KūPur, 1, 51
Select a line for its word-by-word analysis.
नाम्ना हिताय विप्राणामभूद् वैवस्वते ऽन्तरे ॥ (२।२)
nāmnā hitāya viprāṇāmabhūd vaivasvate 'ntare ||
तस्य शिष्याः शिखायुक्ता बभूवुर् अमितप्रभाः ॥ (३।२)
tasya śiṣyāḥ śikhāyuktā babhūvur amitaprabhāḥ ||
श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः । (४।१)
śvetaḥ śvetaśikhaścaiva śvetāsyaḥ śvetalohitaḥ |
लोकाक्षिरथ योगीन्द्रो जैगीषव्यस्तु सप्तमे ॥ (५।२)
lokākṣiratha yogīndro jaigīṣavyastu saptame ||
भृगुस्तु दशमे प्रोक्तस्तस्मादुग्रः परः स्मृतः ॥ (६।२)
bhṛgustu daśame proktastasmādugraḥ paraḥ smṛtaḥ ||
द्वादशे ऽत्रिः समाख्यातो बली चाथ त्रयोदशे । (७।१)
dvādaśe 'triḥ samākhyāto balī cātha trayodaśe |
गोकर्णश्चाभवत् तस्माद् गुहावासः शिखण्ड्यथ । (८।१)
gokarṇaścābhavat tasmād guhāvāsaḥ śikhaṇḍyatha |
श्वेतस्तथा परः शूली डिण्डी मुण्डी च वै क्रमात् । (९।१)
śvetastathā paraḥ śūlī ḍiṇḍī muṇḍī ca vai kramāt |
सहिष्णुः सोमशर्मा च नकुलीशो ऽन्तिमे प्रभुः ॥ (९।२)
sahiṣṇuḥ somaśarmā ca nakulīśo 'ntime prabhuḥ ||
वैवस्वते ऽन्तरे शंभोरवतारास्त्रिशूलिनः । (१०।१)
vaivasvate 'ntare śaṃbhoravatārāstriśūlinaḥ |
अष्टाविंशतिराख्याता ह्यन्ते कलियुगे प्रभोः । (१०।२)
aṣṭāviṃśatirākhyātā hyante kaliyuge prabhoḥ |
तीर्थे कायावतारे स्याद् देवेशो नकुलीश्वरः ॥ (१०।३)
tīrthe kāyāvatāre syād deveśo nakulīśvaraḥ ||
शिष्या बभूवुश्चान्येषां प्रत्येकं मुनिपुङ्गवाः ॥ (११।२)
śiṣyā babhūvuścānyeṣāṃ pratyekaṃ munipuṅgavāḥ ||
प्रसन्नमनसो दान्ता ऐश्वरीं भक्तिमाश्रिताः । (१२।१)
prasannamanaso dāntā aiśvarīṃ bhaktimāśritāḥ |
क्रमेण तान् प्रवक्ष्यामि योगिनो योगवित्तमान् ॥ (१२।२)
krameṇa tān pravakṣyāmi yogino yogavittamān ||
श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः । (१३।१)
śvetaḥ śvetaśikhaścaiva śvetāsyaḥ śvetalohitaḥ |
सुमुखो दुर्मुखश्चैव दुर्दमो दुरतिक्रमः । (१४।१)
sumukho durmukhaścaiva durdamo duratikramaḥ |
कपिलश्चासुरिश्चैव वोढुः पञ्चशिखो मुनिः ॥ (१६।२)
kapilaścāsuriścaiva voḍhuḥ pañcaśikho muniḥ ||
पराशरश्च गर्गश्च भार्गवश्चाङ्गिरास्तथा । (१७।१)
parāśaraśca gargaśca bhārgavaścāṅgirāstathā |
लम्बोदरश्च लम्बश्च लम्बाक्षो लम्बकेशकः । (१८।१)
lambodaraśca lambaśca lambākṣo lambakeśakaḥ |
सर्वज्ञः समबुद्धिश्च साध्यः सत्यस्तथैव च ॥ (१८।२)
sarvajñaḥ samabuddhiśca sādhyaḥ satyastathaiva ca ||
अत्रिरुग्रस्तथा चैव श्रवणो ऽथ श्रविष्ठकः ॥ (१९।२)
atrirugrastathā caiva śravaṇo 'tha śraviṣṭhakaḥ ||
कश्यपो ह्युशना चैव च्यवनो ऽथ बृहस्पतिः ॥ (२०।२)
kaśyapo hyuśanā caiva cyavano 'tha bṛhaspatiḥ ||
वाचश्रवाः सुपीकश्च श्यावाश्वः सपथीश्वरः ॥ (२१।२)
vācaśravāḥ supīkaśca śyāvāśvaḥ sapathīśvaraḥ ||
हिरण्यनाभः कौशल्यो लोकाक्षिः कुथुमिस्तथा । (२२।१)
hiraṇyanābhaḥ kauśalyo lokākṣiḥ kuthumistathā |
सुमन्तुर् वर्चरी विद्वान् कबन्धः कुशिकन्धरः ॥ (२२।२)
sumantur varcarī vidvān kabandhaḥ kuśikandharaḥ ||
प्लक्षो दार्भायणिश्चैव केतुमान् गौतमस्तथा । (२३।१)
plakṣo dārbhāyaṇiścaiva ketumān gautamastathā |
भल्लापी मधुपिङ्गश्च श्वेतकेतुस्तपोनिधिः ॥ (२३।२)
bhallāpī madhupiṅgaśca śvetaketustaponidhiḥ ||
शालिहोत्रो ऽग्निवेश्यश्च युवनाश्वः शरद्वसुः ॥ (२४।२)
śālihotro 'gniveśyaśca yuvanāśvaḥ śaradvasuḥ ||
छगलः कुण्डकर्णश्च कुम्भश्चैव प्रवाहकः । (२५।१)
chagalaḥ kuṇḍakarṇaśca kumbhaścaiva pravāhakaḥ |
उलूको विद्युतश्चैव शाद्वलो ह्याश्वलायनः ॥ (२५।२)
ulūko vidyutaścaiva śādvalo hyāśvalāyanaḥ ||
शिष्या एते महात्मानः सर्वोवर्तेषु योगिनाम् । (२७।१)
śiṣyā ete mahātmānaḥ sarvovarteṣu yoginām |
कुर्वन्ति चावताराणि ब्राह्मणानां हिताय हि । (२८।१)
kurvanti cāvatārāṇi brāhmaṇānāṃ hitāya hi |
ये ब्राह्मणाः संस्मरन्ति नमस्यन्ति च सर्वदा । (२९।१)
ye brāhmaṇāḥ saṃsmaranti namasyanti ca sarvadā |
तर्पयन्त्यर्चयन्त्येतान् ब्रह्मविद्यामवाप्नुयुः ॥ (२९।२)
tarpayantyarcayantyetān brahmavidyāmavāpnuyuḥ ||
इदं वैवस्वतं प्रोक्तमन्तरं विस्तरेण तु । (३०।१)
idaṃ vaivasvataṃ proktamantaraṃ vistareṇa tu |
भौत्यश्चतुर्दशः प्रोक्तो भविष्या मनवः क्रमात् ॥ (३१।३)
bhautyaścaturdaśaḥ prokto bhaviṣyā manavaḥ kramāt ||
अयं वः कथितो ह्यंशः पूर्वो नारायणेरितः । (३२।१)
ayaṃ vaḥ kathito hyaṃśaḥ pūrvo nārāyaṇeritaḥ |
भूतभव्यैर् वर्तमानैर् आख्यानैर् उपबृंहितः ॥ (३२।२)
bhūtabhavyair vartamānair ākhyānair upabṛṃhitaḥ ||
यः पठेच्छृणुयाद् वापि श्रावयेद् वा द्विजोत्तमान् । (३३।१)
yaḥ paṭhecchṛṇuyād vāpi śrāvayed vā dvijottamān |
पठेद् देवालये स्नात्वा नदीतीरेषु चैव हि । (३४।१)
paṭhed devālaye snātvā nadītīreṣu caiva hi |
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायां पूर्वविभागे एकपञ्चाशो ऽध्यायः ॥ (३६।१)
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekapañcāśo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.