कूर्मपुराणKūrmapurāṇa

KūPur, 1, 33

33 of 95 · 75 verses

Select a line for its word-by-word analysis.

1.1१.१

सूत उवाच । (१।१)

sūta uvāca

1.2१.२

ततः सर्वाणि गुह्यानि तीर्थान्यायतनानि च । (१।२)

tataḥ sarvāṇi guhyāni tīrthānyāyatanāni ca |

1.3१.३

जगाम भगवान् व्यासो जैमिनिप्रमुखैर्वृतः ॥ (१।३)

jagāma bhagavān vyāso jaiminipramukhairvṛtaḥ ||

2.1२.१

इम्पोर्तन्त् तीर्थस्प्रयागं परमं तीर्थं प्रयागादधिकं शुभम् । (२।१)

important tīrthasprayāgaṃ paramaṃ tīrthaṃ prayāgādadhikaṃ śubham |

2.2२.२

विश्वरूपं तथा तीर्थं तालतीर्थम् अनुत्तमम् ॥ (२।२)

viśvarūpaṃ tathā tīrthaṃ tālatīrtham anuttamam ||

3.1३.१

आकाशाख्यं महातीर्थं तीर्थं चैवार्षभं परम् । (३।१)

ākāśākhyaṃ mahātīrthaṃ tīrthaṃ caivārṣabhaṃ param |

3.2३.२

स्वर्नीलं च महातीर्थं गौरीतीर्थमनुत्तमम् ॥ (३।२)

svarnīlaṃ ca mahātīrthaṃ gaurītīrthamanuttamam ||

4.1४.१

प्राजापत्यं तथा तीर्थं स्वर्गद्वारं तथैव च । (४।१)

prājāpatyaṃ tathā tīrthaṃ svargadvāraṃ tathaiva ca |

4.2४.२

जम्बुकेश्वरमित्युक्तं धर्माख्यं तीर्थमुत्तमम् ॥ (४।२)

jambukeśvaramityuktaṃ dharmākhyaṃ tīrthamuttamam ||

5.1५.१

गयातीर्थं महातीर्थं तीर्थं चैव महानदी । (५।१)

gayātīrthaṃ mahātīrthaṃ tīrthaṃ caiva mahānadī |

5.2५.२

नारायणं परं तीर्थं वायुतीर्थमनुत्तमम् ॥ (५।२)

nārāyaṇaṃ paraṃ tīrthaṃ vāyutīrthamanuttamam ||

6.1६.१

ज्ञानतीर्थं परं गुह्यं वाराहं तीर्थमुत्तमम् । (६।१)

jñānatīrthaṃ paraṃ guhyaṃ vārāhaṃ tīrthamuttamam |

6.2६.२

यमतीर्थं महापुण्यं तीर्थं संवर्तकं शुभम् ॥ (६।२)

yamatīrthaṃ mahāpuṇyaṃ tīrthaṃ saṃvartakaṃ śubham ||

7.1७.१

अग्नितीर्थं द्विजश्रेष्ठाः कलशेश्वरमुत्तमम् । (७।१)

agnitīrthaṃ dvijaśreṣṭhāḥ kalaśeśvaramuttamam |

7.2७.२

नागतीर्थं सोमतीर्थं सूर्यतीर्थं तथैव च ॥ (७।२)

nāgatīrthaṃ somatīrthaṃ sūryatīrthaṃ tathaiva ca ||

8.1८.१

पर्वताख्यं महागुह्यं मणिकर्णमनुत्तमम् । (८।१)

parvatākhyaṃ mahāguhyaṃ maṇikarṇamanuttamam |

8.2८.२

घटोत्कचं तीर्थवरं श्रीतीर्थं च पितामहम् ॥ (८।२)

ghaṭotkacaṃ tīrthavaraṃ śrītīrthaṃ ca pitāmaham ||

9.1९.१

गङ्गातीर्थं तु देवेशं ययातेस्तीर्थमुत्तमम् । (९।१)

gaṅgātīrthaṃ tu deveśaṃ yayātestīrthamuttamam |

9.2९.२

कापिलं चैव सोमेशं ब्रह्मतीर्थमनुत्तमम् ॥ (९।२)

kāpilaṃ caiva someśaṃ brahmatīrthamanuttamam ||

10.1१०.१

अत्र लिङ्गं पुरानीय ब्रह्मा स्नातुं यदा गतः । (१०।१)

atra liṅgaṃ purānīya brahmā snātuṃ yadā gataḥ |

10.2१०.२

तदानीं स्थापयामास विष्णुस्तल्लिङ्गमैश्वरम् ॥ (१०।२)

tadānīṃ sthāpayāmāsa viṣṇustalliṅgamaiśvaram ||

11.1११.१

ततः स्नात्वा समागत्य ब्रह्मा प्रोवाच तं हरिम् । (११।१)

tataḥ snātvā samāgatya brahmā provāca taṃ harim |

11.2११.२

मयानीतमिदं लिङ्गं कस्मात् स्थापितवानसि ॥ (११।२)

mayānītamidaṃ liṅgaṃ kasmāt sthāpitavānasi ||

12.1१२.१

तमाह विष्णुस्त्वत्तो ऽपि रुद्रे भक्तिर्दृढा मम । (१२।१)

tamāha viṣṇustvatto 'pi rudre bhaktirdṛḍhā mama |

12.2१२.२

तस्मात् प्रतिष्ठितं लिङ्गंनाम्ना तव भविष्यति ॥ (१२।२)

tasmāt pratiṣṭhitaṃ liṅgaṃnāmnā tava bhaviṣyati ||

13.1१३.१

भूतेश्वरं तथा तीर्थं तीर्थं धर्मसमुद्भवम् । (१३।१)

bhūteśvaraṃ tathā tīrthaṃ tīrthaṃ dharmasamudbhavam |

13.2१३.२

गन्धर्वतीर्थं परमं वाह्नेयं तीर्थमुत्तमम् ॥ (१३।२)

gandharvatīrthaṃ paramaṃ vāhneyaṃ tīrthamuttamam ||

14.1१४.१

दौर्वासिकं व्योमतीर्थं चन्द्रतीर्थं द्विजोत्तमाः । (१४।१)

daurvāsikaṃ vyomatīrthaṃ candratīrthaṃ dvijottamāḥ |

14.2१४.२

चित्राङ्गदेश्वरं पुण्यं पुण्यं विद्याधरेश्वरम् ॥ (१४।२)

citrāṅgadeśvaraṃ puṇyaṃ puṇyaṃ vidyādhareśvaram ||

15.1१५.१

केदारतीर्थमुग्राख्यं कालञ्जरमनुत्तमम् । (१५।१)

kedāratīrthamugrākhyaṃ kālañjaramanuttamam |

15.2१५.२

सारस्वतं प्रभासं च भद्रकर्णं ह्रदं शुभम् ॥ (१५।२)

sārasvataṃ prabhāsaṃ ca bhadrakarṇaṃ hradaṃ śubham ||

16.1१६.१

लौकिकाख्यं महातीर्थं तीर्थं चैव वृषध्वजम् । (१६।१)

laukikākhyaṃ mahātīrthaṃ tīrthaṃ caiva vṛṣadhvajam |

16.2१६.२

हिरण्यगर्भं गोप्रेक्ष्यं तीर्थं चैव वृषध्वजम् ॥ (१६।२)

hiraṇyagarbhaṃ goprekṣyaṃ tīrthaṃ caiva vṛṣadhvajam ||

17.1१७.१

उपशान्तं शिवं चैव व्याघ्रेश्वरमनुत्तमम् । (१७।१)

upaśāntaṃ śivaṃ caiva vyāghreśvaramanuttamam |

17.2१७.२

त्रिलोचनं महातीर्थं लोलार्कं चोत्तराह्वयम् ॥ (१७।२)

trilocanaṃ mahātīrthaṃ lolārkaṃ cottarāhvayam ||

18.1१८.१

कपालमोचनं तीर्थं ब्रह्महत्याविनाशनम् । (१८।१)

kapālamocanaṃ tīrthaṃ brahmahatyāvināśanam |

18.2१८.२

शुक्रेश्वरं महापुण्यमानन्दपुरमुत्तमम् ॥ (१८।२)

śukreśvaraṃ mahāpuṇyamānandapuramuttamam ||

19.1१९.१

एवमादीनि तीर्थानि प्राधान्यात् कथितानि तु । (१९।१)

evamādīni tīrthāni prādhānyāt kathitāni tu |

19.2१९.२

न शक्यं विस्तराद् वक्तुं तीर्थसंख्या द्विजोत्तमाः ॥ (१९।२)

na śakyaṃ vistarād vaktuṃ tīrthasaṃkhyā dvijottamāḥ ||

20.1२०.१

व्यास इन् बेनरेस्तेषु सर्वेषु तीर्थेषु स्नात्वाभ्यर्च्य पिनाकिनम् । (२०।१)

Vyāsa in Benaresteṣu sarveṣu tīrtheṣu snātvābhyarcya pinākinam |

20.2२०.२

उपोष्य तत्र तत्रासौ पाराशर्यो महामुनिः ॥ (२०।२)

upoṣya tatra tatrāsau pārāśaryo mahāmuniḥ ||

21.1२१.१

तर्पयित्वा पितॄन् देवान् कृत्वा पिण्डप्रदानकम् । (२१।१)

tarpayitvā pitṝn devān kṛtvā piṇḍapradānakam |

21.2२१.२

जगाम पुनरेवापि यत्र विश्वेश्वरः शिवः ॥ (२१।२)

jagāma punarevāpi yatra viśveśvaraḥ śivaḥ ||

22.1२२.१

स्नात्वाभ्यर्च्य परं लिङ्गं शिष्यैः सह महामुनिः । (२२।१)

snātvābhyarcya paraṃ liṅgaṃ śiṣyaiḥ saha mahāmuniḥ |

22.2२२.२

उवाच शिष्यान् धर्मात्मा स्वान् देशान् गन्तुम् अर्हथ ॥ (२२।२)

uvāca śiṣyān dharmātmā svān deśān gantum arhatha ||

23.1२३.१

ते प्रणम्य महात्मानं जग्मुः पैलादयो द्विजाः । (२३।१)

te praṇamya mahātmānaṃ jagmuḥ pailādayo dvijāḥ |

23.2२३.२

वासं च तत्र नियतो वाराणस्यां चकार सः ॥ (२३।२)

vāsaṃ ca tatra niyato vārāṇasyāṃ cakāra saḥ ||

24.1२४.१

शान्तो दान्तस्त्रिषवणं स्नात्वाभ्यर्च्य पिनाकिनम् । (२४।१)

śānto dāntastriṣavaṇaṃ snātvābhyarcya pinākinam |

24.2२४.२

भैक्षाहारो विशुद्धात्मा ब्रह्मचर्यपरायणः ॥ (२४।२)

bhaikṣāhāro viśuddhātmā brahmacaryaparāyaṇaḥ ||

25.1२५.१

कदाचिद् वसता तत्र व्यासेनामिततेजसा । (२५।१)

kadācid vasatā tatra vyāsenāmitatejasā |

25.2२५.२

भ्रममाणेन भिक्षा तु नैव लब्धा द्विजोत्तमाः ॥ (२५।२)

bhramamāṇena bhikṣā tu naiva labdhā dvijottamāḥ ||

26.1२६.१

ततः क्रोधावृततनुर्नराणामिह वासिनाम् । (२६।१)

tataḥ krodhāvṛtatanurnarāṇāmiha vāsinām |

26.2२६.२

विघ्नं सृजामि सर्वेषां येन सिद्धिर्विहीयते ॥ (२६।२)

vighnaṃ sṛjāmi sarveṣāṃ yena siddhirvihīyate ||

27.1२७.१

तत्क्षणे सा महादेवी शङ्करार्धशरीरिणी । (२७।१)

tatkṣaṇe sā mahādevī śaṅkarārdhaśarīriṇī |

27.2२७.२

प्रादुरासीत् स्वयं प्रीत्या वेषं कृत्वा तु मानुषम् ॥ (२७।२)

prādurāsīt svayaṃ prītyā veṣaṃ kṛtvā tu mānuṣam ||

28.1२८.१

भो भो व्यास महाबुद्धे शप्तव्या भवता न हि । (२८।१)

bho bho vyāsa mahābuddhe śaptavyā bhavatā na hi |

28.2२८.२

गृहाण भिक्षां मत्तस्त्वमुक्त्वैवं प्रददौ शिवा ॥ (२८।२)

gṛhāṇa bhikṣāṃ mattastvamuktvaivaṃ pradadau śivā ||

29.1२९.१

उवाच च महादेवी क्रोधनस्त्वं भवान् यतः । (२९।१)

uvāca ca mahādevī krodhanastvaṃ bhavān yataḥ |

29.2२९.२

इह क्षेत्रे न वस्तव्यं कृतघ्नो ऽसि त्वया सदा ॥ (२९।२)

iha kṣetre na vastavyaṃ kṛtaghno 'si tvayā sadā ||

30.1३०.१

एवमुक्तः स भगवान् ध्यानाज्ज्ञात्वा परां शिवाम् । (३०।१)

evamuktaḥ sa bhagavān dhyānājjñātvā parāṃ śivām |

30.2३०.२

उवाच प्रणतो भूत्वा स्तुत्वा च प्रवरैः स्तवैः ॥ (३०।२)

uvāca praṇato bhūtvā stutvā ca pravaraiḥ stavaiḥ ||

31.1३१.१

चतुर्दश्यामथाष्टम्यां प्रवेशं देहि शाङ्करि । (३१।१)

caturdaśyāmathāṣṭamyāṃ praveśaṃ dehi śāṅkari |

31.2३१.२

एवमस्त्वित्यनुज्ञाय देवी चान्तरधीयत ॥ (३१।२)

evamastvityanujñāya devī cāntaradhīyata ||

32.1३२.१

एवं स भगवान् व्यासो महायोगी पुरातनः । (३२।१)

evaṃ sa bhagavān vyāso mahāyogī purātanaḥ |

32.2३२.२

ज्ञात्वा क्षेत्रगुणान् सर्वान् स्थितस्तस्याथ पार्श्वतः ॥ (३२।२)

jñātvā kṣetraguṇān sarvān sthitastasyātha pārśvataḥ ||

33.1३३.१

एवं व्यासं स्थितं ज्ञात्वा क्षेत्रं सेवन्ति पण्डिताः । (३३।१)

evaṃ vyāsaṃ sthitaṃ jñātvā kṣetraṃ sevanti paṇḍitāḥ |

33.2३३.२

तस्मात् सर्वप्रयत्नेन वाराणस्यां वसेन्नरः ॥ (३३।२)

tasmāt sarvaprayatnena vārāṇasyāṃ vasennaraḥ ||

34.1३४.१

सूत उवाच । (३४।१)

sūta uvāca

34.2३४.२

यः पठेदविमुक्तस्य माहात्म्यं शृणुयादपि । (३४।२)

yaḥ paṭhedavimuktasya māhātmyaṃ śṛṇuyādapi |

34.3३४.३

श्रावयेद् वा द्विजान् शान्तान् सो ऽपि याति परां गतिम् ॥ (३४।३)

śrāvayed vā dvijān śāntān so 'pi yāti parāṃ gatim ||

35.1३५.१

श्राद्धे वा दैविके कार्ये रात्रावहनि वा द्विजाः । (३५।१)

śrāddhe vā daivike kārye rātrāvahani vā dvijāḥ |

35.2३५.२

नदीनां चैव तीरेषु देवतायतनेषु च ॥ (३५।२)

nadīnāṃ caiva tīreṣu devatāyataneṣu ca ||

36.1३६.१

स्नात्वा समाहितमना दम्भमात्सर्यवर्जितः । (३६।१)

snātvā samāhitamanā dambhamātsaryavarjitaḥ |

36.2३६.२

जपेदीशं नमस्कृत्य स याति परमां गतिम् ॥ (३६।२)

japedīśaṃ namaskṛtya sa yāti paramāṃ gatim ||

37.1३७.१

इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायां पूर्वविभागे त्रयस्त्रिंशो ऽध्यायः ॥ (३७।१)

iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge trayastriṃśo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

KūPur, 1, 33

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit