कूर्मपुराणKūrmapurāṇa

KūPur, 2, 17

68 of 95 · 95 verses

Select a line for its word-by-word analysis.

1.1१.१

व्यास उवाच । (१।१)

vyāsa uvāca

1.2१.२

नाद्याच्छूद्रस्य विप्रो ऽन्नं मोहाद् वा यदि वान्यतः । (१।२)

nādyācchūdrasya vipro 'nnaṃ mohād vā yadi vānyataḥ |

1.3१.३

स शूद्रयोनिं व्रजति यस्तु भुङ्क्ते ह्यनापदि ॥ (१।३)

sa śūdrayoniṃ vrajati yastu bhuṅkte hyanāpadi ||

2.1२.१

षण्मासान् यो द्विजो भुङ्क्ते शूद्रस्यान्नं विगर्हितम् । (२।१)

ṣaṇmāsān yo dvijo bhuṅkte śūdrasyānnaṃ vigarhitam |

2.2२.२

जीवन्नेव भवेच्छूद्रो मृतः श्वा चाभिजायते ॥ (२।२)

jīvanneva bhavecchūdro mṛtaḥ śvā cābhijāyate ||

3.1३.१

ब्राह्मणक्षत्रियविशां शूद्रस्य च मुनीश्वराः । (३।१)

brāhmaṇakṣatriyaviśāṃ śūdrasya ca munīśvarāḥ |

3.2३.२

यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात् ॥ (३।२)

yasyānnenodarasthena mṛtastadyonimāpnuyāt ||

4.1४.१

राजान्नं नर्तकान्नं च तक्ष्णो ऽन्नं चर्मकारिणः । (४।१)

rājānnaṃ nartakānnaṃ ca takṣṇo 'nnaṃ carmakāriṇaḥ |

4.2४.२

गणान्नं गणिकान्नं च षण्ढान्नं चैव वर्जयेत् ॥ (४।२)

gaṇānnaṃ gaṇikānnaṃ ca ṣaṇḍhānnaṃ caiva varjayet ||

5.1५.१

चक्रोपजीविरजकतस्करध्वजिनां तथा । (५।१)

cakropajīvirajakataskaradhvajināṃ tathā |

5.2५.२

गान्धर्वलोहकारान्नं सूतकान्नं च वर्जयेत् ॥ (५।२)

gāndharvalohakārānnaṃ sūtakānnaṃ ca varjayet ||

6.1६.१

कुलालचित्रकर्मान्नं वार्धुषेः पतितस्य च । (६।१)

kulālacitrakarmānnaṃ vārdhuṣeḥ patitasya ca |

6.2६.२

पौनर्भवछत्त्रिकयोर् अभिशस्तस्य चैव हि ॥ (६।२)

paunarbhavachattrikayor abhiśastasya caiva hi ||

7.1७.१

सुवर्णकारशैलूषव्याधबद्धातुरस्य च । (७।१)

suvarṇakāraśailūṣavyādhabaddhāturasya ca |

7.2७.२

चिकित्सकस्य चैवान्नं पुंश्चल्या दण्डिकस्य च ॥ (७।२)

cikitsakasya caivānnaṃ puṃścalyā daṇḍikasya ca ||

8.1८.१

स्तेननास्तिकयोरन्नं देवतानिन्दकस्य च । (८।१)

stenanāstikayorannaṃ devatānindakasya ca |

8.2८.२

सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः ॥ (८।२)

somavikrayiṇaścānnaṃ śvapākasya viśeṣataḥ ||

9.1९.१

भार्याजितस्य चैवान्नं यस्य चोपपतिर्गृहे । (९।१)

bhāryājitasya caivānnaṃ yasya copapatirgṛhe |

9.2९.२

उत्सृष्टस्य कदर्यस्य तथैवोच्छिष्टभोजिनः ॥ (९।२)

utsṛṣṭasya kadaryasya tathaivocchiṣṭabhojinaḥ ||

10.1१०.१

अपाङ्क्त्यान्नं च सङ्घान्नं शस्त्राजीवस्य चैव हि । (१०।१)

apāṅktyānnaṃ ca saṅghānnaṃ śastrājīvasya caiva hi |

10.2१०.२

क्लीबसंन्यासिनोश्चान्नं मत्तोन्मत्तस्य चैव हि । (१०।२)

klībasaṃnyāsinoścānnaṃ mattonmattasya caiva hi |

10.3१०.३

भीतस्य रुदितस्यान्नम् अवक्रुष्टं परिक्षुतम् ॥ (१०।३)

bhītasya ruditasyānnam avakruṣṭaṃ parikṣutam ||

11.1११.१

ब्रह्मद्विषः पापरुचेः श्राद्धान्नं सूतकस्य च । (११।१)

brahmadviṣaḥ pāparuceḥ śrāddhānnaṃ sūtakasya ca |

11.2११.२

वृथापाकस्य चैवान्नं शावान्नं श्वशुरस्य च ॥ (११।२)

vṛthāpākasya caivānnaṃ śāvānnaṃ śvaśurasya ca ||

12.1१२.१

अप्रजानां तु नारीणां भृतकस्य तथैव च । (१२।१)

aprajānāṃ tu nārīṇāṃ bhṛtakasya tathaiva ca |

12.2१२.२

कारुकान्नं विशेषेण शस्त्रविक्रयिणस्तथा ॥ (१२।२)

kārukānnaṃ viśeṣeṇa śastravikrayiṇastathā ||

13.1१३.१

शौण्डान्नं घाटिकान्नं च भिषजामन्नमेव च । (१३।१)

śauṇḍānnaṃ ghāṭikānnaṃ ca bhiṣajāmannameva ca |

13.2१३.२

विद्धप्रजननस्यान्नं परिवित्त्यन्नमेव च ॥ (१३।२)

viddhaprajananasyānnaṃ parivittyannameva ca ||

14.1१४.१

पुनर्भुवो विशेषेण तथैव दिधिषूपतेः । (१४।१)

punarbhuvo viśeṣeṇa tathaiva didhiṣūpateḥ |

14.2१४.२

अवज्ञातं चावधूतं सरोषं विस्मयान्वितम् । (१४।२)

avajñātaṃ cāvadhūtaṃ saroṣaṃ vismayānvitam |

14.3१४.३

गुरोरपि न भोक्तव्यमन्नं संस्कारवर्जितम् ॥ (१४।३)

gurorapi na bhoktavyamannaṃ saṃskāravarjitam ||

15.1१५.१

दुष्कृतं हि मनुष्यस्य सर्वमन्ने व्यवस्थितम् । (१५।१)

duṣkṛtaṃ hi manuṣyasya sarvamanne vyavasthitam |

15.2१५.२

यो यस्यान्नं समश्नाति स तस्याश्नाति किल्बिषम् ॥ (१५।२)

yo yasyānnaṃ samaśnāti sa tasyāśnāti kilbiṣam ||

16.1१६.१

आर्धिकः कुलमित्रश्च स्वगोपालश्च नापितः । (१६।१)

ārdhikaḥ kulamitraśca svagopālaśca nāpitaḥ |

16.2१६.२

एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ॥ (१६।२)

ete śūdreṣu bhojyānnā yaścātmānaṃ nivedayet ||

17.1१७.१

कुशीलवः कुम्भकारः क्षेत्रकर्मक एव च । (१७।१)

kuśīlavaḥ kumbhakāraḥ kṣetrakarmaka eva ca |

17.2१७.२

एते शूद्रेषु भोज्यान्ना दत्त्वा स्वल्पं पणं बुधैः ॥ (१७।२)

ete śūdreṣu bhojyānnā dattvā svalpaṃ paṇaṃ budhaiḥ ||

18.1१८.१

पायसं स्नेहपक्वं यद् गोरसं चैव सक्तवः । (१८।१)

pāyasaṃ snehapakvaṃ yad gorasaṃ caiva saktavaḥ |

18.2१८.२

पिण्याकं चैव तैलं च शूद्राद् ग्राह्यं द्विजातिभिः ॥ (१८।२)

piṇyākaṃ caiva tailaṃ ca śūdrād grāhyaṃ dvijātibhiḥ ||

19.1१९.१

वृन्ताकं नालिकाशाकं कुसुम्भाश्मन्तकं तथा । (१९।१)

vṛntākaṃ nālikāśākaṃ kusumbhāśmantakaṃ tathā |

19.2१९.२

पलाण्डुं लशुनं शुक्तं निर्यासं चैव वर्जयेत् ॥ (१९।२)

palāṇḍuṃ laśunaṃ śuktaṃ niryāsaṃ caiva varjayet ||

20.1२०.१

छत्त्राकं विड्वराहं च शेलं पेयूषमेव च । (२०।१)

chattrākaṃ viḍvarāhaṃ ca śelaṃ peyūṣameva ca |

20.2२०.२

विलयं सुमुखं चैव कवकानि च वर्जयेत् ॥ (२०।२)

vilayaṃ sumukhaṃ caiva kavakāni ca varjayet ||

21.1२१.१

गृञ्जनं किंशुकं चैव ककुभाण्डं तथैव च । (२१।१)

gṛñjanaṃ kiṃśukaṃ caiva kakubhāṇḍaṃ tathaiva ca |

21.2२१.२

उदुम्बरमलाबुं च जग्ध्वा पतति वै द्विजः ॥ (२१।२)

udumbaramalābuṃ ca jagdhvā patati vai dvijaḥ ||

22.1२२.१

वृथा कृशरसंयावं पायसापूपमेव च । (२२।१)

vṛthā kṛśarasaṃyāvaṃ pāyasāpūpameva ca |

22.2२२.२

अनुपाकृतमांसं च देवान्नानि हवींषि च ॥ (२२।२)

anupākṛtamāṃsaṃ ca devānnāni havīṃṣi ca ||

23.1२३.१

यवागूं मातुलिङ्गं च मत्स्यानप्यनुपाकृतान् । (२३।१)

yavāgūṃ mātuliṅgaṃ ca matsyānapyanupākṛtān |

23.2२३.२

नीपं कपित्थं प्लक्षं च प्रयत्नेन विवर्जयेत् ॥ (२३।२)

nīpaṃ kapitthaṃ plakṣaṃ ca prayatnena vivarjayet ||

24.1२४.१

पिण्याकं चोद्धृतस्नेहं देवधान्यं तथैव च । (२४।१)

piṇyākaṃ coddhṛtasnehaṃ devadhānyaṃ tathaiva ca |

24.2२४.२

रात्रौ च तिलसम्बद्धं प्रयत्नेन दधि त्यजेत् ॥ (२४।२)

rātrau ca tilasambaddhaṃ prayatnena dadhi tyajet ||

25.1२५.१

नाश्नीयात् पयसा तक्रं न बीजान्युपजीवयेत् । (२५।१)

nāśnīyāt payasā takraṃ na bījānyupajīvayet |

25.2२५.२

क्रियादुष्टं भावदुष्टमसत्संसर्गि वर्जयेत् ॥ (२५।२)

kriyāduṣṭaṃ bhāvaduṣṭamasatsaṃsargi varjayet ||

26.1२६.१

केशकीटावपन्नं च सहृल्लेखं च नित्यशः । (२६।१)

keśakīṭāvapannaṃ ca sahṛllekhaṃ ca nityaśaḥ |

26.2२६.२

श्वाघ्रातं च पुनः सिद्धं चण्डालावेक्षितं तथा ॥ (२६।२)

śvāghrātaṃ ca punaḥ siddhaṃ caṇḍālāvekṣitaṃ tathā ||

27.1२७.१

उदक्यया च पतितैर् गवा चाघ्रातमेव च । (२७।१)

udakyayā ca patitair gavā cāghrātameva ca |

27.2२७.२

अनर्चितं पर्युषितं पर्यायान्नं च नित्यशः ॥ (२७।२)

anarcitaṃ paryuṣitaṃ paryāyānnaṃ ca nityaśaḥ ||

28.1२८.१

काककुक्कुटसंस्पृष्टं कृमिभिश्चैव संयुतम् । (२८।१)

kākakukkuṭasaṃspṛṣṭaṃ kṛmibhiścaiva saṃyutam |

28.2२८.२

मनुष्यैरप्यवघ्रातं कुष्ठिना स्पृष्टमेव च ॥ (२८।२)

manuṣyairapyavaghrātaṃ kuṣṭhinā spṛṣṭameva ca ||

29.1२९.१

न रजस्वलया दत्तं न पुंश्चल्या सरोषया । (२९।१)

na rajasvalayā dattaṃ na puṃścalyā saroṣayā |

29.2२९.२

मलवद्वाससा वापि परवासो ऽथ वर्जयेत् ॥ (२९।२)

malavadvāsasā vāpi paravāso 'tha varjayet ||

30.1३०.१

विवत्सायाश्च गोः क्षीरमौष्ट्रं वानिर्दशं तथा । (३०।१)

vivatsāyāśca goḥ kṣīramauṣṭraṃ vānirdaśaṃ tathā |

30.2३०.२

आविकं संधिनीक्षीरम् अपेयं मनुरब्रवीत् ॥ (३०।२)

āvikaṃ saṃdhinīkṣīram apeyaṃ manurabravīt ||

31.1३१.१

बलाकं हंसदात्यूहं कलविङ्कं शुकं तथा । (३१।१)

balākaṃ haṃsadātyūhaṃ kalaviṅkaṃ śukaṃ tathā |

31.2३१.२

कुररं च चकोरं च जालपादं च कोकिलम् ॥ (३१।२)

kuraraṃ ca cakoraṃ ca jālapādaṃ ca kokilam ||

32.1३२.१

वायसं खञ्जरीटं च श्येनं गृध्रं तथैव च । (३२।१)

vāyasaṃ khañjarīṭaṃ ca śyenaṃ gṛdhraṃ tathaiva ca |

32.2३२.२

उलूकं चक्रवाकं च भासं पारावतानपि । (३२।२)

ulūkaṃ cakravākaṃ ca bhāsaṃ pārāvatānapi |

32.3३२.३

कपोतं टिट्टिभं चैव ग्रामकुक्कुटमेव च ॥ (३२।३)

kapotaṃ ṭiṭṭibhaṃ caiva grāmakukkuṭameva ca ||

33.1३३.१

सिंहव्याघ्रं च मार्जारं श्वानं शूकरमेव च । (३३।१)

siṃhavyāghraṃ ca mārjāraṃ śvānaṃ śūkarameva ca |

33.2३३.२

शृगालं मर्कटं चैव गर्दभं च न भक्षयेत् ॥ (३३।२)

śṛgālaṃ markaṭaṃ caiva gardabhaṃ ca na bhakṣayet ||

34.1३४.१

न भक्षयेत् सर्वमृगान् पक्षिणो ऽन्यान् वनेचरान् । (३४।१)

na bhakṣayet sarvamṛgān pakṣiṇo 'nyān vanecarān |

34.2३४.२

जलेचरान् स्थलचरान् प्राणिनश्चेति धारणा ॥ (३४।२)

jalecarān sthalacarān prāṇinaśceti dhāraṇā ||

35.1३५.१

गोधा कूर्मः शशः श्वाविच्छल्यकश्चेति सत्तमाः । (३५।१)

godhā kūrmaḥ śaśaḥ śvāvicchalyakaśceti sattamāḥ |

35.2३५.२

भक्ष्याः पञ्चनखा नित्यं मनुराह प्रजापतिः ॥ (३५।२)

bhakṣyāḥ pañcanakhā nityaṃ manurāha prajāpatiḥ ||

36.1३६.१

मत्स्यान् सशल्कान् भुञ्जीयान् मांसं रौरवमेवच । (३६।१)

matsyān saśalkān bhuñjīyān māṃsaṃ rauravamevaca |

36.2३६.२

निवेद्य देवताभ्यस्तु ब्राह्मणेभ्यस्तु नान्यथा ॥ (३६।२)

nivedya devatābhyastu brāhmaṇebhyastu nānyathā ||

37.1३७.१

मयूरं तित्तिरं चैव कपोतं च कपिञ्जलम् । (३७।१)

mayūraṃ tittiraṃ caiva kapotaṃ ca kapiñjalam |

37.2३७.२

वाध्रीणसं बकं भक्ष्यं मीनहंसपराजिताः ॥ (३७।२)

vādhrīṇasaṃ bakaṃ bhakṣyaṃ mīnahaṃsaparājitāḥ ||

38.1३८.१

शफरं सिंहतुण्डं च तथा पाठीनरोहितौ । (३८।१)

śapharaṃ siṃhatuṇḍaṃ ca tathā pāṭhīnarohitau |

38.2३८.२

मत्स्याश्चैते समुद्दिष्टा भक्षणाय द्विजोत्तमाः ॥ (३८।२)

matsyāścaite samuddiṣṭā bhakṣaṇāya dvijottamāḥ ||

39.1३९.१

प्रोक्षितं भक्षयेदेषां मांसं च द्विजकाम्यया । (३९।१)

prokṣitaṃ bhakṣayedeṣāṃ māṃsaṃ ca dvijakāmyayā |

39.2३९.२

यथाविधि नियुक्तं च प्राणानामपि चात्यये ॥ (३९।२)

yathāvidhi niyuktaṃ ca prāṇānāmapi cātyaye ||

40.1४०.१

भक्षयेन्नैव मांसानि शेषभोजी न लिप्यते । (४०।१)

bhakṣayennaiva māṃsāni śeṣabhojī na lipyate |

40.2४०.२

औषधार्थमशक्तौ वा नियोगाद् यज्ञकारणात् ॥ (४०।२)

auṣadhārthamaśaktau vā niyogād yajñakāraṇāt ||

41.1४१.१

आमन्त्रितस्तु यः श्राद्धे दैवे वा मांसमुत्सृजेत् । (४१।१)

āmantritastu yaḥ śrāddhe daive vā māṃsamutsṛjet |

41.2४१.२

यावन्ति पशुरोमाणि तावतो नरकान् व्रजेत् ॥ (४१।२)

yāvanti paśuromāṇi tāvato narakān vrajet ||

42.1४२.१

अदेयं चाप्यपेयं च तथैवास्पृश्यमेव च । (४२।१)

adeyaṃ cāpyapeyaṃ ca tathaivāspṛśyameva ca |

42.2४२.२

द्विजातीनामनालोक्यं नित्यं मद्यमिति स्थितिः ॥ (४२।२)

dvijātīnāmanālokyaṃ nityaṃ madyamiti sthitiḥ ||

43.1४३.१

तस्मात् सर्वप्रकारेण मद्यं नित्यं विवर्जयेत् । (४३।१)

tasmāt sarvaprakāreṇa madyaṃ nityaṃ vivarjayet |

43.2४३.२

पीत्वा पतति कर्मभ्यस्त्वसंभाष्यो भवेद् द्विजः ॥ (४३।२)

pītvā patati karmabhyastvasaṃbhāṣyo bhaved dvijaḥ ||

44.1४४.१

भक्षयित्वा ह्यभक्ष्याणि पीत्वापेयान्यपि द्विजः । (४४।१)

bhakṣayitvā hyabhakṣyāṇi pītvāpeyānyapi dvijaḥ |

44.2४४.२

नाधिकारी भवेत् तावद् यावत् तन्न जहात्यधः ॥ (४४।२)

nādhikārī bhavet tāvad yāvat tanna jahātyadhaḥ ||

45.1४५.१

तस्मात् परिहरेन्नित्यमभक्ष्याणि प्रयत्नतः । (४५।१)

tasmāt pariharennityamabhakṣyāṇi prayatnataḥ |

45.2४५.२

अपेयानि च विप्रो वै तथा चेद् याति रौरवम् ॥ (४५।२)

apeyāni ca vipro vai tathā ced yāti rauravam ||

46.1४६.१

इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे सप्तदशो ऽध्यायः ॥ (४६।१)

iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge saptadaśo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

KūPur, 2, 17

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit