīpe vā vyavasthānāt pāpaṃ saṃkramate nṛṇām |
तस्मात् सर्वप्रयत्नेन सांकर्यं परिवर्जयेत् ॥ (३०।२)
tasmāt sarvaprayatnena sāṃkaryaṃ parivarjayet ||
एकपङ्क्त्युपविष्टा ये न स्पृशन्ति परस्परम् । (३१।१)
ekapaṅktyupaviṣṭā ye na spṛśanti parasparam |
भस्मना कृतमर्यादा न तेषां संकरो भवेत् ॥ (३१।२)
bhasmanā kṛtamaryādā na teṣāṃ saṃkaro bhavet ||
द्वारेण स्तम्भमार्गेण षड्भिः पङ्क्तिर्विभिद्यते ॥ (३२।२)
dvāreṇa stambhamārgeṇa ṣaḍbhiḥ paṅktirvibhidyate ||
न कुर्याच्छुष्कवैराणि विवादं च न पैशुनम् । (३३।१)
na kuryācchuṣkavairāṇi vivādaṃ ca na paiśunam |
परक्षेत्रे गां धयन्तीं न चाचक्षीत कस्यचित् । (३३।२)
parakṣetre gāṃ dhayantīṃ na cācakṣīta kasyacit |
न संवदेत् सूतके च न कंचिन् मर्मणि स्पृशेत् ॥ (३३।३)
na saṃvadet sūtake ca na kaṃcin marmaṇi spṛśet ||
न सूर्यपरिवेषं वा नेन्द्रचापं शवाग्निकम् । (३४।१)
na sūryapariveṣaṃ vā nendracāpaṃ śavāgnikam |
परस्मै कथयेद् विद्वान् शशिनं वा कदाचन ॥ (३४।२)
parasmai kathayed vidvān śaśinaṃ vā kadācana ||
न कुर्याद् बहुभिः सार्धं विरोधं बन्धुभिस्तथा । (३५।१)
na kuryād bahubhiḥ sārdhaṃ virodhaṃ bandhubhistathā |
तिथिं पक्षस्य न ब्रूयात् न नक्षत्राणि निर्दिशेत् । (३६।१)
tithiṃ pakṣasya na brūyāt na nakṣatrāṇi nirdiśet |
नोदक्यामभिभाषेत नाशुचिं वा द्विजोत्तमः ॥ (३६।२)
nodakyāmabhibhāṣeta nāśuciṃ vā dvijottamaḥ ||
न चात्मानं प्रशंसेद् वा परनिन्दां च वर्जयेत् । (३७।२)
na cātmānaṃ praśaṃsed vā paranindāṃ ca varjayet |
वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्जयेत् ॥ (३७।३)
vedanindāṃ devanindāṃ prayatnena vivarjayet ||
यस्तु देवानृषीन् विप्रान्वेदान् वा निन्दति द्विजः । (३८।१)
yastu devānṛṣīn viprānvedān vā nindati dvijaḥ |
न तस्य निष्कृतिर्दृष्टा शास्त्रेष्विह मुनीश्वराः ॥ (३८।२)
na tasya niṣkṛtirdṛṣṭā śāstreṣviha munīśvarāḥ ||
निन्दयेद् वै गुरुं देवं वेदं वा सोपबृंहणम् । (३९।१)
nindayed vai guruṃ devaṃ vedaṃ vā sopabṛṃhaṇam |
तूष्णीमासीत निन्दायां न ब्रूयात् किंचिद् उत्तरम् । (४०।१)
tūṣṇīmāsīta nindāyāṃ na brūyāt kiṃcid uttaram |
कर्णौ पिधाय गन्तव्यं न चैतानवलोकयेत् ॥ (४०।२)
karṇau pidhāya gantavyaṃ na caitānavalokayet ||
वर्जयेद् वै रहस्यानि परेषां गूहयेद् बुधः । (४१।१)
varjayed vai rahasyāni pareṣāṃ gūhayed budhaḥ |
विवादं स्वजनैः सार्धं न कुर्याद् वै कदाचन ॥ (४१।२)
vivādaṃ svajanaiḥ sārdhaṃ na kuryād vai kadācana ||
न पापं पापिनां ब्रूयादपापं वा द्विजोत्तमाः । (४२।१)
na pāpaṃ pāpināṃ brūyādapāpaṃ vā dvijottamāḥ |
स तेन तुल्यदोषः स्यान्मिथ्या द्विर् देषवान् भवेत् ॥ (४२।२)
sa tena tulyadoṣaḥ syānmithyā dvir deṣavān bhavet ||
यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदनात् । (४३।१)
yāni mithyābhiśastānāṃ patantyaśrūṇi rodanāt |
तानि पुत्रान् पशून् घ्नन्ति तेषां मिथ्याभिशंसिनाम् ॥ (४३।२)
tāni putrān paśūn ghnanti teṣāṃ mithyābhiśaṃsinām ||
दृष्टं विशोधनं वृद्धैर्नास्ति मिथ्याभिशंसने ॥ (४४।२)
dṛṣṭaṃ viśodhanaṃ vṛddhairnāsti mithyābhiśaṃsane ||
नेक्षेतोद्यन्तमादित्यं शशिनं चानिमित्ततः । (४५।१)
nekṣetodyantamādityaṃ śaśinaṃ cānimittataḥ |
नास्तं यान्तं न वारिस्थं नोपसृष्टं न मघ्यगम् । (४५।२)
nāstaṃ yāntaṃ na vāristhaṃ nopasṛṣṭaṃ na maghyagam |
न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन । (४६।१)
na nagnāṃ striyamīkṣeta puruṣaṃ vā kadācana |
न च मूत्रं पुरीषं वा न च संस्पृष्टमैथुनम् । (४६।२)
na ca mūtraṃ purīṣaṃ vā na ca saṃspṛṣṭamaithunam |
नाशुचिः सूर्यसोमादीन् ग्रहानालोकयेद् बुधः ॥ (४६।३)
nāśuciḥ sūryasomādīn grahānālokayed budhaḥ ||
पतितव्यङ्गचण्डालानुच्छिष्टान् नावलोकयेत् । (४७।१)
patitavyaṅgacaṇḍālānucchiṣṭān nāvalokayet |
न पश्येत् प्रेतसंस्पर्शं न क्रुद्धस्य गुरोर्मुखम् । (४८।१)
na paśyet pretasaṃsparśaṃ na kruddhasya gurormukham |
नामुक्तबन्धनाङ्गां वा नोन्मत्तं मत्तमेव वा ॥ (४८।३)
nāmuktabandhanāṅgāṃ vā nonmattaṃ mattameva vā ||
नाश्नीयात् भार्यया सार्धंनैनामीक्षेत चाश्नतीम् । (४९।१)
nāśnīyāt bhāryayā sārdhaṃnaināmīkṣeta cāśnatīm |
क्षुवन्तीं जृम्भमाणां वा नासनस्थां यथासुखम् ॥ (४९।२)
kṣuvantīṃ jṛmbhamāṇāṃ vā nāsanasthāṃ yathāsukham ||
नोदके चात्मनो रूपं न कूलं श्वभ्रमेव वा । (५०।१)
nodake cātmano rūpaṃ na kūlaṃ śvabhrameva vā |
न लङ्घयेच्च मूत्रं वा नाधितिष्ठेत् कदाचन ॥ (५०।२)
na laṅghayecca mūtraṃ vā nādhitiṣṭhet kadācana ||
न शूद्राय मतिं दद्यात् कृशरं पायसं दधि । (५१।१)
na śūdrāya matiṃ dadyāt kṛśaraṃ pāyasaṃ dadhi |
नोच्छिष्टं वा मधु घृतं न च कृष्णाजिनं हविः ॥ (५१।२)
nocchiṣṭaṃ vā madhu ghṛtaṃ na ca kṛṣṇājinaṃ haviḥ ||
न चैवास्मै व्रतं दद्यान्न च धर्मं वदेद् बुधः । (५२।१)
na caivāsmai vrataṃ dadyānna ca dharmaṃ vaded budhaḥ |
न च क्रोधवशं गच्छेद् द्वेषं रागं च वर्जयेत् ॥ (५२।२)
na ca krodhavaśaṃ gacched dveṣaṃ rāgaṃ ca varjayet ||
लोभं दम्भं तथा यत्नादसूयां ज्ञानकुत्सनम् । (५३।१)
lobhaṃ dambhaṃ tathā yatnādasūyāṃ jñānakutsanam |
ईर्ष्यां मदं तथा शोकं मोहं च परिवर्जयेत् ॥ (५३।२)
īrṣyāṃ madaṃ tathā śokaṃ mohaṃ ca parivarjayet ||
न कुर्यात् कस्यचित् पीडां सुतं शिष्यं च ताडयेत् । (५४।१)
na kuryāt kasyacit pīḍāṃ sutaṃ śiṣyaṃ ca tāḍayet |
न हीनानुपसेवेत न च तीक्ष्णमतीन् क्वचित् ॥ (५४।२)
na hīnānupaseveta na ca tīkṣṇamatīn kvacit ||
नात्मानं चावमन्येत दैन्यं यत्नेन वर्जयेत् । (५५।१)
nātmānaṃ cāvamanyeta dainyaṃ yatnena varjayet |
न विशिष्टानसत्कुर्यात् नात्मानं वा शपेद् बुधः ॥ (५५।२)
na viśiṣṭānasatkuryāt nātmānaṃ vā śaped budhaḥ ||
न नखैर्विलिखेद् भूमिं गां च संवेशयेन्न हि । (५६।१)
na nakhairvilikhed bhūmiṃ gāṃ ca saṃveśayenna hi |
न नदीषु नदीं ब्रूयात् पर्वतेषु च पर्वतान् ॥ (५६।२)
na nadīṣu nadīṃ brūyāt parvateṣu ca parvatān ||
नावगाहेद् अपो नग्नो वह्निं नातिव्रजेत् पदा ॥ (५७।२)
nāvagāhed apo nagno vahniṃ nātivrajet padā ||
शिरो ऽभ्यङ्गावशिष्टेन तैलेनाङ्गं न लेपयेत् । (५८।१)
śiro 'bhyaṅgāvaśiṣṭena tailenāṅgaṃ na lepayet |
न सर्पशस्त्रैः क्रीडेत स्वानि खानि न संस्पृशेत् । (५८।२)
na sarpaśastraiḥ krīḍeta svāni khāni na saṃspṛśet |
न शिश्नोदरचापल्यं न च श्रवणयोः क्वचित् ॥ (५९।२)
na śiśnodaracāpalyaṃ na ca śravaṇayoḥ kvacit ||
न चाङ्गनखवादं वै कुर्यान्नाञ्जलिना पिबेत् । (६०।१)
na cāṅganakhavādaṃ vai kuryānnāñjalinā pibet |
नाभिहन्याज्जलं पद्भ्यां पाणिना वा कदाचन ॥ (६०।२)
nābhihanyājjalaṃ padbhyāṃ pāṇinā vā kadācana ||
न म्लेच्छभाषां शिक्षेत नाकर्षेच्च पदासनम् ॥ (६१।२)
na mlecchabhāṣāṃ śikṣeta nākarṣecca padāsanam ||
कुर्याद् विमर्दनं धीमान् नाकस्मादेव निष्फलम् ॥ (६२।२)
kuryād vimardanaṃ dhīmān nākasmādeva niṣphalam ||
नोत्सङ्गे भक्षयेद् भक्ष्यं वृथा चेष्टां च नाचरेत् । (६३।१)
notsaṅge bhakṣayed bhakṣyaṃ vṛthā ceṣṭāṃ ca nācaret |
न नृत्येदथवा गायेन्न वादित्राणि वादयेत् ॥ (६३।२)
na nṛtyedathavā gāyenna vāditrāṇi vādayet ||
न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः । (६४।१)
na saṃhatābhyāṃ pāṇibhyāṃ kaṇḍūyedātmanaḥ śiraḥ |
न लौकिकैः स्तवैर्देवांस्तोषयेद् बाह्यजैरपि ॥ (६४।२)
na laukikaiḥ stavairdevāṃstoṣayed bāhyajairapi ||
नाक्षैः क्रीडेन्न धावेत नाप्सु विण्मूत्रमाचरेत् । (६५।१)
nākṣaiḥ krīḍenna dhāveta nāpsu viṇmūtramācaret |
नोच्छिष्टः संविशेन्नित्यं न नग्नः स्नानमाचरेत् ॥ (६५।२)
nocchiṣṭaḥ saṃviśennityaṃ na nagnaḥ snānamācaret ||
न गच्छेन्न पठेद् वापि न चैव स्वशिरः स्पृशेत् । (६६।१)
na gacchenna paṭhed vāpi na caiva svaśiraḥ spṛśet |
न दन्तैर्नखरोमाणि छिन्द्यात् सुप्तं न बोधयेत् ॥ (६६।२)
na dantairnakharomāṇi chindyāt suptaṃ na bodhayet ||
नैकः सुप्याच्छून्यगृहे स्वयं नोपानहौ हरेत् ॥ (६७।२)
naikaḥ supyācchūnyagṛhe svayaṃ nopānahau haret ||
नाकारणाद् वा निष्ठीवेन्न बाहुभ्यां नदीं तरेत् । (६८।१)
nākāraṇād vā niṣṭhīvenna bāhubhyāṃ nadīṃ taret |
नाग्नौ प्रतापयेत् पादौ न कांस्ये धावयेद् बुधः । (६९।१)
nāgnau pratāpayet pādau na kāṃsye dhāvayed budhaḥ |
नाभिप्रासरयेद् देवं ब्राह्मणान् गामथापि वा । (६९।२)
nābhiprāsarayed devaṃ brāhmaṇān gāmathāpi vā |
वाय्वग्निगुरुविप्रान् वा सूर्यं वा शशिनं प्रति ॥ (६९।३)
vāyvagniguruviprān vā sūryaṃ vā śaśinaṃ prati ||
अशुद्धः शयनं यानं स्वाध्यायं स्नानवाहनम् । (७०।१)
aśuddhaḥ śayanaṃ yānaṃ svādhyāyaṃ snānavāhanam |
बहिर्निष्क्रमणं चैव न कुर्वीत कथञ्चन ॥ (७०।२)
bahirniṣkramaṇaṃ caiva na kurvīta kathañcana ||
स्वप्नमध्ययनं स्नानमुद्वर्तं भोजनं गतिम् । (७१।१)
svapnamadhyayanaṃ snānamudvartaṃ bhojanaṃ gatim |
उभयोः संध्ययोर्नित्यं मध्याह्ने चैव वर्जयेत् ॥ (७१।२)
ubhayoḥ saṃdhyayornityaṃ madhyāhne caiva varjayet ||
न स्पृशेत् पाणिनोच्छिष्टो विप्रो गोब्राह्मणानलान् । (७२।१)
na spṛśet pāṇinocchiṣṭo vipro gobrāhmaṇānalān |
न चासनं पदा वापि न देवप्रतिमां स्पृशेत् ॥ (७२।२)
na cāsanaṃ padā vāpi na devapratimāṃ spṛśet ||
नाशुद्धो ऽग्निं परिचरेन्न देवान् कीर्तयेदृषीन् । (७३।१)
nāśuddho 'gniṃ paricarenna devān kīrtayedṛṣīn |
न वामहस्तेनोद्धत्य पिबेद् वक्त्रेण वा जलम् । (७४।१)
na vāmahastenoddhatya pibed vaktreṇa vā jalam |
नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत् ॥ (७४।२)
nottaredanupaspṛśya nāpsu retaḥ samutsṛjet ||
अमेध्यलिप्तमन्यद् वा लोहितं वा विषाणि वा । (७५।१)
amedhyaliptamanyad vā lohitaṃ vā viṣāṇi vā |
व्यतिक्रमेन्न स्रवन्तीं नाप्सु मैथुनमाचरेत् । (७५।२)
vyatikramenna sravantīṃ nāpsu maithunamācaret |
चैत्यं वृक्षं न वै छिन्द्यान्नाप्सु ष्ठीवनमाचरेत् ॥ (७५।३)
caityaṃ vṛkṣaṃ na vai chindyānnāpsu ṣṭhīvanamācaret ||
नास्थिभस्मकपालानि न केशान्न च कण्टकान् । (७६।१)
nāsthibhasmakapālāni na keśānna ca kaṇṭakān |
न चाग्निं लङ्घयेद् धीमान् नोपदध्यादधः क्वचित् । (७७।१)
na cāgniṃ laṅghayed dhīmān nopadadhyādadhaḥ kvacit |
न चैनं पादतः कुर्यान्मुखेन न धमेद् बुधः ॥ (७७।२)
na cainaṃ pādataḥ kuryānmukhena na dhamed budhaḥ ||
अग्नौ न च क्षिपेदग्निं नाद्भिः प्रशमयेत् तथा ॥ (७८।२)
agnau na ca kṣipedagniṃ nādbhiḥ praśamayet tathā ||
सुहृन्मरणमार्तिं वा न स्वयं श्रावयेत् परान् । (७९।१)
suhṛnmaraṇamārtiṃ vā na svayaṃ śrāvayet parān |
अपण्यं कूटपण्यं वा विक्रये न प्रयोजयेत् ॥ (७९।२)
apaṇyaṃ kūṭapaṇyaṃ vā vikraye na prayojayet ||
न वह्निं मुखनिश्वासैर् ज्वालयेन्नाशुचिर्बुधः । (८०।१)
na vahniṃ mukhaniśvāsair jvālayennāśucirbudhaḥ |
पुण्यस्थानोदकस्थाने सीमान्तं वा कृषेन्न तु ॥ (८०।२)
puṇyasthānodakasthāne sīmāntaṃ vā kṛṣenna tu ||
परस्परं पशून् व्यालान् पक्षिणो नावबोधयेत् ॥ (८१।२)
parasparaṃ paśūn vyālān pakṣiṇo nāvabodhayet ||
कारयित्वा स्वकर्माणि कारून् पश्चान्न वञ्चयेत् । (८२।२)
kārayitvā svakarmāṇi kārūn paścānna vañcayet |
सायंप्रातर् गृहद्वारान् भिक्षार्थं नावघट्टयेत् ॥ (८२।३)
sāyaṃprātar gṛhadvārān bhikṣārthaṃ nāvaghaṭṭayet ||
बहिर्माल्यं बहिर्गन्धं भार्यया सह भोजनम् । (८३।१)
bahirmālyaṃ bahirgandhaṃ bhāryayā saha bhojanam |
विगृह्य वादं कुद्वारप्रवेशं च विवर्जयेत् ॥ (८३।२)
vigṛhya vādaṃ kudvārapraveśaṃ ca vivarjayet ||
न खादन्ब्राह्मणस्तिष्ठेन्न जल्पेद् वा हसन् बुधः । (८४।१)
na khādanbrāhmaṇastiṣṭhenna jalped vā hasan budhaḥ |
स्वमग्निं नैव हस्तेन स्पृशेन्नाप्सु चिरं वसेत् ॥ (८४।२)
svamagniṃ naiva hastena spṛśennāpsu ciraṃ vaset ||
परस्त्रियं न भाषेत नायाज्यं याजयेद् द्विजः । (८६।१)
parastriyaṃ na bhāṣeta nāyājyaṃ yājayed dvijaḥ |
नैकश्चरेत् सभां विप्रः समवायं च वर्जयेत् ॥ (८६।२)
naikaścaret sabhāṃ vipraḥ samavāyaṃ ca varjayet ||
न देवायतनं गच्छेत् कदाचिद् वाप्रदक्षिणम् । (८७।१)
na devāyatanaṃ gacchet kadācid vāpradakṣiṇam |
न वीजयेद् वा वस्त्रेण न देवायतने स्वपेत् ॥ (८७।२)
na vījayed vā vastreṇa na devāyatane svapet ||
नैको ऽध्वानं प्रपद्येत नाधार्मिकजनैः सह । (८८।१)
naiko 'dhvānaṃ prapadyeta nādhārmikajanaiḥ saha |
न व्याधिदूषितैर्वापि न शूद्रैः पतितेन वा ॥ (८८।२)
na vyādhidūṣitairvāpi na śūdraiḥ patitena vā ||
न रात्रौ नारिणा सार्धं न विना च कमण्डलुम् । (८९।२)
na rātrau nāriṇā sārdhaṃ na vinā ca kamaṇḍalum |
नाग्निगोब्राह्मणादीनामन्तरेण व्रजेत् क्वचित् ॥ (८९।३)
nāgnigobrāhmaṇādīnāmantareṇa vrajet kvacit ||
न वत्सतन्त्रीं विततामतिक्रामेत् क्वचिद् द्विजः । (९०।१)
na vatsatantrīṃ vitatāmatikrāmet kvacid dvijaḥ |
न निन्देद् योगिनः सिद्धान् व्रतिनो वा यतींस्तथा ॥ (९०।२)
na ninded yoginaḥ siddhān vratino vā yatīṃstathā ||
देवतायतनं प्राज्ञो देवानां चैव सत्रिणाम् । (९१।१)
devatāyatanaṃ prājño devānāṃ caiva satriṇām |
नाक्रामेत् कामतश्छायां ब्राह्मणानां च गोरपि ॥ (९१।२)
nākrāmet kāmataśchāyāṃ brāhmaṇānāṃ ca gorapi ||
स्वां तु नाक्रमयेच्छायां पतिताद्यैर्न रोगिभिः । (९२।१)
svāṃ tu nākramayecchāyāṃ patitādyairna rogibhiḥ |
वर्जयेन्मार्जनीरेणुं स्नानवस्त्रघचोदकम् । (९३।१)
varjayenmārjanīreṇuṃ snānavastraghacodakam |
न भक्षयेदभक्ष्याणि नापेयं च पिबेद् द्विजः ॥ (९३।२)
na bhakṣayedabhakṣyāṇi nāpeyaṃ ca pibed dvijaḥ ||
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे षोडशो ऽध्यायः ॥ (९४।१)
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ṣoḍaśo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.