कूर्मपुराणKūrmapurāṇa

KūPur, 2, 22

73 of 95 · 207 verses

Select a line for its word-by-word analysis.

1.1१.१

व्यास उवाच । (१।१)

vyāsa uvāca

1.2१.२

गोमयेनोदकैर्भूमिं शोधयित्वा समाहितः । (१।२)

gomayenodakairbhūmiṃ śodhayitvā samāhitaḥ |

1.3१.३

संनिपात्य द्विजान् सर्वान् साधुभिः संनिमन्त्रयेत् ॥ (१।३)

saṃnipātya dvijān sarvān sādhubhiḥ saṃnimantrayet ||

2.1२.१

श्वो भविष्यति मे श्राद्धं पूर्वेद्युरभिपूज्य च । (२।१)

śvo bhaviṣyati me śrāddhaṃ pūrvedyurabhipūjya ca |

2.2२.२

असंभवे परेद्युर्वा यथोक्तैर्लक्षणैर्युतान् ॥ (२।२)

asaṃbhave paredyurvā yathoktairlakṣaṇairyutān ||

3.1३.१

तस्य ते पितरः श्रुत्वा श्राद्धकालमुपस्थितम् । (३।१)

tasya te pitaraḥ śrutvā śrāddhakālamupasthitam |

3.2३.२

अन्योन्यं मनसा ध्यात्वा संपतन्ति मनोजवाः ॥ (३।२)

anyonyaṃ manasā dhyātvā saṃpatanti manojavāḥ ||

4.1४.१

ब्राह्मणैस्ते सहाश्नन्ति पितरो ह्यन्तरिक्षगाः । (४।१)

brāhmaṇaiste sahāśnanti pitaro hyantarikṣagāḥ |

4.2४.२

वायुभूतास्तु तिष्ठन्ति भुक्त्वा यान्ति परां गतिम् ॥ (४।२)

vāyubhūtāstu tiṣṭhanti bhuktvā yānti parāṃ gatim ||

5.1५.१

आमन्त्रिताश्च ते विप्राः श्राद्धकाल उपस्थिते । (५।१)

āmantritāśca te viprāḥ śrāddhakāla upasthite |

5.2५.२

वसेयुर्नियताः सर्वे ब्रह्मचर्यपरायणाः ॥ (५।२)

vaseyurniyatāḥ sarve brahmacaryaparāyaṇāḥ ||

6.1६.१

अक्रोधनो ऽत्वरो ऽमत्तः सत्यवादी समाहितः । (६।१)

akrodhano 'tvaro 'mattaḥ satyavādī samāhitaḥ |

6.2६.२

भारं मैथुनमध्वानं श्राद्धकृद् वर्जयेज्जपम् ॥ (६।२)

bhāraṃ maithunamadhvānaṃ śrāddhakṛd varjayejjapam ||

7.1७.१

आमन्त्रितो ब्राह्मणो वा यो ऽन्यस्मै कुरुते क्षणम् । (७।१)

āmantrito brāhmaṇo vā yo 'nyasmai kurute kṣaṇam |

7.2७.२

स याति नरकं घोरं सूकरत्वं प्रायाति च ॥ (७।२)

sa yāti narakaṃ ghoraṃ sūkaratvaṃ prāyāti ca ||

8.1८.१

आमन्त्रयित्वा यो मोहादन्यं चामन्त्रयेद् द्विजम् । (८।१)

āmantrayitvā yo mohādanyaṃ cāmantrayed dvijam |

8.2८.२

स तस्मादधिकः पापी विष्ठाकीटो ऽभिजायते ॥ (८।२)

sa tasmādadhikaḥ pāpī viṣṭhākīṭo 'bhijāyate ||

9.1९.१

श्राद्धे निमन्त्रितो विप्रो मैथुनं यो ऽधिगच्छति । (९।१)

śrāddhe nimantrito vipro maithunaṃ yo 'dhigacchati |

9.2९.२

ब्रह्महत्यामवाप्नोति तिर्यग्योनौ च जायते ॥ (९।२)

brahmahatyāmavāpnoti tiryagyonau ca jāyate ||

10.1१०.१

निमन्त्रितस्तु यो विप्रो ह्यध्वानं याति दुर्मतिः । (१०।१)

nimantritastu yo vipro hyadhvānaṃ yāti durmatiḥ |

10.2१०.२

भवन्ति पितरस्तस्य तं मासं पांशुभोजनाः ॥ (१०।२)

bhavanti pitarastasya taṃ māsaṃ pāṃśubhojanāḥ ||

11.1११.१

निमन्त्रितस्तु यः श्राद्धे प्रकुर्यात् कलहं द्विजः । (११।१)

nimantritastu yaḥ śrāddhe prakuryāt kalahaṃ dvijaḥ |

11.2११.२

भवन्ति तस्य तन्मासं पितरो मलभोजनाः ॥ (११।२)

bhavanti tasya tanmāsaṃ pitaro malabhojanāḥ ||

12.1१२.१

तस्मान्निमन्त्रितः श्राद्धे नियतात्मा भवेद् द्विजः । (१२।१)

tasmānnimantritaḥ śrāddhe niyatātmā bhaved dvijaḥ |

12.2१२.२

अक्रोधनः शौचपरः कर्ता चैव जितेन्द्रियः ॥ (१२।२)

akrodhanaḥ śaucaparaḥ kartā caiva jitendriyaḥ ||

13.1१३.१

श्वोभूते दक्षिणां गत्वा दिशं दर्भान् समाहितः । (१३।१)

