KūPur, 2, 33
Select a line for its word-by-word analysis.
मनुष्याणां तु हरणं कृत्वा स्त्रीणां गृहस्य च । (१।२)
manuṣyāṇāṃ tu haraṇaṃ kṛtvā strīṇāṃ gṛhasya ca |
द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मतः । (२।१)
dravyāṇāmalpasārāṇāṃ steyaṃ kṛtvānyaveśmataḥ |
चरेत् सांतपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये ॥ (२।२)
caret sāṃtapanaṃ kṛcchraṃ tanniryātyātmaśuddhaye ||
धान्यान्नधनचौर्यं तु कृत्वा कामाद् द्विजोत्तमः । (३।१)
dhānyānnadhanacauryaṃ tu kṛtvā kāmād dvijottamaḥ |
तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च । (५।१)
tṛṇakāṣṭhadrumāṇāṃ ca śuṣkānnasya guḍasya ca |
चैलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥ (५।२)
cailacarmāmiṣāṇāṃ ca trirātraṃ syādabhojanam ||
पक्षिगन्धौषधीनां च रज्वाश्चैव त्र्यहं पयः ॥ (७।२)
pakṣigandhauṣadhīnāṃ ca rajvāścaiva tryahaṃ payaḥ ||
काकं चैव तथा श्वानं जग्ध्वा हस्तिनमेव च । (८।२)
kākaṃ caiva tathā śvānaṃ jagdhvā hastinameva ca |
वराहं कुक्कुटं चाथ तप्तकृच्छ्रेण शुध्यति ॥ (८।३)
varāhaṃ kukkuṭaṃ cātha taptakṛcchreṇa śudhyati ||
उपोष्य द्वादशाहं तु कूष्माण्डैर्जुहुयाद् घृतम् ॥ (९।३)
upoṣya dvādaśāhaṃ tu kūṣmāṇḍairjuhuyād ghṛtam ||
नकुलोलूकमार्जारं जग्ध्वा सांतपनं चरेत् । (१०।१)
nakulolūkamārjāraṃ jagdhvā sāṃtapanaṃ caret |
श्वापदोष्ट्रखराञ्जग्ध्वा तप्तकृच्छ्रेण शुध्यति । (१०।२)
śvāpadoṣṭrakharāñjagdhvā taptakṛcchreṇa śudhyati |
व्रतवच्चैव संस्कारं पूर्वेण विधिनैव तु ॥ (१०।३)
vratavaccaiva saṃskāraṃ pūrveṇa vidhinaiva tu ||
चक्रवाकं प्लवं जग्ध्वा द्वादशाहमभोजनम् ॥ (११।२)
cakravākaṃ plavaṃ jagdhvā dvādaśāhamabhojanam ||
उलूकं जालपादं च जग्ध्वाप्येतद् व्रतं चरेत् ॥ (१२।२)
ulūkaṃ jālapādaṃ ca jagdhvāpyetad vrataṃ caret ||
शिशुमारं तथा चाषं मत्स्यमांसं तथैव च । (१३।१)
śiśumāraṃ tathā cāṣaṃ matsyamāṃsaṃ tathaiva ca |
जग्ध्वा चैव कटाहारमेतदेव चरेद् व्रतम् ॥ (१३।२)
jagdhvā caiva kaṭāhārametadeva cared vratam ||
कोकिलं चैव मत्स्यांश्च मण्डूकं भुजगं तथा । (१४।१)
kokilaṃ caiva matsyāṃśca maṇḍūkaṃ bhujagaṃ tathā |
जलेचरांश्च जलजान् प्रतुदान्नखविष्किरान् । (१५।१)
jalecarāṃśca jalajān pratudānnakhaviṣkirān |
रक्तपादांस्तथा जग्ध्वा सप्ताहं चैतदाचरेत् ॥ (१५।२)
raktapādāṃstathā jagdhvā saptāhaṃ caitadācaret ||
शुनो मांसं शुष्कमांसमात्मार्थं च तथा कृतम् । (१६।१)
śuno māṃsaṃ śuṣkamāṃsamātmārthaṃ ca tathā kṛtam |
भुक्त्वा मासं चरेदेतत् तत्पापस्यापनुत्तये ॥ (१६।२)
bhuktvā māsaṃ caredetat tatpāpasyāpanuttaye ||
वार्ताकं भूस्तृणं शिग्रुं खुखुण्डं करकं तथा । (१७।१)
vārtākaṃ bhūstṛṇaṃ śigruṃ khukhuṇḍaṃ karakaṃ tathā |
प्राजापत्यं चरेज्जग्ध्वा शङ्खं कुम्भीकमेव च ॥ (१७।२)
prājāpatyaṃ carejjagdhvā śaṅkhaṃ kumbhīkameva ca ||
पलाण्डुं लशुनं चैव भुक्त्वा चान्द्रायणं चरेत् । (१८।१)
palāṇḍuṃ laśunaṃ caiva bhuktvā cāndrāyaṇaṃ caret |
नालिकां तण्डुलीयं च प्राजापत्येन शुध्यति ॥ (१८।२)
nālikāṃ taṇḍulīyaṃ ca prājāpatyena śudhyati ||
अश्मान्तकं तथा पोतं तप्तकृच्छ्रेण शुध्यति । (१९।१)
aśmāntakaṃ tathā potaṃ taptakṛcchreṇa śudhyati |
प्राजापत्येन शुद्धिः स्यात् कक्कुभाण्डस्य भक्षणे ॥ (१९।२)
prājāpatyena śuddhiḥ syāt kakkubhāṇḍasya bhakṣaṇe ||
अलाबुं किंशुकं चैव भुक्त्वा चैतद् व्रतं चरेत् । (२०।१)
alābuṃ kiṃśukaṃ caiva bhuktvā caitad vrataṃ caret |
उदुम्बरं च कामेन तप्तकृच्छ्रेण शुध्यति ॥ (२०।२)
udumbaraṃ ca kāmena taptakṛcchreṇa śudhyati ||
भुक्त्वा चैवंविधं त्वन्नं त्रिरात्रेण विशुध्यति ॥ (२१।२)
bhuktvā caivaṃvidhaṃ tvannaṃ trirātreṇa viśudhyati ||
