KūPur, 2, 27
Select a line for its word-by-word analysis.
एवं गृहाश्रमे स्थित्वा द्वितीयं भागमायुषः । (१।२)
evaṃ gṛhāśrame sthitvā dvitīyaṃ bhāgamāyuṣaḥ |
वानप्रस्थाश्रमं गच्छेत् सदारः साग्निरेव च ॥ (१।३)
vānaprasthāśramaṃ gacchet sadāraḥ sāgnireva ca ||
निक्षिप्य भार्यां पुत्रेषु गच्छेद् वनमथापि वा । (२।१)
nikṣipya bhāryāṃ putreṣu gacched vanamathāpi vā |
दृष्ट्वापत्यस्य चापत्यं जर्जरीकृतविग्रहः ॥ (२।२)
dṛṣṭvāpatyasya cāpatyaṃ jarjarīkṛtavigrahaḥ ||
शुक्लपक्षस्य पूर्वाह्ने प्रशस्ते चोत्तरायणे । (३।१)
śuklapakṣasya pūrvāhne praśaste cottarāyaṇe |
गत्वारण्यं नियमवांस्तपः कुर्यात् समाहितः ॥ (३।२)
gatvāraṇyaṃ niyamavāṃstapaḥ kuryāt samāhitaḥ ||
पूजयित्वातिथिं नित्यं स्नात्वा चाभ्यर्चयेत् सुरान् । (५।१)
pūjayitvātithiṃ nityaṃ snātvā cābhyarcayet surān |
गृहादाहृत्य चाश्नीयादष्टौ ग्रासान् समाहितः ॥ (५।२)
gṛhādāhṛtya cāśnīyādaṣṭau grāsān samāhitaḥ ||
जटाश्च बिभृयान्नित्यं नखरोमाणि नोत्सृजेत् । (६।१)
jaṭāśca bibhṛyānnityaṃ nakharomāṇi notsṛjet |
स्वाध्यायं सर्वदा कुर्यान्नियच्छेद् वाचमन्यतः ॥ (६।२)
svādhyāyaṃ sarvadā kuryānniyacched vācamanyataḥ ||
अग्निहोत्रं च जुहुयात् पञ्चयज्ञान् समाचरेत् । (७।१)
agnihotraṃ ca juhuyāt pañcayajñān samācaret |
मुन्यन्नैर् विविधैर्मेध्यैः शाकमूलफलेन वा ॥ (७।२)
munyannair vividhairmedhyaiḥ śākamūlaphalena vā ||
चीरवासा भवेन्नित्यं स्नायात् त्रिषवणं शुचिः । (८।१)
cīravāsā bhavennityaṃ snāyāt triṣavaṇaṃ śuciḥ |
सर्वभूतानुकम्पी स्यात् प्रतिग्रहविवर्जितः ॥ (८।२)
sarvabhūtānukampī syāt pratigrahavivarjitaḥ ||
वासन्तैः शारदैर्मेध्यैर् मुन्यन्नैः स्वयमाहृतैः । (१०।१)
vāsantaiḥ śāradairmedhyair munyannaiḥ svayamāhṛtaiḥ |
पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपेत् पृथक् ॥ (१०।२)
puroḍāśāṃścarūṃścaiva vidhivannirvapet pṛthak ||
देवताभ्यश्च तद्धुत्वा वन्यं मेध्यतरं हविः । (११।१)
devatābhyaśca taddhutvā vanyaṃ medhyataraṃ haviḥ |
भूस्तृणं शिग्रुकं चैव श्लेष्मातकफलानि च ॥ (१२।२)
bhūstṛṇaṃ śigrukaṃ caiva śleṣmātakaphalāni ca ||
न ग्रामजातान्यार्तो ऽपि पुष्पाणि च फलानि च ॥ (१३।२)
na grāmajātānyārto 'pi puṣpāṇi ca phalāni ca ||
न द्रुह्येत् सर्वभूतानि निर्द्वन्द्वो निर्भयो भवेत् ॥ (१४।२)
na druhyet sarvabhūtāni nirdvandvo nirbhayo bhavet ||
न नक्तं किंचिद् अश्नीयाद् रात्रौ ध्यानपरो भवेत् । (१५।१)
na naktaṃ kiṃcid aśnīyād rātrau dhyānaparo bhavet |
जितेन्द्रियो जितक्रोधस्तत्त्वज्ञानविचिन्तकः । (१५।२)
jitendriyo jitakrodhastattvajñānavicintakaḥ |
ब्रह्मचारी भवेन्नित्यं न पत्नीमपि संश्रयेत् ॥ (१५।३)
brahmacārī bhavennityaṃ na patnīmapi saṃśrayet ||
यस्तु पत्न्या वनं गत्वा मैथुनं कामतश्चरेत् । (१६।१)
yastu patnyā vanaṃ gatvā maithunaṃ kāmataścaret |
तद् व्रतं तस्य लुप्येत प्रायश्चित्तीयते द्विजः ॥ (१६।२)
tad vrataṃ tasya lupyeta prāyaścittīyate dvijaḥ ||
तत्र यो जायते गर्भो न संस्पृश्यो द्विजातिभिः । (१७।१)
tatra yo jāyate garbho na saṃspṛśyo dvijātibhiḥ |
न हि वेदे ऽधिकारो ऽस्य तद्वंशे ऽप्येवमेव हि ॥ (१७।२)
na hi vede 'dhikāro 'sya tadvaṃśe 'pyevameva hi ||
परिवादं मृषावादं निद्रालस्यं विवर्जयेत् । (१९।१)
parivādaṃ mṛṣāvādaṃ nidrālasyaṃ vivarjayet |
एकाग्निरनिकेतः स्यात् प्रोक्षितां भूमिमाश्रयेत् ॥ (१९।२)
ekāgniraniketaḥ syāt prokṣitāṃ bhūmimāśrayet ||
मृगैः सह चरेद् वासं तैः सहैव च संवसेत् । (२०।१)
mṛgaiḥ saha cared vāsaṃ taiḥ sahaiva ca saṃvaset |
सद्यः प्रक्षालको वा स्यान्माससंचयिको ऽपि वा । (२१।१)
sadyaḥ prakṣālako vā syānmāsasaṃcayiko 'pi vā |
त्यजेदाश्वयुजे मासि सम्पन्नं पूर्वसंचितम् । (२२।१)
tyajedāśvayuje māsi sampannaṃ pūrvasaṃcitam |
दन्तोलूखलिको वा स्यात् कापोतीं वृत्तिमाश्रयेत् । (२३।१)
dantolūkhaliko vā syāt kāpotīṃ vṛttimāśrayet |
नक्तं चान्नं समश्नीयाद् दिवा चाहृत्य शक्तितः । (२४।१)
naktaṃ cānnaṃ samaśnīyād divā cāhṛtya śaktitaḥ |
चतुर्थकालिको वा स्यात् स्याद्वाप्यष्टमकालिकः ॥ (२४।२)
caturthakāliko vā syāt syādvāpyaṣṭamakālikaḥ ||
चान्द्रायणविधानैर्वा शुक्ले कृष्णे च वर्तयेत् । (२५।१)
cāndrāyaṇavidhānairvā śukle kṛṣṇe ca vartayet |
पक्षे पक्षे समश्नीयाद् यवागूं क्वथितां सकृत् ॥ (२५।२)
pakṣe pakṣe samaśnīyād yavāgūṃ kvathitāṃ sakṛt ||
पुष्पमूलफलैर् वापि केवलैर्वर्तयेत् सदा । (२६।१)
puṣpamūlaphalair vāpi kevalairvartayet sadā |
स्वाभाविकैः स्वयं शीर्णैर्वैखानसमते स्थितः ॥ (२६।२)
svābhāvikaiḥ svayaṃ śīrṇairvaikhānasamate sthitaḥ ||
भूमौ वा परिवर्तेत तिष्ठेद् वा प्रपदैर्दिनम् । (२७।१)
bhūmau vā parivarteta tiṣṭhed vā prapadairdinam |
स्थानासनाभ्यां विहरेन्न क्वचिद् धैर्यमुत्सृजेत् ॥ (२७।२)
sthānāsanābhyāṃ viharenna kvacid dhairyamutsṛjet ||
