KūPur, 2, 25
Select a line for its word-by-word analysis.
एष वो ऽभिहितः कृत्स्नो गृहस्थाश्रमवासिनः । (१।२)
eṣa vo 'bhihitaḥ kṛtsno gṛhasthāśramavāsinaḥ |
द्विविधस्तु गृही ज्ञेयः साधकश्चाप्यसाधकः । (२।१)
dvividhastu gṛhī jñeyaḥ sādhakaścāpyasādhakaḥ |
अध्यापनं याजनं च पूर्वस्याहुः प्रतिग्रहम् । (२।२)
adhyāpanaṃ yājanaṃ ca pūrvasyāhuḥ pratigraham |
आपत्कल्पो ह्ययं ज्ञेयः पूर्वोक्तो मुख्य इष्यते ॥ (३।२)
āpatkalpo hyayaṃ jñeyaḥ pūrvokto mukhya iṣyate ||
स्वयं वा कर्षणं कुर्याद् वाणिज्यं वा कुसीदकम् । (४।१)
svayaṃ vā karṣaṇaṃ kuryād vāṇijyaṃ vā kusīdakam |
कष्टा पापीयसी वृत्तिः कुसीदं तद् विवर्जयेत् ॥ (४।२)
kaṣṭā pāpīyasī vṛttiḥ kusīdaṃ tad vivarjayet ||
क्षात्रवृत्तिं परां प्राहुर्न स्वयं कर्षणं द्विजैः । (५।१)
kṣātravṛttiṃ parāṃ prāhurna svayaṃ karṣaṇaṃ dvijaiḥ |
तस्मात् क्षात्रेण वर्तेत वर्तनेनापदि द्विजः ॥ (५।२)
tasmāt kṣātreṇa varteta vartanenāpadi dvijaḥ ||
तेन चावाप्य जीवंस्तु वैश्यवृत्तिं कृषिं व्रजेत् । (६।१)
tena cāvāpya jīvaṃstu vaiśyavṛttiṃ kṛṣiṃ vrajet |
न कथञ्चन कुर्वीत ब्राह्मणः कर्म कर्षणम् ॥ (६।२)
na kathañcana kurvīta brāhmaṇaḥ karma karṣaṇam ||
लब्धलाभः पितॄन् देवान् ब्राह्मणांश्चापि पूजयेत् । (७।१)
labdhalābhaḥ pitṝn devān brāhmaṇāṃścāpi pūjayet |
ते तृप्तास्तस्य तं दोषं शमयन्ति न संशयः ॥ (७।२)
te tṛptāstasya taṃ doṣaṃ śamayanti na saṃśayaḥ ||
देवेभ्यश्च पितृभ्यश्च दद्याद् भागं तु विंशकम् । (८।१)
devebhyaśca pitṛbhyaśca dadyād bhāgaṃ tu viṃśakam |
त्रिंशद्भागं ब्राह्मणानां कृषिं कुर्वन् न दुष्यति ॥ (८।२)
triṃśadbhāgaṃ brāhmaṇānāṃ kṛṣiṃ kurvan na duṣyati ||
वणिक् प्रदद्याद् द्विगुणं कुसीदी त्रिगुणं पुनः । (९।१)
vaṇik pradadyād dviguṇaṃ kusīdī triguṇaṃ punaḥ |
शिलोञ्छं वाप्याददीत गृहस्थः साधकः पुनः । (१०।१)
śiloñchaṃ vāpyādadīta gṛhasthaḥ sādhakaḥ punaḥ |
विद्याशिल्पादयस्त्वन्ये बहवो वृत्तिहेतवः ॥ (१०।२)
vidyāśilpādayastvanye bahavo vṛttihetavaḥ ||
असाधकस्तु यः प्रोक्तो गृहस्थाश्रमसंस्थितः । (११।१)
asādhakastu yaḥ prokto gṛhasthāśramasaṃsthitaḥ |
शिलोञ्छे तस्य कथिते द्वे वृत्ती परमर्षिभिः ॥ (११।२)
śiloñche tasya kathite dve vṛttī paramarṣibhiḥ ||
अयाचितं स्यादमृतं मृतं भैक्षं तु याचितम् ॥ (१२।२)
ayācitaṃ syādamṛtaṃ mṛtaṃ bhaikṣaṃ tu yācitam ||
कुशूलधान्यको वा स्यात् कुम्भीधान्यक एव वा । (१३।१)
kuśūladhānyako vā syāt kumbhīdhānyaka eva vā |
चतुर्णामपि चैतेषां द्विजानां गृहमेधिनाम् । (१४।१)
caturṇāmapi caiteṣāṃ dvijānāṃ gṛhamedhinām |
श्रेयान् परः परो ज्ञेयो धर्मतो लोकजित्तमः ॥ (१४।२)
śreyān paraḥ paro jñeyo dharmato lokajittamaḥ ||
षट्कर्मैको भवत्येषां त्रिभिरन्यः प्रवर्तते । (१५।१)
ṣaṭkarmaiko bhavatyeṣāṃ tribhiranyaḥ pravartate |
द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवति ॥ (१५।२)
dvābhyāmekaścaturthastu brahmasatreṇa jīvati ||
वर्तयंस्तु शिलोञ्छाभ्यामग्निहोत्रपरायणः । (१६।१)
vartayaṃstu śiloñchābhyāmagnihotraparāyaṇaḥ |
इष्टीः पार्वायणान्तीयाः केवला निर्वपेत् सदा ॥ (१६।२)
iṣṭīḥ pārvāyaṇāntīyāḥ kevalā nirvapet sadā ||
न लोकवृत्तिं वर्तेत वृत्तिहेतोः कथञ्चन । (१७।१)
na lokavṛttiṃ varteta vṛttihetoḥ kathañcana |
अजिह्मामशठां शुद्धां जीवेद् ब्राह्मणजीविकाम् ॥ (१७।२)
ajihmāmaśaṭhāṃ śuddhāṃ jīved brāhmaṇajīvikām ||
याचित्वा वापि सद्भ्यो ऽन्नं पितॄन्देवांस्तु तोषयेत् । (१८।१)
yācitvā vāpi sadbhyo 'nnaṃ pitṝndevāṃstu toṣayet |
याचयेद् वा शुचिं दान्तं न तृप्येत स्वयं ततः ॥ (१८।२)
yācayed vā śuciṃ dāntaṃ na tṛpyeta svayaṃ tataḥ ||
यस्तु द्रव्यार्जनं कृत्वा गृहस्थस्तोषयेन्न तु । (१९।१)
yastu dravyārjanaṃ kṛtvā gṛhasthastoṣayenna tu |
देवान् पितॄंश्च विधिना शुनां योनिं व्रजत्यसौ ॥ (१९।२)
devān pitṝṃśca vidhinā śunāṃ yoniṃ vrajatyasau ||
धर्मश्चार्थश्च कामश्च श्रेयो मोक्षश्चतुष्टयम् । (२०।१)
dharmaścārthaśca kāmaśca śreyo mokṣaścatuṣṭayam |
धर्माविरुद्धः कामः स्याद् ब्राह्मणानां तु नेतरः ॥ (२०।२)
dharmāviruddhaḥ kāmaḥ syād brāhmaṇānāṃ tu netaraḥ ||
योऽर्थो धर्माय नात्मार्थः सो ऽर्थो ऽनर्थस्तथेतरः । (२१।१)
yo'rtho dharmāya nātmārthaḥ so 'rtho 'narthastathetaraḥ |
तस्मादर्थं समासाद्य दद्याद् वै जुहुयाद् यजेत् ॥ (२१।२)
tasmādarthaṃ samāsādya dadyād vai juhuyād yajet ||
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे पञ्चविंशो ऽध्यायः ॥ (२२।१)
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge pañcaviṃśo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.