śvobhūte dakṣiṇāṃ gatvā diśaṃ darbhān samāhitaḥ |

13.2१३.२

समूलानाहरेद् वारि दक्षिणाग्रान् सुनिर्मलान् ॥ (१३।२)

samūlānāhared vāri dakṣiṇāgrān sunirmalān ||

14.1१४.१

दक्षिणाप्रवणं स्निग्धं विभक्तं शुभलक्षणम् । (१४।१)

dakṣiṇāpravaṇaṃ snigdhaṃ vibhaktaṃ śubhalakṣaṇam |

14.2१४.२

शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् ॥ (१४।२)

śuciṃ deśaṃ viviktaṃ ca gomayenopalepayet ||

15.1१५.१

नदीतीरेषु तीर्थेषु स्वभूमौ चैव सानुषु । (१५।१)

nadītīreṣu tīrtheṣu svabhūmau caiva sānuṣu |

15.2१५.२

विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥ (१५।२)

vivikteṣu ca tuṣyanti dattena pitaraḥ sadā ||

16.1१६.१

पारक्ये भूमिभागे तु पितॄणां नैव निर्वपेत् । (१६।१)

pārakye bhūmibhāge tu pitṝṇāṃ naiva nirvapet |

16.2१६.२

स्वामिभिस्तद् विहन्येत मोहाद् यत् क्रियते नरैः ॥ (१६।२)

svāmibhistad vihanyeta mohād yat kriyate naraiḥ ||

17.1१७.१

अटव्यः पर्वताः पुण्यास्तीर्थान्यायतनानि च । (१७।१)

aṭavyaḥ parvatāḥ puṇyāstīrthānyāyatanāni ca |

17.2१७.२

सर्वाण्यस्वामिकान्याहुर्न हि तेषु परिग्रहः ॥ (१७।२)

sarvāṇyasvāmikānyāhurna hi teṣu parigrahaḥ ||

18.1१८.१

तिलान् प्रविकिरेत् तत्र सर्वतो बन्धयेदजान् । (१८।१)

tilān pravikiret tatra sarvato bandhayedajān |

18.2१८.२

असुरोपहतं सर्वं तिलैः शुध्यत्यजेन वा ॥ (१८।२)

asuropahataṃ sarvaṃ tilaiḥ śudhyatyajena vā ||

19.1१९.१

ततो ऽन्नं बहुसंस्कारं नैकव्यञ्जनमच्युतम् । (१९।१)

tato 'nnaṃ bahusaṃskāraṃ naikavyañjanamacyutam |

19.2१९.२

चोष्यपेयसमृद्धं च यथाशक्त्या प्रकल्पयेत् ॥ (१९।२)

coṣyapeyasamṛddhaṃ ca yathāśaktyā prakalpayet ||

20.1२०.१

ततो निवृत्ते मध्याह्ने लुप्तलोमनखान् द्विजान् । (२०।१)

tato nivṛtte madhyāhne luptalomanakhān dvijān |

20.2२०.२

अभिगम्य यथामार्गं प्रयच्छेद् दन्तधावनम् ॥ (२०।२)

abhigamya yathāmārgaṃ prayacched dantadhāvanam ||

21.1२१.१

तैलमभ्यञ्जनं स्नानं स्नानीयं च पृथग्विधम् । (२१।१)

tailamabhyañjanaṃ snānaṃ snānīyaṃ ca pṛthagvidham |

21.2२१.२

पात्रैरौदुम्बरैर्दद्याद् वैश्वदैवत्यपूर्वकम् ॥ (२१।२)

pātrairaudumbarairdadyād vaiśvadaivatyapūrvakam ||

22.1२२.१

ततः स्नात्वा निवृत्तेभ्यः प्रत्युत्थायकृताञ्जलिः । (२२।१)

tataḥ snātvā nivṛttebhyaḥ pratyutthāyakṛtāñjaliḥ |

22.2२२.२

पाद्यमाचमनीयं च सम्प्रयच्छेद् यथाक्रमम् ॥ (२२।२)

pādyamācamanīyaṃ ca samprayacched yathākramam ||

23.1२३.१

ये चात्र विश्वेदेवानां विप्राः पूर्वं निमन्त्रिताः । (२३।१)

ye cātra viśvedevānāṃ viprāḥ pūrvaṃ nimantritāḥ |

23.2२३.२

प्राङ्मुखान्यासनान्येषां त्रिदर्भोपहितानि च ॥ (२३।२)

prāṅmukhānyāsanānyeṣāṃ tridarbhopahitāni ca ||

24.1२४.१

दक्षिणामुखयुक्तानि पितॄणाम् आसनानि च । (२४।१)

dakṣiṇāmukhayuktāni pitṝṇām āsanāni ca |

24.2२४.२

दक्षिणाग्रैकदर्भाणि प्रोक्षितानि तिलोदकैः ॥ (२४।२)

dakṣiṇāgraikadarbhāṇi prokṣitāni tilodakaiḥ ||

25.1२५.१

तेषूपवेशयेद् एतान् आसनं स्पृश्य स द्विजम् । (२५।१)

teṣūpaveśayed etān āsanaṃ spṛśya sa dvijam |

25.2२५.२

आसध्वमिति संजल्पन् आसनास्ते पृथक् पृथक् ॥ (२५।२)

