KūPur, 2, 13
Select a line for its word-by-word analysis.
भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे । (१।२)
bhuktvā pītvā ca suptvā ca snātvā rathyopasarpaṇe |
चत्वरं वा श्मशानं वा समाक्रम्य द्विजोत्तमः । (३।१)
catvaraṃ vā śmaśānaṃ vā samākramya dvijottamaḥ |
संध्ययोरुभयोस्तद्वदाचान्तो ऽप्याचमेत् पुनः ॥ (३।२)
saṃdhyayorubhayostadvadācānto 'pyācamet punaḥ ||
चण्डालम्लेच्छसंभाषे स्त्रीशूद्रोच्छिष्टभाषणे । (४।१)
caṇḍālamlecchasaṃbhāṣe strīśūdrocchiṣṭabhāṣaṇe |
उच्छिष्टं पुरुषं स्पृष्ट्वा भोज्यं चापि तथाविधम् । (४।२)
ucchiṣṭaṃ puruṣaṃ spṛṣṭvā bhojyaṃ cāpi tathāvidham |
भोजने संध्ययोः स्नात्वा पीत्वा मूत्रपुरीषयोः । (५।१)
bhojane saṃdhyayoḥ snātvā pītvā mūtrapurīṣayoḥ |
आचान्तो ऽप्याचमेत् सुप्त्वा सकृत्सकृदथान्यतः ॥ (५।२)
ācānto 'pyācamet suptvā sakṛtsakṛdathānyataḥ ||
अग्नेर् गवाम् अथालम्भे स्पृष्ट्वा प्रयतमेव वा । (६।१)
agner gavām athālambhe spṛṣṭvā prayatameva vā |
स्त्रीणामथात्मनः स्पर्शे नीवीं वा परिधाय च ॥ (६।२)
strīṇāmathātmanaḥ sparśe nīvīṃ vā paridhāya ca ||
उपस्पृशेज्जलं वार्द्रं तृणं वा भूमिमेव वा । (७।१)
upaspṛśejjalaṃ vārdraṃ tṛṇaṃ vā bhūmimeva vā |
केशानां चात्मनः स्पर्शे वाससो ऽक्षालितस्य च ॥ (७।२)
keśānāṃ cātmanaḥ sparśe vāsaso 'kṣālitasya ca ||
अनुष्णाभिर् अफेनाभिर् अदुष्टाभिश्च धर्मतः । (८।१)
anuṣṇābhir aphenābhir aduṣṭābhiśca dharmataḥ |
शौचेप्सुः सर्वदाचामेदासीनः प्रागुदङ्मुखः ॥ (८।२)
śaucepsuḥ sarvadācāmedāsīnaḥ prāgudaṅmukhaḥ ||
शिरः प्रावृत्य कण्ठं वा मुक्तकच्छसिखो ऽपि वा । (९।१)
śiraḥ prāvṛtya kaṇṭhaṃ vā muktakacchasikho 'pi vā |
अकृत्वा पादयोः शौचमाचान्तो ऽप्यशुचिर्भवेत् ॥ (९।२)
akṛtvā pādayoḥ śaucamācānto 'pyaśucirbhavet ||
सोपानत्को जलस्थो वा नोष्णीषी वाचमेद् बुधः । (१०।१)
sopānatko jalastho vā noṣṇīṣī vācamed budhaḥ |
न चैव वर्षधाराभिर्न तिष्ठन् नोद्धृतोदकैः ॥ (१०।२)
na caiva varṣadhārābhirna tiṣṭhan noddhṛtodakaiḥ ||
न जल्पन् न हसन् प्रेक्षन् शयानः प्रह्व एव च । (१२।१)
na jalpan na hasan prekṣan śayānaḥ prahva eva ca |
नावीक्षिताभिः फेनाद्यैरुपेताभिरथापि वा ॥ (१२।२)
nāvīkṣitābhiḥ phenādyairupetābhirathāpi vā ||
शूद्राशुचिकरोन्मुक्तैर्न क्षाराभिस्तथैव च । (१३।१)
śūdrāśucikaronmuktairna kṣārābhistathaiva ca |
न चैवाङ्गुलिभिः शब्दं न कुर्वन् नान्यमानसः ॥ (१३।२)
na caivāṅgulibhiḥ śabdaṃ na kurvan nānyamānasaḥ ||
न पाणिक्षुभिताभिर्वा न बहिष्कक्ष एव वा ॥ (१४।२)
na pāṇikṣubhitābhirvā na bahiṣkakṣa eva vā ||
हृद्गाभिः पूयते विप्रः कण्ठ्याभिः क्षत्रियः शुचिः । (१५।१)
hṛdgābhiḥ pūyate vipraḥ kaṇṭhyābhiḥ kṣatriyaḥ śuciḥ |
प्राशिताभिस्तथावैश्यः स्त्रीशूद्रौ स्पर्शतो ऽन्ततः ॥ (१५।२)
prāśitābhistathāvaiśyaḥ strīśūdrau sparśato 'ntataḥ ||
अङ्गुष्ठमूलान्तरतो रेखायां ब्राह्ममुच्यते । (१६।१)
aṅguṣṭhamūlāntarato rekhāyāṃ brāhmamucyate |
अन्तराङ्गुष्ठदेशिन्यः पितॄणां तीर्थमुत्तमम् ॥ (१६।२)
antarāṅguṣṭhadeśinyaḥ pitṝṇāṃ tīrthamuttamam ||
कनिष्ठामूलतः पश्चात् प्राजापत्यं प्रचक्षते । (१७।१)
kaniṣṭhāmūlataḥ paścāt prājāpatyaṃ pracakṣate |
अङ्गुल्यग्रे स्मृतं दैवं तदेवार्षं प्रकीर्तितम् ॥ (१७।२)
aṅgulyagre smṛtaṃ daivaṃ tadevārṣaṃ prakīrtitam ||
मूले वा दैवमार्षं स्यादाग्नेयं मध्यतः स्मृतं । (१८।१)
mūle vā daivamārṣaṃ syādāgneyaṃ madhyataḥ smṛtaṃ |
तदेव सौमिकं तीर्थमेतज्ज्ञात्वा न मुह्यति ॥ (१८।२)
tadeva saumikaṃ tīrthametajjñātvā na muhyati ||
ब्राह्मेणैव तु तीर्थेन द्विजो नित्यमुपस्पृशेत् । (१९।१)
brāhmeṇaiva tu tīrthena dvijo nityamupaspṛśet |
कायेन वाथ दैवेन तु पित्र्येण वै द्विजाः ॥ (१९।२)
kāyena vātha daivena tu pitryeṇa vai dvijāḥ ||
त्रिः प्राश्नीयाद् अपः पूर्वं ब्राह्मणः प्रयतस्ततः । (२०।१)
triḥ prāśnīyād apaḥ pūrvaṃ brāhmaṇaḥ prayatastataḥ |
संमृज्याङ्गुष्ठमूलेन मुखं वै समुपस्पृशेत् ॥ (२०।२)
saṃmṛjyāṅguṣṭhamūlena mukhaṃ vai samupaspṛśet ||
अङ्गुष्ठानामिकाभ्यां तु स्पृशेन्नेत्रद्वयं ततः । (२१।१)
aṅguṣṭhānāmikābhyāṃ tu spṛśennetradvayaṃ tataḥ |
तर्जन्यङ्गुष्ठयोगेन स्पृशेन् नासापृटद्वयम् ॥ (२१।२)
tarjanyaṅguṣṭhayogena spṛśen nāsāpṛṭadvayam ||
कनिष्ठाङ्गुष्ठयोगेन श्रवणे समुपस्पृशेत् । (२२।१)
kaniṣṭhāṅguṣṭhayogena śravaṇe samupaspṛśet |
संस्पृशेद् वा शिरस्तद्वदङ्गुष्ठेनाथवा द्वयम् ॥ (२२।३)
saṃspṛśed vā śirastadvadaṅguṣṭhenāthavā dvayam ||
त्रिः प्राश्नीयाद् यदम्भस्तु सुप्रीतास्तेन देवताः । (२३।१)
triḥ prāśnīyād yadambhastu suprītāstena devatāḥ |
ब्रह्मा विष्णुर्महेशश्च भवन्तीत्यनुशुश्रुमः ॥ (२३।२)
brahmā viṣṇurmaheśaśca bhavantītyanuśuśrumaḥ ||
गङ्गा च यमुना चैव प्रीयेते परिमार्जनात् । (२४।१)
gaṅgā ca yamunā caiva prīyete parimārjanāt |
संस्पृष्टयोर्लोचनयोः प्रीयेते शशिभास्करौ ॥ (२४।२)
saṃspṛṣṭayorlocanayoḥ prīyete śaśibhāskarau ||
नासत्यदस्त्रौ प्रीयेते स्पृष्टे नासापुटद्वये । (२५।१)
nāsatyadastrau prīyete spṛṣṭe nāsāpuṭadvaye |
कर्णयोः स्पृष्टयोस्तद्वत् प्रीयेते चानिलानलौ ॥ (२५।२)
karṇayoḥ spṛṣṭayostadvat prīyete cānilānalau ||
संस्पृष्टे हृदये चास्य प्रीयन्ते सर्वदेवताः । (२६।१)
saṃspṛṣṭe hṛdaye cāsya prīyante sarvadevatāḥ |
मूर्ध्नि संस्पर्शनादेकः प्रीतः स पुरुषो भवेत् ॥ (२६।२)
mūrdhni saṃsparśanādekaḥ prītaḥ sa puruṣo bhavet ||
नोच्छिष्टं कुर्वते मुख्या विप्रुषो ऽङ्गं नयन्ति याः । (२७।१)
nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ nayanti yāḥ |
दन्तवद् दन्तलग्नेषु जिह्वास्पर्शे ऽशुचिर्भवेत् ॥ (२७।२)
dantavad dantalagneṣu jihvāsparśe 'śucirbhavet ||
स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् । (२८।१)
spṛśanti bindavaḥ pādau ya ācāmayataḥ parān |
भूमिगैस्ते समा ज्ञेया न तैरप्रयतो भवेत् ॥ (२८।२)
bhūmigaiste samā jñeyā na tairaprayato bhavet ||
मधुपर्के च सोमे च ताम्बूलस्य च भक्षणे । (२९।१)
madhuparke ca some ca tāmbūlasya ca bhakṣaṇe |
फलमूले चेक्षुदण्डे न दोषं प्राह वै मनुः ॥ (२९।२)
phalamūle cekṣudaṇḍe na doṣaṃ prāha vai manuḥ ||
प्रचरंश्चान्नपानेषु द्रव्यहस्तो भवेन्नरः । (३०।१)
pracaraṃścānnapāneṣu dravyahasto bhavennaraḥ |
भूमौ निक्षिप्य तद् द्रव्यमाचम्याभ्युक्षयेत् तु तत् ॥ (३०।२)
bhūmau nikṣipya tad dravyamācamyābhyukṣayet tu tat ||
तैजसं वै समादाय यद्युच्छिष्टो भवेद् द्विजः । (३१।१)
taijasaṃ vai samādāya yadyucchiṣṭo bhaved dvijaḥ |
भूमौ निक्षिप्य तद् द्रव्यमाचम्याभ्युक्षयेत् तु तत् ॥ (३१।२)
bhūmau nikṣipya tad dravyamācamyābhyukṣayet tu tat ||
अनिधायैव तद् द्रव्यमाचान्तः शुचितामियात् । (३२।२)
anidhāyaiva tad dravyamācāntaḥ śucitāmiyāt |
वस्त्रादिषु विकल्पः स्यात् तत् संस्पृष्ट्वाचमेद् इह ॥ (३२।३)
vastrādiṣu vikalpaḥ syāt tat saṃspṛṣṭvācamed iha ||
अरण्ये ऽनुदके रात्रौ चौरव्याघ्राकुले पथि । (३३।१)
araṇye 'nudake rātrau cauravyāghrākule pathi |
कृत्वा मूत्रं पुरीषं वा द्रव्यहस्तो न दुष्यति ॥ (३३।२)
kṛtvā mūtraṃ purīṣaṃ vā dravyahasto na duṣyati ||
निधाय दक्षिणे कर्णे ब्रह्मसूत्रमुदङ्मुखः । (३४।१)
nidhāya dakṣiṇe karṇe brahmasūtramudaṅmukhaḥ |
अह्नि कुर्याच्छकृन्मूत्रं रात्रौ चेद् दक्षिणामुखः ॥ (३४।२)
ahni kuryācchakṛnmūtraṃ rātrau ced dakṣiṇāmukhaḥ ||
अन्तर्धाय महीं काष्ठैः पत्त्रैर् लोष्टतृणेन वा । (३५।१)
antardhāya mahīṃ kāṣṭhaiḥ pattrair loṣṭatṛṇena vā |
प्रावृत्य च शिरः कुर्याद् विण्मूत्रस्य विसर्जनम् ॥ (३५।२)
prāvṛtya ca śiraḥ kuryād viṇmūtrasya visarjanam ||
अग्नौ चैव श्मशाने च विण्मूत्रे न समाचरेत् ॥ (३६।२)
agnau caiva śmaśāne ca viṇmūtre na samācaret ||
न गोमये न कृष्टे वा महावृक्षे न शाड्वले । (३७।१)
na gomaye na kṛṣṭe vā mahāvṛkṣe na śāḍvale |
न तिष्ठन् वा न निर्वासा न च पर्वतमस्तके ॥ (३७।२)
na tiṣṭhan vā na nirvāsā na ca parvatamastake ||
न ससत्त्वेषु गर्तेषु न गच्छन् वा समाचरेत् ॥ (३८।२)
na sasattveṣu garteṣu na gacchan vā samācaret ||
न क्षेत्रे न बिले वापि न तीर्थे न चतुष्पथे ॥ (३९।२)
na kṣetre na bile vāpi na tīrthe na catuṣpathe ||
न सोपानत्पादुको वा छत्त्री वा नान्तरिक्षके ॥ (४०।२)
na sopānatpāduko vā chattrī vā nāntarikṣake ||
न चैवाभिमुखे स्त्रीणां गुरुब्राह्मणयोर् गवाम् । (४१।१)
na caivābhimukhe strīṇāṃ gurubrāhmaṇayor gavām |
न ज्योतींषि निरीक्षन् वा न संध्याभिमुखो ऽपिवा । (४२।१)
na jyotīṃṣi nirīkṣan vā na saṃdhyābhimukho 'pivā |
प्रत्यादित्यं प्रत्यनलं प्रतिसोमं तथैव च ॥ (४२।२)
pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca ||
कुर्यादतन्द्रितः शौचं विशुद्धैरुद्धृतोदकैः ॥ (४३।२)
kuryādatandritaḥ śaucaṃ viśuddhairuddhṛtodakaiḥ ||
नाहरेन्मृत्तिकां विप्रः पांशुलान्न च कर्दमात् । (४४।१)
nāharenmṛttikāṃ vipraḥ pāṃśulānna ca kardamāt |
न मार्गान्नोषराद् देशाच्छौचशिष्टां परस्य च ॥ (४४।२)
na mārgānnoṣarād deśācchaucaśiṣṭāṃ parasya ca ||
न देवायतनात् कूपाद् ग्रामान्न च जलात् तथा । (४५।१)
na devāyatanāt kūpād grāmānna ca jalāt tathā |
उपस्पृशेत् ततो नित्यं पूर्वोक्तेन विधानतः ॥ (४५।२)
upaspṛśet tato nityaṃ pūrvoktena vidhānataḥ ||
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे त्रयोदशो ऽध्यायः ॥ (४६।१)
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge trayodaśo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.