पीत्वा क्षीराण्यपेयानि ब्रह्मचारी समाहितः । (२२।१)
pītvā kṣīrāṇyapeyāni brahmacārī samāhitaḥ |
संधिन्याश्च विवत्सायाः पिबन् क्षीरमिदं चरेत् ॥ (२३।२)
saṃdhinyāśca vivatsāyāḥ piban kṣīramidaṃ caret ||
भुक्त्वा चैव नवश्राद्धे मृतके सूतके तथा । (२५।१)
bhuktvā caiva navaśrāddhe mṛtake sūtake tathā |
चान्द्रायणेन शुध्येत ब्राह्मणस्तु समाहितः ॥ (२५।२)
cāndrāyaṇena śudhyeta brāhmaṇastu samāhitaḥ ||
यस्याग्नौ हूयते नित्यं न यस्याग्रं न दीयते । (२६।१)
yasyāgnau hūyate nityaṃ na yasyāgraṃ na dīyate |
चान्द्रायणं चरेत् सम्यक् तस्यान्नप्राशने द्विजः ॥ (२६।२)
cāndrāyaṇaṃ caret samyak tasyānnaprāśane dvijaḥ ||
अभोज्यानां तु सर्वेषां भुक्त्वा चान्नमुपस्कृतम् । (२७।१)
abhojyānāṃ tu sarveṣāṃ bhuktvā cānnamupaskṛtam |
अन्तावसायिनां चैव तप्तकृच्छ्रेण शुध्यति ॥ (२७।२)
antāvasāyināṃ caiva taptakṛcchreṇa śudhyati ||
चाण्डालान्नं द्विजो भुक्त्वा सम्यक् चान्द्रायणं चरेत् । (२८।१)
cāṇḍālānnaṃ dvijo bhuktvā samyak cāndrāyaṇaṃ caret |
बुद्धिपूर्वं तु कृच्छ्राब्दं पुनः संस्कारमेव च ॥ (२८।२)
buddhipūrvaṃ tu kṛcchrābdaṃ punaḥ saṃskārameva ca ||
अभोज्यान्नं तु भुक्त्वा च प्राजापत्येन शुध्यति ॥ (२९।२)
abhojyānnaṃ tu bhuktvā ca prājāpatyena śudhyati ||
अनादिष्टेषु चैकाहं सर्वत्र तु यथार्थतः ॥ (३०।२)
anādiṣṭeṣu caikāhaṃ sarvatra tu yathārthataḥ ||
प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ॥ (३१।२)
prāśya mūtrapurīṣāṇi dvijaścāndrāyaṇaṃ caret ||
अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च । (३२।१)
ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭameva ca |
पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥ (३२।२)
punaḥ saṃskāramarhanti trayo varṇā dvijātayaḥ ||
क्रव्यादां पक्षिणां चैव प्राश्य मूत्रपुरीषकम् । (३३।१)
kravyādāṃ pakṣiṇāṃ caiva prāśya mūtrapurīṣakam |
महासांतपनं मोहात् तथा कुर्याद् द्विजोत्तमः । (३३।२)
mahāsāṃtapanaṃ mohāt tathā kuryād dvijottamaḥ |
प्राजापत्येन शुध्येत ब्राहामणोच्छिष्टभोजने । (३४।१)
prājāpatyena śudhyeta brāhāmaṇocchiṣṭabhojane |
क्षत्रिये तप्तकृच्छ्रं स्याद् वैश्ये चैवातिकृच्छ्रकम् । (३४।२)
kṣatriye taptakṛcchraṃ syād vaiśye caivātikṛcchrakam |
शूद्रोच्छिष्टं द्विजो भुक्त्वा कुर्याच्चान्द्रायणव्रतम् ॥ (३४।३)
śūdrocchiṣṭaṃ dvijo bhuktvā kuryāccāndrāyaṇavratam ||
सुराभाण्डोदरे वारि पीत्वा चान्द्रायणं चरेत् । (३५।१)
surābhāṇḍodare vāri pītvā cāndrāyaṇaṃ caret |
शुनोच्छिष्टं द्विजो भुक्त्वा त्रिरात्रेण विशुध्यति । (३५।२)
śunocchiṣṭaṃ dvijo bhuktvā trirātreṇa viśudhyati |
अपो मूत्रपुरीषाद्यैर्दूषिताः प्राशयेद् यदा । (३६।१)
apo mūtrapurīṣādyairdūṣitāḥ prāśayed yadā |
तदा सांतपनं प्रोक्तं व्रतं पापविशोधनम् ॥ (३६।२)
tadā sāṃtapanaṃ proktaṃ vrataṃ pāpaviśodhanam ||
चाण्डालकूपभाण्डेषु यदि ज्ञानात् पिबेज्जलम् । (३७।१)
cāṇḍālakūpabhāṇḍeṣu yadi jñānāt pibejjalam |
चरेत् सांतपनं कृच्छ्रं ब्राह्मणः पापशोधनम् ॥ (३७।२)
caret sāṃtapanaṃ kṛcchraṃ brāhmaṇaḥ pāpaśodhanam ||
चाण्डालेन तु संस्पृष्टं पीत्वा वारि द्विजोत्तमः । (३८।१)
cāṇḍālena tu saṃspṛṣṭaṃ pītvā vāri dvijottamaḥ |
त्रिरात्रेण विशुध्येत पञ्चगव्येन चैव हि ॥ (३८।२)
trirātreṇa viśudhyeta pañcagavyena caiva hi ||
महापातकिसंस्पर्शे भुङ्क्ते ऽस्नात्वा द्विजो यदि । (३९।१)
mahāpātakisaṃsparśe bhuṅkte 'snātvā dvijo yadi |
बुद्धिपूर्वं तु मूढात्मा तप्तकृच्छ्रं समाचरेत् ॥ (३९।२)
buddhipūrvaṃ tu mūḍhātmā taptakṛcchraṃ samācaret ||
स्पृष्ट्वा महापातकिनं चाण्डालं वा रजस्वलाम् । (४०।१)
spṛṣṭvā mahāpātakinaṃ cāṇḍālaṃ vā rajasvalām |
प्रमादाद् भोजनं कृत्वा त्रिरात्रेण विशुध्यति ॥ (४०।२)
pramādād bhojanaṃ kṛtvā trirātreṇa viśudhyati ||
स्नानार्हे यदि भुञ्जीत अहोरात्रेण शुध्यति । (४१।१)
snānārhe yadi bhuñjīta ahorātreṇa śudhyati |
बुद्धिपूर्वं तु कृच्छ्रेण भगवानाह पद्मजः ॥ (४१।२)
buddhipūrvaṃ tu kṛcchreṇa bhagavānāha padmajaḥ ||
भुक्त्वोपवासं कुर्वीत कृच्छ्रपादमथापि वा ॥ (४२।२)
bhuktvopavāsaṃ kurvīta kṛcchrapādamathāpi vā ||
संवत्सरान्ते कृच्छ्रं तु चरेद् विप्रः पुनः पुनः । (४३।१)
saṃvatsarānte kṛcchraṃ tu cared vipraḥ punaḥ punaḥ |
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ (४३।२)
ajñātabhuktaśuddhyarthaṃ jñātasya tu viśeṣataḥ ||
व्रात्यानां यजनं कृत्वा परेषामन्त्यकर्म च । (४४।१)
vrātyānāṃ yajanaṃ kṛtvā pareṣāmantyakarma ca |
अभिचारमहीनं च त्रिभिः कृच्छ्रैर् विशुध्यति ॥ (४४।२)
abhicāramahīnaṃ ca tribhiḥ kṛcchrair viśudhyati ||
ब्राह्मणादिहतानां तु कृत्वा दाहादिकाः क्रियाः । (४५।१)
brāhmaṇādihatānāṃ tu kṛtvā dāhādikāḥ kriyāḥ |
तैलाभ्यक्तो ऽथवा कुर्याद् यदि मूत्रपुरीषके । (४६।१)
tailābhyakto 'thavā kuryād yadi mūtrapurīṣake |
अहोरात्रेण शुध्येत श्मश्रुकर्म च मैथुनम् ॥ (४६।२)
ahorātreṇa śudhyeta śmaśrukarma ca maithunam ||
त्रिरात्रेण विशुध्येत त्रिरात्रात् षडहं पुनः ॥ (४७।२)
trirātreṇa viśudhyeta trirātrāt ṣaḍahaṃ punaḥ ||
कृच्छ्रं चान्द्रायणं कुर्यात् तत्पापस्यापनुत्तये ॥ (४८।२)
kṛcchraṃ cāndrāyaṇaṃ kuryāt tatpāpasyāpanuttaye ||
पतिताद् द्रव्यमादाय तदुत्सर्गेण शुध्यति । (४९।१)
patitād dravyamādāya tadutsargeṇa śudhyati |
चरेत् सांतपनं कृच्छ्रमित्याह भगवान् प्रभुः ॥ (४९।२)
caret sāṃtapanaṃ kṛcchramityāha bhagavān prabhuḥ ||
चरेयुस्त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च ॥ (५०।२)
careyustrīṇi kṛcchrāṇi trīṇi cāndrāyaṇāni ca ||
पुनश्च जातकर्मादिसंस्कारैः संस्कृता द्विजाः । (५१।१)
punaśca jātakarmādisaṃskāraiḥ saṃskṛtā dvijāḥ |
शुध्येयुस्तद् व्रतं सम्यक् चरेयुर्धर्मवर्धनाः ॥ (५१।२)
śudhyeyustad vrataṃ samyak careyurdharmavardhanāḥ ||
अनश्नन् संयतमना रात्रौ चेद् रात्रिमेव हि ॥ (५२।२)
anaśnan saṃyatamanā rātrau ced rātrimeva hi ||
अकृत्वा समिदाधानं शुचिः स्नात्वा समाहितः । (५३।१)
akṛtvā samidādhānaṃ śuciḥ snātvā samāhitaḥ |
गायत्र्यष्टसहस्रस्य जप्यं कुर्याद् विशुद्धये ॥ (५३।२)
gāyatryaṣṭasahasrasya japyaṃ kuryād viśuddhaye ||
उपासीत न चेत् संध्यां गृहस्थो ऽपि प्रमादतः । (५४।१)
upāsīta na cet saṃdhyāṃ gṛhastho 'pi pramādataḥ |
स्नात्वा विशुध्यते सद्यः परिश्रान्तस्तु संयमात् ॥ (५४।२)
snātvā viśudhyate sadyaḥ pariśrāntastu saṃyamāt ||
स्नातकव्रतलोपं तु कृत्वा चोपवसेद् दिनम् ॥ (५५।२)
snātakavratalopaṃ tu kṛtvā copavased dinam ||
संवत्सरं चरेत् कृच्छ्रमग्न्युत्सादी द्विजोत्तमः । (५६।१)
saṃvatsaraṃ caret kṛcchramagnyutsādī dvijottamaḥ |
चान्द्रायणं चरेद् व्रात्यो गोप्रदानेन शुध्यति ॥ (५६।२)
cāndrāyaṇaṃ cared vrātyo gopradānena śudhyati ||
नास्तिक्यं यदि कुर्वीत प्राजापत्यं चरेद् द्विजः । (५७।१)
nāstikyaṃ yadi kurvīta prājāpatyaṃ cared dvijaḥ |
देवद्रोहं गुरुद्रोहं तप्तकृच्छ्रेण शुध्यति ॥ (५७।२)
devadrohaṃ gurudrohaṃ taptakṛcchreṇa śudhyati ||
त्रिरात्रेण विशुध्येत् तु नग्नो वा प्रविशेज्जलम् ॥ (५८।२)
trirātreṇa viśudhyet tu nagno vā praviśejjalam ||
होमाश्च शाकला नित्यमपाङ्क्तानां विशोधनम् ॥ (५९।२)
homāśca śākalā nityamapāṅktānāṃ viśodhanam ||
नीलं रक्तं वसित्वा च ब्राह्मणो वस्त्रमेव हि । (६०।१)
nīlaṃ raktaṃ vasitvā ca brāhmaṇo vastrameva hi |
अहोरात्रोषितः स्नातः पञ्चगव्येन शुध्यति ॥ (६०।२)
ahorātroṣitaḥ snātaḥ pañcagavyena śudhyati ||
चान्द्रायणेन शुद्धिः स्यान्न ह्यन्या तस्य निष्कृतिः ॥ (६१।२)
cāndrāyaṇena śuddhiḥ syānna hyanyā tasya niṣkṛtiḥ ||
उद्बन्धनादिनिहतं संस्पृश्य ब्राह्मणः क्वचित् । (६२।१)
udbandhanādinihataṃ saṃspṛśya brāhmaṇaḥ kvacit |
चान्द्रायणेन शुद्धिः स्यात् प्राजापत्येन वा पुनः ॥ (६२।२)
cāndrāyaṇena śuddhiḥ syāt prājāpatyena vā punaḥ ||
उच्छिष्टो यद्यनाचान्तश् चाण्डालादीन् स्पृशेद् द्विजः । (६३।१)
ucchiṣṭo yadyanācāntaś cāṇḍālādīn spṛśed dvijaḥ |
प्रमादाद् वै जपेत् स्नात्वा गायत्र्यष्टसहस्रकम् ॥ (६३।२)
pramādād vai japet snātvā gāyatryaṣṭasahasrakam ||
त्रिरात्रोपोषितः सम्यक् पञ्चगव्येन शुध्यति ॥ (६४।२)
trirātropoṣitaḥ samyak pañcagavyena śudhyati ||
चण्डालपतितादींस्तु कामाद् यः संस्पृशेद् द्विजः । (६५।१)
caṇḍālapatitādīṃstu kāmād yaḥ saṃspṛśed dvijaḥ |
उच्छिष्टस्तत्र कुर्वीत प्राजापत्यं विशुद्धये ॥ (६५।२)
ucchiṣṭastatra kurvīta prājāpatyaṃ viśuddhaye ||
स्पृष्ट्वा स्नायाद् विशुद्ध्यर्थं तत्स्पृष्टं पतितं तथा ॥ (६६।२)
spṛṣṭvā snāyād viśuddhyarthaṃ tatspṛṣṭaṃ patitaṃ tathā ||
चाण्डालसूतकशवैः संस्पृष्टं संस्पृशेद् यदि । (६७।१)
cāṇḍālasūtakaśavaiḥ saṃspṛṣṭaṃ saṃspṛśed yadi |
प्रमादात् तत आचम्य जपं कुर्यात् समाहितः ॥ (६७।२)
pramādāt tata ācamya japaṃ kuryāt samāhitaḥ ||
तत्स्पृष्टस्पर्शिनं स्पृष्ट्वा बुद्धिपूर्वं द्विजोत्तमः । (६८।१)
tatspṛṣṭasparśinaṃ spṛṣṭvā buddhipūrvaṃ dvijottamaḥ |
आचमेत् तद्विशुद्ध्यर्थं प्राह देवः पितामहः ॥ (६८।२)
ācamet tadviśuddhyarthaṃ prāha devaḥ pitāmahaḥ ||
भुञ्जानस्य तु विप्रस्य कदाचित् संस्रवेद् गुदम् । (६९।१)
bhuñjānasya tu viprasya kadācit saṃsraved gudam |
कृत्वा शौचं ततः स्नायादुपोष्य जुहुयाद् घृतम् ॥ (६९।२)
kṛtvā śaucaṃ tataḥ snāyādupoṣya juhuyād ghṛtam ||
चाण्डालान्त्यशवं स्पृष्ट्वा कृच्छ्रं कुर्याद् विशुद्धये । (७०।१)
cāṇḍālāntyaśavaṃ spṛṣṭvā kṛcchraṃ kuryād viśuddhaye |
स्पृष्ट्वाभ्यक्तस् त्वसंस्पृश्यम् अहोरात्रेण शुध्यति ॥ (७०।२)
spṛṣṭvābhyaktas tvasaṃspṛśyam ahorātreṇa śudhyati ||
सुरां स्पृष्ट्वा द्विजः कुर्यात् प्राणायामत्रयं शुचिः । (७१।१)
surāṃ spṛṣṭvā dvijaḥ kuryāt prāṇāyāmatrayaṃ śuciḥ |
पलाण्डुं लशुनं चैव घृतं प्राश्य ततः शुचिः ॥ (७१।२)
palāṇḍuṃ laśunaṃ caiva ghṛtaṃ prāśya tataḥ śuciḥ ||
ब्राह्मणस्तु शुना दष्टस्त्र्यहं सायं पयः पिबेत् । (७२।१)
brāhmaṇastu śunā daṣṭastryahaṃ sāyaṃ payaḥ pibet |
नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् ॥ (७२।२)
nābherūrdhvaṃ tu daṣṭasya tadeva dviguṇaṃ bhavet ||
स्यादेतत् त्रिगुणं बाह्वोर्मूर्ध्नि च स्याच्चतुर्गुणम् । (७३।१)
syādetat triguṇaṃ bāhvormūrdhni ca syāccaturguṇam |
स्नात्वा जपेद् वा सावित्रीं श्वभिर्दष्टो द्विजोत्तमः ॥ (७३।२)
snātvā japed vā sāvitrīṃ śvabhirdaṣṭo dvijottamaḥ ||
अनिर्वर्त्य महायज्ञान् यो भुङ्क्ते तु द्विजोत्तमः । (७४।१)
anirvartya mahāyajñān yo bhuṅkte tu dvijottamaḥ |
अनातुरः सति धने कृच्छ्रार्धेन स शुध्यति ॥ (७४।२)
anāturaḥ sati dhane kṛcchrārdhena sa śudhyati ||
आहिताग्निरुपस्थानं न कुर्याद् यस्तु पर्वणि । (७५।१)
āhitāgnirupasthānaṃ na kuryād yastu parvaṇi |
ऋतौ न गच्छेद् भार्यां वा सो ऽपि कृच्छ्रार्धमाचरेत् ॥ (७५।२)
ṛtau na gacched bhāryāṃ vā so 'pi kṛcchrārdhamācaret ||
विनाद्भिर् अप्सु नाप्यार्तः शरीरं संनिवेश्य च । (७६।१)
vinādbhir apsu nāpyārtaḥ śarīraṃ saṃniveśya ca |
बुद्धिपूर्वं त्वभ्युदितो जपेदन्तर्जले द्विजः । (७७।१)
buddhipūrvaṃ tvabhyudito japedantarjale dvijaḥ |
गायत्र्यष्टसहस्रं तु त्र्यहं चोपवसेद् व्रती ॥ (७७।२)
gāyatryaṣṭasahasraṃ tu tryahaṃ copavased vratī ||
अनुगम्येच्छया शूद्रं प्रेतीभूतं द्विजोत्तमः । (७८।१)
anugamyecchayā śūdraṃ pretībhūtaṃ dvijottamaḥ |
गायत्र्यष्टसहस्रं च जप्यं कुर्यान्नदीषु च ॥ (७८।२)
gāyatryaṣṭasahasraṃ ca japyaṃ kuryānnadīṣu ca ||
कृत्वा तु शपथं विप्रो विप्रस्य वधसंयुतम् । (७९।१)
kṛtvā tu śapathaṃ vipro viprasya vadhasaṃyutam |
मृषैव यावकान्नेन कुर्याच्चान्द्रायणं व्रतम् ॥ (७९।२)
mṛṣaiva yāvakānnena kuryāccāndrāyaṇaṃ vratam ||
पङ्क्त्यां विषमदानं तु कृत्वा कृच्छ्रेण शुध्यति । (८०।१)
paṅktyāṃ viṣamadānaṃ tu kṛtvā kṛcchreṇa śudhyati |
छायां श्वपाकस्यारुह्य स्नात्वा संप्राशयेद् घृतम् ॥ (८०।२)
chāyāṃ śvapākasyāruhya snātvā saṃprāśayed ghṛtam ||
ईक्षेदादित्यमशुचिर्दृष्ट्वाग्निं चन्द्रमेव वा । (८१।१)
īkṣedādityamaśucirdṛṣṭvāgniṃ candrameva vā |
मानुषं चास्थि संस्पृश्य स्नानं कृत्वा विशुध्यति ॥ (८१।२)
mānuṣaṃ cāsthi saṃspṛśya snānaṃ kṛtvā viśudhyati ||
कृत्वा तु मिथ्याध्ययनं चरेद् भैक्षं तु वत्सरम् । (८२।१)
kṛtvā tu mithyādhyayanaṃ cared bhaikṣaṃ tu vatsaram |
कृतघ्नो ब्राह्मणगृहे पञ्च संवत्सरं व्रती ॥ (८२।२)
kṛtaghno brāhmaṇagṛhe pañca saṃvatsaraṃ vratī ||
हुङ्कारं ब्राह्मणस्योक्त्वा त्वङ्कारं च गरीयसः । (८३।१)
huṅkāraṃ brāhmaṇasyoktvā tvaṅkāraṃ ca garīyasaḥ |
स्नात्वानश्नन्न् अहःशेषं प्रणिपत्य प्रसादयेत् ॥ (८३।२)
snātvānaśnann ahaḥśeṣaṃ praṇipatya prasādayet ||
ताडयित्वा तृणेनापि कण्ठं बद्ध्वापि वाससा । (८४।१)
tāḍayitvā tṛṇenāpi kaṇṭhaṃ baddhvāpi vāsasā |
विवादे वापि निर्जित्य प्रणिपत्य प्रसादयेत् ॥ (८४।२)
vivāde vāpi nirjitya praṇipatya prasādayet ||
अवगूर्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने । (८५।१)
avagūrya caret kṛcchramatikṛcchraṃ nipātane |
कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ (८५।२)
kṛcchrātikṛcchrau kurvīta viprasyotpādya śoṇitam ||
गुरोराक्रोशमनृतं कृत्वा कुर्याद् विशोधनम् । (८६।१)
gurorākrośamanṛtaṃ kṛtvā kuryād viśodhanam |
एकरात्रं त्रिरात्रं वा तत्पापस्यापनुत्तये ॥ (८६।२)
ekarātraṃ trirātraṃ vā tatpāpasyāpanuttaye ||
देवर्षीणाम् अभिमुखं ष्ठीवनाक्रोशने कृते । (८७।१)
devarṣīṇām abhimukhaṃ ṣṭhīvanākrośane kṛte |
उल्मुकेन दहेज्जिह्वां दातव्यं च हिरण्यकम् ॥ (८७।२)
ulmukena dahejjihvāṃ dātavyaṃ ca hiraṇyakam ||
देवोद्याने तु यः कुर्यान्मूत्रोच्चारं सकृद् द्विजः । (८८।१)
devodyāne tu yaḥ kuryānmūtroccāraṃ sakṛd dvijaḥ |
छिन्द्याच्छिश्नं तु शुद्ध्यर्थं चरेच्चान्द्रायणं तु वा ॥ (८८।२)
chindyācchiśnaṃ tu śuddhyarthaṃ careccāndrāyaṇaṃ tu vā ||
देवतायतने मूत्रं कृत्वा मोहाद् द्विजोत्तमः । (८९।१)
devatāyatane mūtraṃ kṛtvā mohād dvijottamaḥ |
शिश्नस्योत्कर्तनं कृत्वा चान्द्रायणमथाचरेत् ॥ (८९।२)
śiśnasyotkartanaṃ kṛtvā cāndrāyaṇamathācaret ||
कृत्वा सम्यक् प्रकुर्वीत प्राजापत्यं द्विजोत्तमः ॥ (९०।२)
kṛtvā samyak prakurvīta prājāpatyaṃ dvijottamaḥ ||
तैस्तु संभाषणं कृत्वा स्नात्वा देवान् समर्चयेत् । (९१।१)
taistu saṃbhāṣaṇaṃ kṛtvā snātvā devān samarcayet |
दृष्ट्वा वीक्षेत भास्वन्तं स्म्वत्वा विशेश्वरं स्मरेत् ॥ (९१।२)
dṛṣṭvā vīkṣeta bhāsvantaṃ smvatvā viśeśvaraṃ smaret ||
यः सर्वभूताधिपतिं विश्वेशानं विनिन्दति । (९२।१)
yaḥ sarvabhūtādhipatiṃ viśveśānaṃ vinindati |
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥ (९२।२)
na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatairapi ||
चान्द्रायणं चरेत् पूर्वं कृच्छ्रं चैवातिकृच्छ्रकम् । (९३।१)
cāndrāyaṇaṃ caret pūrvaṃ kṛcchraṃ caivātikṛcchrakam |
प्रपन्नः शरणं देवं तस्मात् पापाद् विमुच्यते ॥ (९३।२)
prapannaḥ śaraṇaṃ devaṃ tasmāt pāpād vimucyate ||
चान्द्रायणं च विधिना कृच्छ्रं चैवातिकृच्छ्रकम् ॥ (९४।२)
cāndrāyaṇaṃ ca vidhinā kṛcchraṃ caivātikṛcchrakam ||
अमावस्यां तिथिं प्राप्य यः समाराधयेच्छिवम् । (९६।१)
amāvasyāṃ tithiṃ prāpya yaḥ samārādhayecchivam |
ब्राह्मणान् भोजयित्वा तु सर्वपापैः प्रमुच्यते ॥ (९६।२)
brāhmaṇān bhojayitvā tu sarvapāpaiḥ pramucyate ||
कृष्णाष्टम्यां महादेवं तथा कृष्णचतुर्दशीम् । (९७।१)
kṛṣṇāṣṭamyāṃ mahādevaṃ tathā kṛṣṇacaturdaśīm |
सम्पूज्य ब्राह्मणमुखे सर्वपापैः प्रमुच्यते ॥ (९७।२)
sampūjya brāhmaṇamukhe sarvapāpaiḥ pramucyate ||
त्रयोदश्यां तथा रात्रौ सोपहारं त्रिलोचनम् । (९८।१)
trayodaśyāṃ tathā rātrau sopahāraṃ trilocanam |
दृष्ट्वेशं प्रथमे यामे मुच्यते सर्वपातकैः ॥ (९८।२)
dṛṣṭveśaṃ prathame yāme mucyate sarvapātakaiḥ ||
प्रत्येकं तिलसंयुक्तान् दद्यात् सप्तोदकाञ्जलीन् । (१००।२)
pratyekaṃ tilasaṃyuktān dadyāt saptodakāñjalīn |
स्नात्वा नद्यां तु पूर्वाह्ने मुच्यते सर्वपातकैः ॥ (१००।३)
snātvā nadyāṃ tu pūrvāhne mucyate sarvapātakaiḥ ||
ब्रह्मचर्यम् अधःशय्याम् उपवासं द्विजार्चनम् । (१०१।१)
brahmacaryam adhaḥśayyām upavāsaṃ dvijārcanam |
व्रतेष्वेतेषु कुर्वीत शान्तः संयतमानसः ॥ (१०१।२)
vrateṣveteṣu kurvīta śāntaḥ saṃyatamānasaḥ ||
अमावस्यायां ब्रह्माणं समुद्दिश्य पितामहम् । (१०२।१)
amāvasyāyāṃ brahmāṇaṃ samuddiśya pitāmaham |
ब्राह्मणांस्त्रीन् समभ्यर्च्य मुच्यते सर्वपातकैः ॥ (१०२।२)
brāhmaṇāṃstrīn samabhyarcya mucyate sarvapātakaiḥ ||
षष्ठ्याम् उपोषितो देवं शुक्लपक्षे समाहितः । (१०३।१)
ṣaṣṭhyām upoṣito devaṃ śuklapakṣe samāhitaḥ |
सप्तम्यामर्चयेद् भानुं मुच्यते सर्वपातकैः ॥ (१०३।२)
saptamyāmarcayed bhānuṃ mucyate sarvapātakaiḥ ||
भरण्यां च चतुर्थ्यां च शनैश्चरदिने यमम् । (१०४।१)
bharaṇyāṃ ca caturthyāṃ ca śanaiścaradine yamam |
पूजयेत् सप्तजन्मोत्थैर्मुच्यते पातकैर्नरः ॥ (१०४।२)
pūjayet saptajanmotthairmucyate pātakairnaraḥ ||
एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् । (१०५।१)
ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam |
द्वादश्यां शुक्लपक्षस्य महापापैः प्रमुच्यते ॥ (१०५।२)
dvādaśyāṃ śuklapakṣasya mahāpāpaiḥ pramucyate ||
यः सर्वपापयुक्तो ऽपि पुण्यतीर्थेषु मानवः । (१०७।१)
yaḥ sarvapāpayukto 'pi puṇyatīrtheṣu mānavaḥ |
नियमेन त्यजेत् प्राणान् स मुच्येत् सर्वपातकैः ॥ (१०७।२)
niyamena tyajet prāṇān sa mucyet sarvapātakaiḥ ||
ब्रह्मघ्नं वा कृतघ्नं वा महापातकदूषितम् । (१०८।१)
brahmaghnaṃ vā kṛtaghnaṃ vā mahāpātakadūṣitam |
सती, wइदोw बुर्निन्ग्भर्तारमुद्धरेन्नारी प्रविष्टा सह पावकम् ॥ (१०८।२)
satī, widow burningbhartāramuddharennārī praviṣṭā saha pāvakam ||
एतदेव परं स्त्रीणां प्रायश्चित्तं विदुर्बुधाः । (१०९।१)
etadeva paraṃ strīṇāṃ prāyaścittaṃ vidurbudhāḥ |
सर्वपापसमुद्भूतौ नात्र कार्या विचारणा ॥ (१०९।२)
sarvapāpasamudbhūtau nātra kāryā vicāraṇā ||
पतिव्रता तु या नारी भर्तृशुश्रूषणोत्सुका । (११०।१)
pativratā tu yā nārī bhartṛśuśrūṣaṇotsukā |
पतिव्रता धर्मरता रुद्राण्येव न संशयः । (१११।१)
pativratā dharmaratā rudrāṇyeva na saṃśayaḥ |
नास्याः पराभवं कर्तुं शक्नोतीह जनः क्वचित् ॥ (१११।२)
nāsyāḥ parābhavaṃ kartuṃ śaknotīha janaḥ kvacit ||
स्होर्त् वेर्सिओन् ओड़् थे रामायणयथा रामस्य सुभगा सीता त्रैलोक्यविश्रुता । (११२।१)
short version of the Rāmāyaṇayathā rāmasya subhagā sītā trailokyaviśrutā |
पत्नी दाशरथेर्देवी विजिग्ये राक्षसेश्वरम् ॥ (११२।२)
patnī dāśaratherdevī vijigye rākṣaseśvaram ||
रामस्य भार्यां विमलां रावणो राक्षसेश्वरः । (११३।१)
rāmasya bhāryāṃ vimalāṃ rāvaṇo rākṣaseśvaraḥ |
गृहीत्वा मायया वेषं चरन्तीं विजने वने । (११४।१)
gṛhītvā māyayā veṣaṃ carantīṃ vijane vane |
समाहर्तुं मतिं चक्रे तापसः किल कामिनीम् ॥ (११४।२)
samāhartuṃ matiṃ cakre tāpasaḥ kila kāminīm ||
विज्ञाय सा च तद्भावं स्मृत्वा दाशरथिं पतिम् । (११५।१)
vijñāya sā ca tadbhāvaṃ smṛtvā dāśarathiṃ patim |
कृताञ्जली रामपत्नी साक्षात् पतिमिवाच्युतम् ॥ (११६।२)
kṛtāñjalī rāmapatnī sākṣāt patimivācyutam ||
नमस्ये पावकं देवं साक्षिणं विश्वतोमुखम् । (११८।१)
namasye pāvakaṃ devaṃ sākṣiṇaṃ viśvatomukham |
आत्मानं दीप्तवपुषं सर्वभूतहृदि स्थितम् ॥ (११८।२)
ātmānaṃ dīptavapuṣaṃ sarvabhūtahṛdi sthitam ||
प्रपद्ये शरणं वह्निं ब्रह्मण्यं ब्रह्मरूपिणम् । (११९।१)
prapadye śaraṇaṃ vahniṃ brahmaṇyaṃ brahmarūpiṇam |
भूतेशं कृत्तिवसनं शरण्यं परमं पदम् ॥ (११९।२)
bhūteśaṃ kṛttivasanaṃ śaraṇyaṃ paramaṃ padam ||
ॐ प्रपद्ये जगन्मूर्तिं प्रभवं सर्वतेजसाम् । (१२०।१)
oṃ prapadye jaganmūrtiṃ prabhavaṃ sarvatejasām |
महायोगेश्वरं वह्निमादित्यं परमेष्ठिनम् ॥ (१२०।२)
mahāyogeśvaraṃ vahnimādityaṃ parameṣṭhinam ||
प्रपद्ये शरणं रुद्रं महाग्रासं त्रिशूलिनम् । (१२१।१)
prapadye śaraṇaṃ rudraṃ mahāgrāsaṃ triśūlinam |
कालाग्निं योगिनामीशं भोगमोक्षफलप्रदम् ॥ (१२१।२)
kālāgniṃ yogināmīśaṃ bhogamokṣaphalapradam ||
प्रपद्ये त्वां विरूपाक्षं भुर् भुवः स्वः स्वरूपिणम् । (१२२।१)
prapadye tvāṃ virūpākṣaṃ bhur bhuvaḥ svaḥ svarūpiṇam |
हिरण्यमये गृहे गुप्तं महान्तममितौजसम् ॥ (१२२।२)
hiraṇyamaye gṛhe guptaṃ mahāntamamitaujasam ||
वैश्वानरं प्रपद्ये ऽहं सर्वभूतेष्ववस्थितम् । (१२३।१)
vaiśvānaraṃ prapadye 'haṃ sarvabhūteṣvavasthitam |
हव्यकव्यवहं देवं प्रपद्ये वह्निमीश्वरम् ॥ (१२३।२)
havyakavyavahaṃ devaṃ prapadye vahnimīśvaram ||
प्रपद्ये तत्परं तत्त्वं वरेण्यं सवितुः स्वयम् । (१२४।१)
prapadye tatparaṃ tattvaṃ vareṇyaṃ savituḥ svayam |
भर्गमग्निपरं ज्योती रक्ष मां हव्यवाहन ॥ (१२४।२)
bhargamagniparaṃ jyotī rakṣa māṃ havyavāhana ||
इति वह्न्यष्टकं जप्त्वा रामपत्नी यशस्विनी । (१२५।१)
iti vahnyaṣṭakaṃ japtvā rāmapatnī yaśasvinī |
ध्यायन्ती मनसा तस्थौ रामम् उन्मीलितेक्षणा ॥ (१२५।२)
dhyāyantī manasā tasthau rāmam unmīlitekṣaṇā ||
अथावसथ्याद् भगवान् हव्यवाहो महेश्वरः । (१२६।१)
athāvasathyād bhagavān havyavāho maheśvaraḥ |
आविरासीत् सुदीप्तात्मा तेजसा प्रदहन्निव ॥ (१२६।२)
āvirāsīt sudīptātmā tejasā pradahanniva ||
स्वष्ट्वा मायामयीं सीतां स रावणवधेप्सया । (१२७।१)
svaṣṭvā māyāmayīṃ sītāṃ sa rāvaṇavadhepsayā |
सीतामादाय धर्मिष्ठां पावको ऽन्तरधीयत ॥ (१२७।२)
sītāmādāya dharmiṣṭhāṃ pāvako 'ntaradhīyata ||
तां दृष्ट्वा तादृशीं सीतां रावणो राक्षसेश्वरः । (१२८।१)
tāṃ dṛṣṭvā tādṛśīṃ sītāṃ rāvaṇo rākṣaseśvaraḥ |
समादाय ययौ लङ्कां सागरान्तरसंस्थिताम् ॥ (१२८।२)
samādāya yayau laṅkāṃ sāgarāntarasaṃsthitām ||
सा प्रत्ययाय भूतानां सीता मायामयी पुनः । (१३०।१)
sā pratyayāya bhūtānāṃ sītā māyāmayī punaḥ |
विवेश पावकं दीप्तं ददाह ज्वलनो ऽपि ताम् ॥ (१३०।२)
viveśa pāvakaṃ dīptaṃ dadāha jvalano 'pi tām ||
दग्ध्वा मायामयीं सीतां भगवानुग्रदीधितिः । (१३१।१)
dagdhvā māyāmayīṃ sītāṃ bhagavānugradīdhitiḥ |
रामायादर्शयत् सीतां पावको ऽभूत् सुरप्रियः ॥ (१३१।२)
rāmāyādarśayat sītāṃ pāvako 'bhūt surapriyaḥ ||
प्रगृह्य भर्तुश्चरणौ कराभ्यां सा सुमध्यमा । (१३२।१)
pragṛhya bhartuścaraṇau karābhyāṃ sā sumadhyamā |
दृष्ट्वा हृष्टमना रामो विस्मयाकुललोचनः । (१३३।१)
dṛṣṭvā hṛṣṭamanā rāmo vismayākulalocanaḥ |
दग्धा भगवता पूर्वं दृष्टा मत्पार्श्वमागता ॥ (१३४।२)
dagdhā bhagavatā pūrvaṃ dṛṣṭā matpārśvamāgatā ||
यथावृत्तं दाशरथिं भूतानामेव सन्निधौ ॥ (१३५।२)
yathāvṛttaṃ dāśarathiṃ bhūtānāmeva sannidhau ||
इयं सा मिथिलेशेन पार्वतीं रुद्रवल्लभाम् । (१३६।१)
iyaṃ sā mithileśena pārvatīṃ rudravallabhām |
आराध्य लब्धा तपसा देव्याश्चात्यन्तवल्लभा ॥ (१३६।२)
ārādhya labdhā tapasā devyāścātyantavallabhā ||
भर्तुः शुश्रूषणोपेता सुशीलेयं पतिव्रता । (१३७।१)
bhartuḥ śuśrūṣaṇopetā suśīleyaṃ pativratā |
तदर्थं भवता दुष्टो रावणो राक्षसेश्वरः । (१३९।१)
tadarthaṃ bhavatā duṣṭo rāvaṇo rākṣaseśvaraḥ |
पश्य नारायणं देवं स्वात्मानं प्रभवाव्ययम् ॥ (१४०।२)
paśya nārāyaṇaṃ devaṃ svātmānaṃ prabhavāvyayam ||
इत्युक्त्वा भगवांश्चण्डो विश्वार्चिर् विश्वतोमुखः । (१४१।१)
ityuktvā bhagavāṃścaṇḍo viśvārcir viśvatomukhaḥ |
मानितो राघवेणाग्निर्भूतैश्चान्तरधीयत ॥ (१४१।२)
mānito rāghaveṇāgnirbhūtaiścāntaradhīyata ||
एतत्ते पतिव्रतानां वैं माहात्म्यं कथितं मया । (१४२।१)
etatte pativratānāṃ vaiṃ māhātmyaṃ kathitaṃ mayā |
स्त्रीणां सर्वाघशमनं प्रायश्चित्तमिदं स्मृतम् ॥ (१४२।२)
strīṇāṃ sarvāghaśamanaṃ prāyaścittamidaṃ smṛtam ||
स्वदेहं पुण्यतीर्थेषु त्यक्त्वा मुच्येत किल्बिषात् ॥ (१४३।२)
svadehaṃ puṇyatīrtheṣu tyaktvā mucyeta kilbiṣāt ||
पृथिव्यां सर्वतीर्थेषु स्नात्वा पुण्येषु वा द्विजः । (१४४।१)
pṛthivyāṃ sarvatīrtheṣu snātvā puṇyeṣu vā dvijaḥ |
मुच्यते पातकैः सर्वैः समस्तैरपि पूरुषः ॥ (१४४।२)
mucyate pātakaiḥ sarvaiḥ samastairapi pūruṣaḥ ||
इत्येष मानवो धर्मो युष्माकं कथितो मया । (१४५।२)
ityeṣa mānavo dharmo yuṣmākaṃ kathito mayā |
महेशाराधनार्थाय ज्ञानयोगं च शाश्वतम् ॥ (१४५।३)
maheśārādhanārthāya jñānayogaṃ ca śāśvatam ||
यो ऽनेन विधिना युक्तं ज्ञानयोगं समाचरेत् । (१४६।१)
yo 'nena vidhinā yuktaṃ jñānayogaṃ samācaret |
स्थापयेद् यः परं धर्मं ज्ञानं तत्पारमेश्वरम् । (१४७।१)
sthāpayed yaḥ paraṃ dharmaṃ jñānaṃ tatpārameśvaram |
यः संस्थापयितुं शक्तो न कुर्यान्मोहितो जनः । (१४८।१)
yaḥ saṃsthāpayituṃ śakto na kuryānmohito janaḥ |
स योगयुक्तो ऽपि मुनिर्नात्यर्थं भगवत्प्रियः ॥ (१४८।२)
sa yogayukto 'pi munirnātyarthaṃ bhagavatpriyaḥ ||
तस्मात् सदैव दातव्यं ब्राह्मणेषु विशेषतः । (१४९।१)
tasmāt sadaiva dātavyaṃ brāhmaṇeṣu viśeṣataḥ |
धर्मयुक्तेषु शान्तेषु श्रद्धया चान्वितेषु वै ॥ (१४९।२)
dharmayukteṣu śānteṣu śraddhayā cānviteṣu vai ||
यः पठेद् भवतां नित्यं संवादं मम चैव हि । (१५०।१)
yaḥ paṭhed bhavatāṃ nityaṃ saṃvādaṃ mama caiva hi |
सर्वपापविनिर्मुक्तो गच्छेत परमां गतिम् ॥ (१५०।२)
sarvapāpavinirmukto gaccheta paramāṃ gatim ||
श्राद्धे वा दैविके कार्ये ब्राह्मणानां च सन्निधौ । (१५१।१)
śrāddhe vā daivike kārye brāhmaṇānāṃ ca sannidhau |
पठेत नित्यं सुमनाः श्रोतव्यं च द्विजातिभिः ॥ (१५१।२)
paṭheta nityaṃ sumanāḥ śrotavyaṃ ca dvijātibhiḥ ||
यो ऽर्थं विचार्य युक्तात्मा श्रावयेद् ब्राह्मणान् शुचीन् । (१५२।१)
yo 'rthaṃ vicārya yuktātmā śrāvayed brāhmaṇān śucīn |
स दोषकञ्चुकं त्यक्त्वा याति देवं महेश्वरम् ॥ (१५२।२)
sa doṣakañcukaṃ tyaktvā yāti devaṃ maheśvaram ||
एतावदुक्त्वा भगवान् व्यासः सत्यवतीसुतः । (१५३।१)
etāvaduktvā bhagavān vyāsaḥ satyavatīsutaḥ |
समाश्वास्य मुनीन् सूतं जगाम च यथागतम् ॥ (१५३।२)
samāśvāsya munīn sūtaṃ jagāma ca yathāgatam ||
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे त्रयस्त्रिंशो ऽध्यायः ॥ (१५४।१)
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge trayastriṃśo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.