āsadhvamiti saṃjalpan āsanāste pṛthak pṛthak ||

26.1२६.१

द्वौ दैवे प्राङ्मुखौ पित्र्ये त्रयश्चोदङ्मुखास्तथा । (२६।१)

dvau daive prāṅmukhau pitrye trayaścodaṅmukhāstathā |

26.2२६.२

एकैकं वा भवेत् तत्र देवमातामहेष्वपि ॥ (२६।२)

ekaikaṃ vā bhavet tatra devamātāmaheṣvapi ||

27.1२७.१

सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदम् । (२७।१)

satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasaṃpadam |

27.2२७.२

पञ्चैतान् विस्तरो हन्ति तस्मान्नेहेत विस्तरम् ॥ (२७।२)

pañcaitān vistaro hanti tasmānneheta vistaram ||

28.1२८.१

अपि वा भोजयेदेकं ब्राह्मणं वेदपारगम् । (२८।१)

api vā bhojayedekaṃ brāhmaṇaṃ vedapāragam |

28.2२८.२

श्रुतशीलादिसम्पन्नम् अलक्षणविवर्जितम् ॥ (२८।२)

śrutaśīlādisampannam alakṣaṇavivarjitam ||

29.1२९.१

उद्धृत्य पात्रे चान्नं तत् सर्वस्मात् प्रकृतात् पुनः । (२९।१)

uddhṛtya pātre cānnaṃ tat sarvasmāt prakṛtāt punaḥ |

29.2२९.२

देवतायतने चास्मै निवेद्यान्यत्प्रवर्तयेत् ॥ (२९।२)

devatāyatane cāsmai nivedyānyatpravartayet ||

30.1३०.१

प्रास्येदग्नौ तदन्नं तु दद्याद् वा ब्रह्मचारिणे । (३०।१)

prāsyedagnau tadannaṃ tu dadyād vā brahmacāriṇe |

30.2३०.२

तस्मादेकमपि श्रेष्ठं विद्वांसं भोजयेद् द्विजम् ॥ (३०।२)

tasmādekamapi śreṣṭhaṃ vidvāṃsaṃ bhojayed dvijam ||

31.1३१.१

भिक्षुको ब्रह्मचारी वा भोजनार्थमुपस्थितः । (३१।१)

bhikṣuko brahmacārī vā bhojanārthamupasthitaḥ |

31.2३१.२

उपविष्टेषु यः श्राद्धे कामं तमपि भोजयेत् ॥ (३१।२)

upaviṣṭeṣu yaḥ śrāddhe kāmaṃ tamapi bhojayet ||

32.1३२.१

अतिथिर्यस्य नाश्नाति न तच्छ्राद्धं प्रशस्यते । (३२।१)

atithiryasya nāśnāti na tacchrāddhaṃ praśasyate |

32.2३२.२

तस्मात् प्रयत्नाच्छ्राद्धेषु पूज्या ह्यतिथयो द्विजैः ॥ (३२।२)

tasmāt prayatnācchrāddheṣu pūjyā hyatithayo dvijaiḥ ||

33.1३३.१

आतिथ्यरहिते श्राद्धे भुञ्जते ये द्विजातयः । (३३।१)

ātithyarahite śrāddhe bhuñjate ye dvijātayaḥ |

33.2३३.२

काकयोनिं व्रजन्त्येते दाता चैव न संशयः ॥ (३३।२)

kākayoniṃ vrajantyete dātā caiva na saṃśayaḥ ||

34.1३४.१

हीनाङ्गः पतितः कुष्ठी व्रणी पुक्कसनास्तिकौ । (३४।१)

hīnāṅgaḥ patitaḥ kuṣṭhī vraṇī pukkasanāstikau |

34.2३४.२

कुक्कुटाः शूकराः श्वानो वर्ज्याः श्राद्धेषु दूरतः ॥ (३४।२)

kukkuṭāḥ śūkarāḥ śvāno varjyāḥ śrāddheṣu dūrataḥ ||

35.1३५.१

बीभत्सुमशुचिं नग्नं मत्तं धूर्तं रजस्वलाम् । (३५।१)

bībhatsumaśuciṃ nagnaṃ mattaṃ dhūrtaṃ rajasvalām |

35.2३५.२

नीलकाषायवसनं पाषण्डांश्च विवर्जयेत् ॥ (३५।२)

nīlakāṣāyavasanaṃ pāṣaṇḍāṃśca vivarjayet ||

36.1३६.१

यत् तत्र क्रियते कर्म पैतृकं ब्राह्मणान् प्रति । (३६।१)

yat tatra kriyate karma paitṛkaṃ brāhmaṇān prati |

36.2३६.२

तत्सर्वमेव कर्तव्यं वैश्वदैवत्यपूर्वकम् ॥ (३६।२)

tatsarvameva kartavyaṃ vaiśvadaivatyapūrvakam ||

37.1३७.१

यथोपविष्टान् सर्वांस्तान् अलंकुर्याद् विभूषणः । (३७।१)

yathopaviṣṭān sarvāṃstān alaṃkuryād vibhūṣaṇaḥ |

37.2३७.२

स्रग्दामभिः शिरोवेष्टैर् धूपवासोऽनुलेपनैः ॥ (३७।२)

sragdāmabhiḥ śiroveṣṭair dhūpavāso'nulepanaiḥ ||

38.1३८.१

ततस्त्वावाहयेद् देवान् ब्राह्मणानामनुज्ञया । (३८।१)

tatastvāvāhayed devān brāhmaṇānāmanujñayā |

38.2३८.२

उदङ्मुखो यथान्यायं विश्वे देवास इत्यृचा ॥ (३८।२)

udaṅmukho yathānyāyaṃ viśve devāsa ityṛcā ||

39.1३९.१

द्वे पवित्रे गृहीत्वाथ भाजने क्षालिते पुनः । (३९।१)

dve pavitre gṛhītvātha bhājane kṣālite punaḥ |

39.2३९.२

शं नो देव्या जलं क्षिप्त्वा यवो ऽसीति यवांस्तथा ॥ (३९।२)