ग्रीष्मे पञ्चतपाश्च स्याद् वर्षास्व् अभ्रावकाशकः । (२८।१)
grīṣme pañcatapāśca syād varṣāsv abhrāvakāśakaḥ |
आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः ॥ (२८।२)
ārdravāsāstu hemante kramaśo vardhayaṃstapaḥ ||
उपस्पृश्य त्रिषवणं पितृदेवांश्च तर्पयेत् । (२९।१)
upaspṛśya triṣavaṇaṃ pitṛdevāṃśca tarpayet |
पञ्चाग्निर्धूमपो वा स्याद् उष्मपः सोमपो ऽपि वा । (३०।१)
pañcāgnirdhūmapo vā syād uṣmapaḥ somapo 'pi vā |
पयः पिबेच्छुक्लपक्षे कृष्णापक्षे तु गोमयम् । (३०।२)
payaḥ pibecchuklapakṣe kṛṣṇāpakṣe tu gomayam |
शीर्णपर्णाशनो वा स्यात् कृच्छ्रैर् वा वर्तयेत् सदा ॥ (३०।३)
śīrṇaparṇāśano vā syāt kṛcchrair vā vartayet sadā ||
योगाभ्यासरतश्च स्याद् रुद्राध्यायी भवेत् सदा । (३१।१)
yogābhyāsarataśca syād rudrādhyāyī bhavet sadā |
अथर्वशिरसो ऽध्येता वेदान्ताभ्यासतत्परः ॥ (३१।२)
atharvaśiraso 'dhyetā vedāntābhyāsatatparaḥ ||
यमान् सेवेत सततं नियमांश्चाप्यतन्द्रितः । (३२।१)
yamān seveta satataṃ niyamāṃścāpyatandritaḥ |
अथ चाग्नीन् समारोप्य स्वात्मनि ध्यानतत्परः । (३३।१)
atha cāgnīn samāropya svātmani dhyānatatparaḥ |
अनग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत् ॥ (३३।२)
anagniraniketaḥ syānmunirmokṣaparo bhavet ||
तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् । (३४।१)
tāpaseṣveva vipreṣu yātrikaṃ bhaikṣamāharet |
ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वने वसन् । (३५।१)
grāmādāhṛtya vāśnīyādaṣṭau grāsān vane vasan |
विद्याविशेषान् सावित्रीं रुद्राध्यायं तथैव च ॥ (३६।२)
vidyāviśeṣān sāvitrīṃ rudrādhyāyaṃ tathaiva ca ||
महाप्रास्थानिकं चासौ कुर्यादनशनं तु वा । (३७।१)
mahāprāsthānikaṃ cāsau kuryādanaśanaṃ tu vā |
अग्निप्रवेशमन्यद् वा ब्रह्मार्पणविधौ स्थितः ॥ (३७।२)
agnipraveśamanyad vā brahmārpaṇavidhau sthitaḥ ||
यस्तु सम्यगिममाश्रमं शिवं संश्रयेदशिवपुञ्जनाशनम् । (३८।१)
yastu samyagimamāśramaṃ śivaṃ saṃśrayedaśivapuñjanāśanam |
तापसः स परमैश्वरं पदं याति यत्र जगतो ऽस्य संस्थितिः ॥ (३८।२)
tāpasaḥ sa paramaiśvaraṃ padaṃ yāti yatra jagato 'sya saṃsthitiḥ ||
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे सप्तविंशो ऽध्यायः ॥ (३९।१)
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge saptaviṃśo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.