KūPur, 1, 30
Select a line for its word-by-word analysis.
स शिष्यैः संवृतो धीमान् गुरुर्द्वैपायनो मुनिः । (१।२)
sa śiṣyaiḥ saṃvṛto dhīmān gururdvaipāyano muniḥ |
तत्राभ्यर्च्य महादेवं शिष्यैः सह महामुनिः । (२।१)
tatrābhyarcya mahādevaṃ śiṣyaiḥ saha mahāmuniḥ |
प्रोवाच तस्य माहात्म्यं मुनीनां भावितात्मनाम् ॥ (२।२)
provāca tasya māhātmyaṃ munīnāṃ bhāvitātmanām ||
इदं तद् विमलं लिङ्गम् ओङ्कारं नाम शोभनम् । (३।१)
idaṃ tad vimalaṃ liṅgam oṅkāraṃ nāma śobhanam |
सेवितं सूरिभिर्नित्यं वाराणस्यां विमोक्षदम् ॥ (४।२)
sevitaṃ sūribhirnityaṃ vārāṇasyāṃ vimokṣadam ||
यत् तत् पाशुपतं ज्ञानं पञ्चार्थमिति शब्द्यते । (६।१)
yat tat pāśupataṃ jñānaṃ pañcārthamiti śabdyate |
शान्त्यतीता तथा शान्तिर्विद्या चैव परा कला । (७।१)
śāntyatītā tathā śāntirvidyā caiva parā kalā |
प्रतिष्ठा च निवृत्तिश्च पञ्चार्थं लिङ्गमैश्वरम् ॥ (७।२)
pratiṣṭhā ca nivṛttiśca pañcārthaṃ liṅgamaiśvaram ||
देहान्ते तत्परं ज्योतिरानन्दं विशते बुधः ॥ (९।२)
dehānte tatparaṃ jyotirānandaṃ viśate budhaḥ ||
अत्र देवर्षयः पूर्वं सिद्धा ब्रह्मर्षयस्तथा । (१०।१)
atra devarṣayaḥ pūrvaṃ siddhā brahmarṣayastathā |
उपास्य देवमीशानं प्राप्तवन्तः परं पदम् ॥ (१०।२)
upāsya devamīśānaṃ prāptavantaḥ paraṃ padam ||
मत्स्योदर्यास्तटे पुण्यं स्थानं गुह्यतमं शुभम् । (११।१)
matsyodaryāstaṭe puṇyaṃ sthānaṃ guhyatamaṃ śubham |
गोचर्ममात्रं विप्रेन्द्रा ॐकारेश्वरम् उत्तमम् ॥ (११।२)
gocarmamātraṃ viprendrā oṃkāreśvaram uttamam ||
कृत्तिवासेश्वरं लिङ्गं मध्यमेश्वरमुत्तमम् । (१२।१)
kṛttivāseśvaraṃ liṅgaṃ madhyameśvaramuttamam |
विश्वेश्वरं तथौंकारं कपर्देश्वरमेव च ॥ (१२।२)
viśveśvaraṃ tathauṃkāraṃ kapardeśvarameva ca ||
एतानि गुह्यलिङ्गानि वाराणस्यां द्विजोत्तमाः । (१३।१)
etāni guhyaliṅgāni vārāṇasyāṃ dvijottamāḥ |
एवमुक्त्वा ययौ कृष्णः पाराशर्यो महामुनिः । (१४।१)
evamuktvā yayau kṛṣṇaḥ pārāśaryo mahāmuniḥ |
कृत्तिवासेश्वरं लिङ्गं द्रष्टुं देवस्य शूलिनः ॥ (१४।२)
kṛttivāseśvaraṃ liṅgaṃ draṣṭuṃ devasya śūlinaḥ ||
समभ्यर्च्य तथा शिष्यैर्माहात्म्यं कृत्तिवाससः । (१५।१)
samabhyarcya tathā śiṣyairmāhātmyaṃ kṛttivāsasaḥ |
कथयामास शिष्येभ्यो भगवान् ब्रह्मवित्तमः ॥ (१५।२)
kathayāmāsa śiṣyebhyo bhagavān brahmavittamaḥ ||
अस्मिन् स्थाने पुरा दैत्यो हस्ती भूत्वा भवान्तिकम् । (१६।१)
asmin sthāne purā daityo hastī bhūtvā bhavāntikam |
ब्राह्मणान् हन्तुमायातो ये ऽत्र नित्यमुपासते ॥ (१६।२)
brāhmaṇān hantumāyāto ye 'tra nityamupāsate ||
तेषां लिङ्गान्महादेवः प्रादुरासीत् त्रिलोचनः । (१७।१)
teṣāṃ liṅgānmahādevaḥ prādurāsīt trilocanaḥ |
रक्षणार्थं द्विजश्रेष्ठा भक्तानां भक्तवत्सलः ॥ (१७।२)
rakṣaṇārthaṃ dvijaśreṣṭhā bhaktānāṃ bhaktavatsalaḥ ||
हत्वा गजाकृतिं दैत्यं शूलेनावज्ञया हरः । (१८।१)
hatvā gajākṛtiṃ daityaṃ śūlenāvajñayā haraḥ |
वासस् तस्याकरोत् कृत्तिं कृत्तिवासेश्वरस्ततः ॥ (१८।२)
vāsas tasyākarot kṛttiṃ kṛttivāseśvarastataḥ ||
अत्र सिद्धिं परां प्राप्ता मुनयो मुनिपुङ्गवाः । (१९।१)
atra siddhiṃ parāṃ prāptā munayo munipuṅgavāḥ |
तेनैव च शरीरेण प्राप्तास्तत् परमं पदम् ॥ (१९।२)
tenaiva ca śarīreṇa prāptāstat paramaṃ padam ||
विद्या विद्येश्वरा रुद्राः शिवा ये च प्रकीर्तिताः । (२०।१)
vidyā vidyeśvarā rudrāḥ śivā ye ca prakīrtitāḥ |
कृत्तिवासेश्वरं लिङ्गं नित्यमावृत्य संस्थिताः ॥ (२०।२)
kṛttivāseśvaraṃ liṅgaṃ nityamāvṛtya saṃsthitāḥ ||
कृत्तिवासं न मुञ्चन्ति कृतार्थास्ते न संशयः ॥ (२१।२)
kṛttivāsaṃ na muñcanti kṛtārthāste na saṃśayaḥ ||
जन्मान्तरसहस्रेण मोक्षो ऽन्यत्राप्यते न वा । (२२।१)
janmāntarasahasreṇa mokṣo 'nyatrāpyate na vā |
एकेन जन्मना मोक्षः कृत्तिवासे तु लभ्यते ॥ (२२।२)
ekena janmanā mokṣaḥ kṛttivāse tu labhyate ||
आलयः सर्वसिद्धानामेतत् स्थानं वदन्ति हि । (२३।१)
ālayaḥ sarvasiddhānāmetat sthānaṃ vadanti hi |
युगे युगे ह्यत्र दान्ता ब्राह्मणा वेदपारगाः । (२४।१)
yuge yuge hyatra dāntā brāhmaṇā vedapāragāḥ |
स्तुवन्ति सततं देवं त्र्यम्बकं कृत्तिवाससम् । (२५।१)
stuvanti satataṃ devaṃ tryambakaṃ kṛttivāsasam |
ध्यायन्ति हृदये देवं स्थाणुं सर्वान्तरं शिवम् ॥ (२५।२)
dhyāyanti hṛdaye devaṃ sthāṇuṃ sarvāntaraṃ śivam ||
गायन्ति सिद्धाः किल गीतकानि ये वाराणस्यां निवसन्ति विप्राः । (२६।१)
gāyanti siddhāḥ kila gītakāni ye vārāṇasyāṃ nivasanti viprāḥ |
तेषामथैकेन भवेन मुक्तिर् ये कृत्तिवासं शरणं प्रपन्नाः ॥ (२६।२)
teṣāmathaikena bhavena muktir ye kṛttivāsaṃ śaraṇaṃ prapannāḥ ||
सम्प्राप्य लोके जगतामभीष्टं सुदुर्लभं विप्रकुलेषु जन्म । (२७।१)
samprāpya loke jagatāmabhīṣṭaṃ sudurlabhaṃ viprakuleṣu janma |
ध्याने समाधाय जपन्ति रुद्रं ध्यायन्ति चित्ते यतयो महेशम् ॥ (२७।२)
dhyāne samādhāya japanti rudraṃ dhyāyanti citte yatayo maheśam ||
आराधयन्ति प्रभुमीशितारं वाराणसीमध्यगता मुनीन्द्राः । (२८।१)
ārādhayanti prabhumīśitāraṃ vārāṇasīmadhyagatā munīndrāḥ |
यजन्ति यज्ञैरभिसंधिहीनाः स्तुवन्ति रुद्रं प्रणमन्ति शंभुम् ॥ (२८।२)
yajanti yajñairabhisaṃdhihīnāḥ stuvanti rudraṃ praṇamanti śaṃbhum ||
नमो भवायामलयोगधाम्ने स्थाणुं प्रपद्ये गिरिशं पुराणम् । (२९।१)
namo bhavāyāmalayogadhāmne sthāṇuṃ prapadye giriśaṃ purāṇam |
स्मरामि रुद्रं हृदये निविष्टं जाने महादेवमनेकरूपम् ॥ (२९।२)
smarāmi rudraṃ hṛdaye niviṣṭaṃ jāne mahādevamanekarūpam ||
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायां पूर्वविभागे त्रिंशो ऽध्यायः ॥ (३०।१)
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge triṃśo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.