śaṃ no devyā jalaṃ kṣiptvā yavo 'sīti yavāṃstathā ||

40.1४०.१

या दिव्या इति मन्त्रण हस्ते त्वर्घं विनिक्षिपेत् । (४०।१)

yā divyā iti mantraṇa haste tvarghaṃ vinikṣipet |

40.2४०.२

प्रदद्याद् गन्धमाल्यानि धूपादीनि च शक्तितः ॥ (४०।२)

pradadyād gandhamālyāni dhūpādīni ca śaktitaḥ ||

41.1४१.१

अपसव्यं ततः कृत्वा पितॄणां दक्षिणामुखः । (४१।१)

apasavyaṃ tataḥ kṛtvā pitṝṇāṃ dakṣiṇāmukhaḥ |

41.2४१.२

आवाहनं ततः कुर्यादुशन्तस्त्वेत्यृचा बुधः ॥ (४१।२)

āvāhanaṃ tataḥ kuryāduśantastvetyṛcā budhaḥ ||

42.1४२.१

आवाह्य तदनुज्ञातो जपेदायन्तु नस्ततः । (४२।१)

āvāhya tadanujñāto japedāyantu nastataḥ |

42.2४२.२

शं नो देव्योदकं पात्रे तिलो ऽसीति तिलांस्तथा ॥ (४२।२)

śaṃ no devyodakaṃ pātre tilo 'sīti tilāṃstathā ||

43.1४३.१

क्षिप्त्वा चार्घं यथापूर्वं दत्त्वा हस्तेषु वै पुनः । (४३।१)

kṣiptvā cārghaṃ yathāpūrvaṃ dattvā hasteṣu vai punaḥ |

43.2४३.२

संस्रवांश्च ततः सर्वान् पात्रे कुर्यात् समाहितः । (४३।२)

saṃsravāṃśca tataḥ sarvān pātre kuryāt samāhitaḥ |

43.3४३.३

पितृभ्यः स्थानमेतेन न्युब्जं पात्रं निधापयेत् ॥ (४३।३)

pitṛbhyaḥ sthānametena nyubjaṃ pātraṃ nidhāpayet ||

44.1४४.१

अग्नौ करिष्येत्य् आदाय पृच्छत्यन्नं घृतप्लुतम् । (४४।१)

agnau kariṣyety ādāya pṛcchatyannaṃ ghṛtaplutam |

44.2४४.२

कुरुष्वेत्यभ्यनुज्ञातो जुहुयादुपवीतवान् ॥ (४४।२)

kuruṣvetyabhyanujñāto juhuyādupavītavān ||

45.1४५.१

यज्ञोपवीतिना होमः कर्तव्यः कुशपाणिना । (४५।१)

yajñopavītinā homaḥ kartavyaḥ kuśapāṇinā |

45.2४५.२

प्राचीनावीतिना पित्र्यं वैश्वदेवं तु होमवत् ॥ (४५।२)

prācīnāvītinā pitryaṃ vaiśvadevaṃ tu homavat ||

46.1४६.१

दक्षिणं पातयेज्जानुं देवान् परिचरन् पुमान् । (४६।१)

dakṣiṇaṃ pātayejjānuṃ devān paricaran pumān |

46.2४६.२

पितॄणां परिचर्यासु पातयेदितरं तथा ॥ (४६।२)

pitṝṇāṃ paricaryāsu pātayeditaraṃ tathā ||

47.1४७.१

सोमाय वै पितृमते स्वधा नम इति ब्रुवन् । (४७।१)

somāya vai pitṛmate svadhā nama iti bruvan |

47.2४७.२

अग्नये कव्यवाहनाय स्वधेति जुहुयात् ततः ॥ (४७।२)

agnaye kavyavāhanāya svadheti juhuyāt tataḥ ||

48.1४८.१

अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् । (४८।१)

agnyabhāve tu viprasya pāṇāvevopapādayet |

48.2४८.२

महादेवान्तिके वाथ गोष्ठे वा सुसमाहितः ॥ (४८।२)

mahādevāntike vātha goṣṭhe vā susamāhitaḥ ||

49.1४९.१

ततस्तैरभ्यनुज्ञातो गत्वा वै दक्षिणां दिशम् । (४९।१)

tatastairabhyanujñāto gatvā vai dakṣiṇāṃ diśam |

49.2४९.२

गोमयेनोपतिप्योर्व्ॐ स्थानं कृत्वा तु सैकतम् ॥ (४९।२)

gomayenopatipyorvoṃ sthānaṃ kṛtvā tu saikatam ||

50.1५०.१

मण्डलं चतुरस्रं वा दक्षिणावनतं शुभम् । (५०।१)

maṇḍalaṃ caturasraṃ vā dakṣiṇāvanataṃ śubham |

50.2५०.२

त्रिरुल्लिखेत् तस्य मध्यं दर्भेणैकेन चैव हि ॥ (५०।२)

trirullikhet tasya madhyaṃ darbheṇaikena caiva hi ||

51.1५१.१

ततः संस्तीर्य तत्स्थाने दर्भान् वै दक्षिणाग्रकान् । (५१।१)

tataḥ saṃstīrya tatsthāne darbhān vai dakṣiṇāgrakān |

51.2५१.२

त्रीन् पिण्डान् निर्वपेत् तत्र हविः शेषात्समाहितः ॥ (५१।२)

trīn piṇḍān nirvapet tatra haviḥ śeṣātsamāhitaḥ ||

52.1५२.१

न्युप्य पिण्डांस्तु तं हस्तं निमृज्याल्लेपभागिनाम् । (५२।१)

nyupya piṇḍāṃstu taṃ hastaṃ nimṛjyāllepabhāginām |

52.2५२.२

तेषु दर्भेष्वथाचम्य त्रिरायम्य शनैरसून् । (५२।२)

teṣu darbheṣvathācamya trirāyamya śanairasūn |

52.3५२.३

तदन्नं तु नमस्कुर्यात् पितॄन् एव च मन्त्रवित् ॥ (५२।३)

tadannaṃ tu namaskuryāt pitṝn eva ca mantravit ||

53.1५३.१

उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः । (५३।१)

udakaṃ ninayeccheṣaṃ śanaiḥ piṇḍāntike punaḥ |

53.2५३.२

अवजिघ्रेच्च तान् पिण्डान् यथान्युप्तान् समाहितः ॥ (५३।२)

avajighrecca tān piṇḍān yathānyuptān samāhitaḥ ||

54.1५४.१

अथ पिण्डावशिष्टान्नं विधिना भोजयेद् द्विजान् । (५४।१)

atha piṇḍāvaśiṣṭānnaṃ vidhinā bhojayed dvijān |

54.2५४.२

मांसान्यपूपान् विविधान् दद्यात् कृसरपायसम् ॥ (५४।२)

māṃsānyapūpān vividhān dadyāt kṛsarapāyasam ||

55.1५५.१

सूपशाकफलानीक्षून् पयो दधि घृतं मधु । (५५।१)

sūpaśākaphalānīkṣūn payo dadhi ghṛtaṃ madhu |

55.2५५.२

अन्नं चैव यथाकामं विविधं भक्ष्यपेयकम् ॥ (५५।२)

annaṃ caiva yathākāmaṃ vividhaṃ bhakṣyapeyakam ||

56.1५६.१

यद् यदिष्टं द्विजेन्द्राणां तत्सर्वं विनिवेदयेत् । (५६।१)

yad yadiṣṭaṃ dvijendrāṇāṃ tatsarvaṃ vinivedayet |

56.2५६.२

धान्यांस्तिलांश्च विविधान् शर्करा विविधास्तथा ॥ (५६।२)

dhānyāṃstilāṃśca vividhān śarkarā vividhāstathā ||

57.1५७.१

उष्णमन्नं द्विजातिभ्यो दातव्यं श्रेय इच्छता । (५७।१)

uṣṇamannaṃ dvijātibhyo dātavyaṃ śreya icchatā |

57.2५७.२

अन्यत्र फलमूलेभ्यः पानकेभ्यस्तथैव च ॥ (५७।२)

anyatra phalamūlebhyaḥ pānakebhyastathaiva ca ||

58.1५८.१

नाश्रूणि पातयेज्जातु न कुप्येन्नानृतं वदेत् । (५८।१)

nāśrūṇi pātayejjātu na kupyennānṛtaṃ vadet |

58.2५८.२

न पादेन स्पृशेदन्नं न चैतदवधूनयेत् ॥ (५८।२)

na pādena spṛśedannaṃ na caitadavadhūnayet ||

59.1५९.१

क्रोधेन चैव यत् दत्तं यद् भुक्तं त्वरया पुनः । (५९।१)

krodhena caiva yat dattaṃ yad bhuktaṃ tvarayā punaḥ |

59.2५९.२

यातुधाना विलुम्पन्ति जल्पता चोपपादितम् ॥ (५९।२)

yātudhānā vilumpanti jalpatā copapāditam ||

60.1६०.१

स्विन्नगात्रो न तिष्ठेत सन्निधौ तु द्विजन्मनाम् । (६०।१)

svinnagātro na tiṣṭheta sannidhau tu dvijanmanām |

60.2६०.२

न चात्र श्येनकाकादीन् पक्षिणः प्रतिषेधयेत् । (६०।२)

na cātra śyenakākādīn pakṣiṇaḥ pratiṣedhayet |

60.3६०.३

तद्रूपाः पितरस्तत्र समायान्ति बुभुक्षवः ॥ (६०।३)

tadrūpāḥ pitarastatra samāyānti bubhukṣavaḥ ||

61.1६१.१

न दद्यात् तत्र हस्तेन प्रत्यक्षलवणं तथा । (६१।१)

na dadyāt tatra hastena pratyakṣalavaṇaṃ tathā |

61.2६१.२

न चायसेन पात्रेण न चैवाश्रद्धया पुनः ॥ (६१।२)

na cāyasena pātreṇa na caivāśraddhayā punaḥ ||

62.1६२.१

काञ्चनेन तु पात्रेण राजतौदुम्बरेण वा । (६२।१)

kāñcanena tu pātreṇa rājataudumbareṇa vā |

62.2६२.२

दत्तमक्षयतां याति खड्गेन च विशेषतः ॥ (६२।२)

dattamakṣayatāṃ yāti khaḍgena ca viśeṣataḥ ||

63.1६३.१

पात्रे तु मृण्मये यो वै श्राद्धे भोजयते पितॄन् । (६३।१)

pātre tu mṛṇmaye yo vai śrāddhe bhojayate pitṝn |

63.2६३.२

स याति नरकं घोरं भोक्ता चैव पुरोधसः ॥ (६३।२)

sa yāti narakaṃ ghoraṃ bhoktā caiva purodhasaḥ ||

64.1६४.१

न पङ्क्त्यां विषमं दद्यान्न याचेन्न च दापयेत् । (६४।१)

na paṅktyāṃ viṣamaṃ dadyānna yācenna ca dāpayet |

64.2६४.२

याचिता दापिता दाता नरकान् यान्ति दारुणान् ॥ (६४।२)

yācitā dāpitā dātā narakān yānti dāruṇān ||

65.1६५.१

भुञ्जीरन् वाग्यताः शिष्टा न ब्रूयुः प्राकृतान् गुणान् । (६५।१)

bhuñjīran vāgyatāḥ śiṣṭā na brūyuḥ prākṛtān guṇān |

65.2६५.२

तावद्धि पितरो ऽश्नन्ति यावन्नोक्ता हविर्गुणाः ॥ (६५।२)

tāvaddhi pitaro 'śnanti yāvannoktā havirguṇāḥ ||

66.1६६.१

नाग्रासनोपविष्टस्तु भुञ्जीत प्रथमं द्विजः । (६६।१)

nāgrāsanopaviṣṭastu bhuñjīta prathamaṃ dvijaḥ |

66.2६६.२

बहूनां पश्यतां सो ऽज्ञः पङ्क्त्या हरति किल्बिषम् ॥ (६६।२)

bahūnāṃ paśyatāṃ so 'jñaḥ paṅktyā harati kilbiṣam ||

67.1६७.१

न किंचिद् वर्जयेच्छ्राद्धे नियुक्तस्तु द्विजोत्तमः । (६७।१)

na kiṃcid varjayecchrāddhe niyuktastu dvijottamaḥ |

67.2६७.२

न मांसं प्रतिषेधेत न चान्यस्यान्नमीक्षयेत् ॥ (६७।२)

na māṃsaṃ pratiṣedheta na cānyasyānnamīkṣayet ||

68.1६८.१

यो नाश्नाति द्विजो मांसं नियुक्तः पितृकर्मणि । (६८।१)

yo nāśnāti dvijo māṃsaṃ niyuktaḥ pitṛkarmaṇi |

68.2६८.२

स प्रेत्य पशुतां याति संभवानेकविंशतिम् ॥ (६८।२)

sa pretya paśutāṃ yāti saṃbhavānekaviṃśatim ||

69.1६९.१

स्वाध्यायं श्रावयेदेषां धर्मशास्त्राणि चैव हि । (६९।१)

svādhyāyaṃ śrāvayedeṣāṃ dharmaśāstrāṇi caiva hi |

69.2६९.२

इतिहासपुराणानि श्राद्धकल्पांश्च शोभनान् ॥ (६९।२)

itihāsapurāṇāni śrāddhakalpāṃśca śobhanān ||

70.1७०.१

ततो ऽन्नमुत्सृजेद् भुक्ते अग्रतो विकिरन् भुवि । (७०।१)

tato 'nnamutsṛjed bhukte agrato vikiran bhuvi |

70.2७०.२

पृष्ट्वा तृप्ताः स्थ इत्येवं तृप्तानाचामयेत् ततः ॥ (७०।२)

pṛṣṭvā tṛptāḥ stha ityevaṃ tṛptānācāmayet tataḥ ||

71.1७१.१

आचान्ताननुजानीयाद् अभितो रम्यतामिति । (७१।१)

ācāntānanujānīyād abhito ramyatāmiti |

71.2७१.२

स्वधास्त्विति च तं ब्रूयुर्ब्राह्मणास्तदनन्तरम् ॥ (७१।२)

svadhāstviti ca taṃ brūyurbrāhmaṇāstadanantaram ||

72.1७२.१

ततो भुक्तवतां तेषामन्नशेषं निवेदयेत् । (७२।१)

tato bhuktavatāṃ teṣāmannaśeṣaṃ nivedayet |

72.2७२.२

यथा ब्रूयुस्तथा कुर्यादनुज्ञातस्तु वै द्विजैः ॥ (७२।२)

yathā brūyustathā kuryādanujñātastu vai dvijaiḥ ||

73.1७३.१

पित्र्ये स्वदित इत्येव वाक्यं गोष्ठेषु सूनृतम् । (७३।१)

pitrye svadita ityeva vākyaṃ goṣṭheṣu sūnṛtam |

73.2७३.२

सम्पन्नम् इत्यभ्युदये दैवे रोचत इत्यपि ॥ (७३।२)

sampannam ityabhyudaye daive rocata ityapi ||

74.1७४.१

विसृज्य ब्राह्मणांस्तान् वै दैवपूर्वं तु वाग्यतः । (७४।१)

visṛjya brāhmaṇāṃstān vai daivapūrvaṃ tu vāgyataḥ |

74.2७४.२

दक्षिणां दिशम् आकाङ्क्षन् याचेतेमान् वरान् पितॄन् ॥ (७४।२)

dakṣiṇāṃ diśam ākāṅkṣan yācetemān varān pitṝn ||

75.1७५.१

दातारो नो ऽभिवर्धन्तां वेदाः संततिरेव च । (७५।१)

dātāro no 'bhivardhantāṃ vedāḥ saṃtatireva ca |

75.2७५.२

श्रद्धा च नो मा व्यगमद् बहुदेयं च नो ऽस्त्विति ॥ (७५।२)

śraddhā ca no mā vyagamad bahudeyaṃ ca no 'stviti ||

76.1७६.१

पिण्डांस्तु गो ऽजविप्रेभ्यो दद्यादग्नौ जले ऽपि वा । (७६।१)

piṇḍāṃstu go 'javiprebhyo dadyādagnau jale 'pi vā |

76.2७६.२

मध्यमं तु ततः पिण्डमद्यात् पत्नी सुतार्थिनी ॥ (७६।२)

madhyamaṃ tu tataḥ piṇḍamadyāt patnī sutārthinī ||

77.1७७.१

प्रक्षाल्य हस्तावाचम्य ज्ञातीन् शेषेण तोषयेत् । (७७।१)

prakṣālya hastāvācamya jñātīn śeṣeṇa toṣayet |

77.2७७.२

ज्ञातिष्वपि चतुष्टेषु स्वान् भृत्यान् भोजयेत् ततः । (७७।२)

jñātiṣvapi catuṣṭeṣu svān bhṛtyān bhojayet tataḥ |

77.3७७.३

पश्चात् स्वयं च पत्नीभिः शेषमन्नं समाचरेत् ॥ (७७।३)

paścāt svayaṃ ca patnībhiḥ śeṣamannaṃ samācaret ||

78.1७८.१

नोद्वासयेत् तदुच्छिष्टं यावन् नास्तंगतो रविः । (७८।१)

nodvāsayet taducchiṣṭaṃ yāvan nāstaṃgato raviḥ |

78.2७८.२

ब्रह्मचारी भवेतां तु दम्पती रजनीं तु ताम् ॥ (७८।२)

brahmacārī bhavetāṃ tu dampatī rajanīṃ tu tām ||

79.1७९.१

दत्त्वा श्राद्धं तथा भुक्त्वा सेवते यस्तु मैथुनम् । (७९।१)

dattvā śrāddhaṃ tathā bhuktvā sevate yastu maithunam |

79.2७९.२

महारौरवमासाद्य कीटयोनिं व्रजेत् पुनः ॥ (७९।२)

mahārauravamāsādya kīṭayoniṃ vrajet punaḥ ||

80.1८०.१

शुचिरक्रोधनः शान्तः सत्यवादी समाहितः । (८०।१)

śucirakrodhanaḥ śāntaḥ satyavādī samāhitaḥ |

80.2८०.२

स्वाध्यायं च तथाध्वानं कर्ता भोक्ता च वर्जयेत् ॥ (८०।२)

svādhyāyaṃ ca tathādhvānaṃ kartā bhoktā ca varjayet ||

81.1८१.१

श्राद्धं भुक्त्वा परश्राद्धं भुञ्जते ये द्विजातयः । (८१।१)

śrāddhaṃ bhuktvā paraśrāddhaṃ bhuñjate ye dvijātayaḥ |

81.2८१.२

महापातकिभिस् तुल्या यान्ति ते नरकान् बहून् ॥ (८१।२)

mahāpātakibhis tulyā yānti te narakān bahūn ||

82.1८२.१

एष वो विहितः सम्यक् श्राद्धकल्पः सनातनः । (८२।१)

eṣa vo vihitaḥ samyak śrāddhakalpaḥ sanātanaḥ |

82.2८२.२

आमेन वर्तयेन्नित्यमुदासीनो ऽथ तत्त्ववित् ॥ (८२।२)

āmena vartayennityamudāsīno 'tha tattvavit ||

83.1८३.१

अनग्निरध्वगो वापि तथैव व्यसनान्वितः । (८३।१)

anagniradhvago vāpi tathaiva vyasanānvitaḥ |

83.2८३.२

आमश्राद्धं द्विजः कुर्याद् विधिज्ञः श्रद्धयान्वितः । (८३।२)

āmaśrāddhaṃ dvijaḥ kuryād vidhijñaḥ śraddhayānvitaḥ |

83.3८३.३

तेनाग्नौ करणं कुर्यात् पिण्डांस्तेनैव निर्वपेत् ॥ (८३।३)

tenāgnau karaṇaṃ kuryāt piṇḍāṃstenaiva nirvapet ||

84.1८४.१

यो ऽनेन विधिना श्राद्धं कुर्यात् संयतमानसः । (८४।१)

yo 'nena vidhinā śrāddhaṃ kuryāt saṃyatamānasaḥ |

84.2८४.२

व्यपेतकल्मषो नित्यं योगिनां वर्तते पदम् ॥ (८४।२)

vyapetakalmaṣo nityaṃ yogināṃ vartate padam ||

85.1८५.१

तस्मात् सर्वप्रयत्नेन श्राद्धं कुर्याद् द्विजोत्तमः । (८५।१)

tasmāt sarvaprayatnena śrāddhaṃ kuryād dvijottamaḥ |

85.2८५.२

आराधितो भवेदीशस्तेन सम्यक् सनातनः ॥ (८५।२)

ārādhito bhavedīśastena samyak sanātanaḥ ||

86.1८६.१

अपि मूलैः फलैर्वापि प्रकुर्यान्निर्धनो द्विजः । (८६।१)

api mūlaiḥ phalairvāpi prakuryānnirdhano dvijaḥ |

86.2८६.२

तिलोदकैस्तर्पयेद् वा पितॄन् स्नात्वा समाहितः ॥ (८६।२)

tilodakaistarpayed vā pitṝn snātvā samāhitaḥ ||

87.1८७.१

न जीवत्पितृको दद्याद्धोमान्तं चाभिधीयते । (८७।१)

na jīvatpitṛko dadyāddhomāntaṃ cābhidhīyate |

87.2८७.२

येषां वापि पिता दद्यात् तेषां चैके प्रचक्षते ॥ (८७।२)

yeṣāṃ vāpi pitā dadyāt teṣāṃ caike pracakṣate ||

88.1८८.१

पिता पितामहश्चैव तथैव प्रपितामहः । (८८।१)

pitā pitāmahaścaiva tathaiva prapitāmahaḥ |

88.2८८.२

यो यस्य म्रियते तस्मै देयं नान्यस्य तेन तु ॥ (८८।२)

yo yasya mriyate tasmai deyaṃ nānyasya tena tu ||

89.1८९.१

भोजयेद् वापि जीवन्तं यथाकामं तु भक्तितः । (८९।१)

bhojayed vāpi jīvantaṃ yathākāmaṃ tu bhaktitaḥ |

89.2८९.२

न जीवन्तमतिक्रम्य ददाति श्रूयते श्रुतिः ॥ (८९।२)

na jīvantamatikramya dadāti śrūyate śrutiḥ ||

90.1९०.१

द्व्यामुष्यायणिको दद्याद् बीजिक्षेत्रिकयोः समम् । (९०।१)

dvyāmuṣyāyaṇiko dadyād bījikṣetrikayoḥ samam |

90.2९०.२

ऋक्यादर्धं समादद्यान्नियोगोत्पादितो यदि ॥ (९०।२)

ṛkyādardhaṃ samādadyānniyogotpādito yadi ||

91.1९१.१

अनियुक्तः सुतो यश्च शुल्कतो जायते त्विह । (९१।१)

aniyuktaḥ suto yaśca śulkato jāyate tviha |

91.2९१.२

प्रदद्याद् बीजिने पिण्डं क्षेत्रिणे तु ततो ऽन्यथा ॥ (९१।२)

pradadyād bījine piṇḍaṃ kṣetriṇe tu tato 'nyathā ||

92.1९२.१

द्वौ पिण्डौ निर्वपेत् ताभ्यां क्षेत्रिणे बीजिने तथा । (९२।१)

dvau piṇḍau nirvapet tābhyāṃ kṣetriṇe bījine tathā |

92.2९२.२

कीर्तयेदथ चैकस्मिन् बीजिनं क्षेत्रिणं ततः ॥ (९२।२)

kīrtayedatha caikasmin bījinaṃ kṣetriṇaṃ tataḥ ||

93.1९३.१

मृताहनि तु कर्तव्यमेकोद्दिष्टं विधानतः । (९३।१)

mṛtāhani tu kartavyamekoddiṣṭaṃ vidhānataḥ |

93.2९३.२

अशौचे स्वे परिक्षीणे काम्यं वै कामतः पुनः ॥ (९३।२)

aśauce sve parikṣīṇe kāmyaṃ vai kāmataḥ punaḥ ||

94.1९४.१

पूर्वाह्ने चैव कर्तव्यं श्राद्धमभ्युदयार्थिना । (९४।१)

pūrvāhne caiva kartavyaṃ śrāddhamabhyudayārthinā |

94.2९४.२

देववत्सर्वमेव स्याद् यवैः कार्या तिलक्रिया ॥ (९४।२)

devavatsarvameva syād yavaiḥ kāryā tilakriyā ||

95.1९५.१

दर्भाश्च ऋजवः कार्या युग्मान् वै भोजयेद् द्विजान् । (९५।१)

darbhāśca ṛjavaḥ kāryā yugmān vai bhojayed dvijān |

95.2९५.२

नान्दीमुखास्तु पितरः प्रीयन्तामिति वाचयेत् ॥ (९५।२)

nāndīmukhāstu pitaraḥ prīyantāmiti vācayet ||

96.1९६.१

मातृश्राद्धं तु पूर्वं स्यात् पितॄणां स्यादनन्तरम् । (९६।१)

mātṛśrāddhaṃ tu pūrvaṃ syāt pitṝṇāṃ syādanantaram |

96.2९६.२

ततो मातामहानां तु वृद्धौ श्राद्धत्रयं स्मृतम् ॥ (९६।२)

tato mātāmahānāṃ tu vṛddhau śrāddhatrayaṃ smṛtam ||

97.1९७.१

दवपूर्वं प्रदद्याद् वै न कुर्यादप्रदक्षिणम् । (९७।१)

davapūrvaṃ pradadyād vai na kuryādapradakṣiṇam |

97.2९७.२

प्राङ्मुखो निर्वपेत् पिण्डानुपवीती समाहितः ॥ (९७।२)

prāṅmukho nirvapet piṇḍānupavītī samāhitaḥ ||

98.1९८.१

पूर्वं तु मातरः पूज्या भक्त्या वै सगणेश्वराः । (९८।१)

pūrvaṃ tu mātaraḥ pūjyā bhaktyā vai sagaṇeśvarāḥ |

98.2९८.२

स्थण्डिलेषु विचित्रेषु प्रतिमासु द्विजातिषु ॥ (९८।२)

sthaṇḍileṣu vicitreṣu pratimāsu dvijātiṣu ||

99.1९९.१

पुष्पैर् धूपैश्च नैवेद्यैर्गन्धाद्यैर्भूषणैरपि । (९९।१)

puṣpair dhūpaiśca naivedyairgandhādyairbhūṣaṇairapi |

99.2९९.२

पूजयित्वा मातृगणं कुर्याच्छ्राद्धत्रयं बुधः ॥ (९९।२)

pūjayitvā mātṛgaṇaṃ kuryācchrāddhatrayaṃ budhaḥ ||

100.1१००.१

अकृत्वा मातृयागं तु यः श्राद्धं परिवेषयेत् । (१००।१)

akṛtvā mātṛyāgaṃ tu yaḥ śrāddhaṃ pariveṣayet |

100.2१००.२

तस्य क्रोधसमाविष्टा हिंसामिच्छन्ति मातरः ॥ (१००।२)

tasya krodhasamāviṣṭā hiṃsāmicchanti mātaraḥ ||

101.1१०१.१

इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे द्वाविंशो ऽध्यायः ॥ (१०१।१)

iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge dvāviṃśo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

KūPur, 2, 22

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit