कूर्मपुराणKūrmapurāṇa

KūPur, 1, 28

28 of 95 · 138 verses

Select a line for its word-by-word analysis.

1.1१.१

व्यास उवाच । (१।१)

vyāsa uvāca

1.2१.२

तिष्ये मायामसूयां च वधं चैव तपस्विनाम् । (१।२)

tiṣye māyāmasūyāṃ ca vadhaṃ caiva tapasvinām |

1.3१.३

साधयन्ति नरा नित्यं तमसा व्याकुलीकृताः ॥ (१।३)

sādhayanti narā nityaṃ tamasā vyākulīkṛtāḥ ||

2.1२.१

कलौ प्रमारको रोगः सततं क्षुद् भयं तथा । (२।१)

kalau pramārako rogaḥ satataṃ kṣud bhayaṃ tathā |

2.2२.२

अनावृष्टिभयं घोरं देशानां च विपर्ययः ॥ (२।२)

anāvṛṣṭibhayaṃ ghoraṃ deśānāṃ ca viparyayaḥ ||

3.1३.१

अधार्मिका अनाचारा महाकोपाल्पचेतसः । (३।१)

adhārmikā anācārā mahākopālpacetasaḥ |

3.2३.२

अनृतं वदन्ति ते लुब्धास्तिष्ये जाताः सुदुःप्रजाः ॥ (३।२)

anṛtaṃ vadanti te lubdhāstiṣye jātāḥ suduḥprajāḥ ||

4.1४.१

दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः । (४।१)

duriṣṭairduradhītaiśca durācārairdurāgamaiḥ |

4.2४.२

विप्राणां कर्मदोषैश्च प्रजानां जायते भयम् ॥ (४।२)

viprāṇāṃ karmadoṣaiśca prajānāṃ jāyate bhayam ||

5.1५.१

नाधीयते कलौ वेदान् न यजन्ति द्विजातयः । (५।१)

nādhīyate kalau vedān na yajanti dvijātayaḥ |

5.2५.२

यजन्त्यन्यायतो वेदान् पठन्ते चाल्पबुद्धयः ॥ (५।२)

yajantyanyāyato vedān paṭhante cālpabuddhayaḥ ||

6.1६.१

शूद्राणां मन्त्रयौनैश्च संबन्धो ब्राह्मणैः सह । (६।१)

śūdrāṇāṃ mantrayaunaiśca saṃbandho brāhmaṇaiḥ saha |

6.2६.२

भविष्यति कलौ तस्मिञ् शयनासनभोजनैः ॥ (६।२)

bhaviṣyati kalau tasmiñ śayanāsanabhojanaiḥ ||

7.1७.१

राजानः शूद्रभूयिष्ठा ब्राह्मणान् बाधयन्ति च । (७।१)

rājānaḥ śūdrabhūyiṣṭhā brāhmaṇān bādhayanti ca |

7.2७.२

भ्रूणहत्या वीरहत्या प्रजायेते नरेश्वर ॥ (७।२)

bhrūṇahatyā vīrahatyā prajāyete nareśvara ||

8.1८.१

स्नानं होमं जपं दानं देवतानां तथार्चनम् । (८।१)

snānaṃ homaṃ japaṃ dānaṃ devatānāṃ tathārcanam |

8.2८.२

अन्यानि चैव कर्माणि न कुर्वन्ति द्विजातयः ॥ (८।२)

anyāni caiva karmāṇi na kurvanti dvijātayaḥ ||

9.1९.१

विनिन्दन्ति महादेवं ब्राह्मणान् पुरुषोत्तमम् । (९।१)

vinindanti mahādevaṃ brāhmaṇān puruṣottamam |

9.2९.२

आम्नायधर्मशास्त्राणि पुराणानि कलौ युगे ॥ (९।२)

āmnāyadharmaśāstrāṇi purāṇāni kalau yuge ||

10.1१०.१

कुर्वन्त्यवेददृष्टानि कर्माणि विविधानि तु । (१०।१)

kurvantyavedadṛṣṭāni karmāṇi vividhāni tu |

10.2१०.२

स्वधर्मे ऽभिरुचिर्नैव ब्राह्मणानां प्रजायते ॥ (१०।२)

svadharme 'bhirucirnaiva brāhmaṇānāṃ prajāyate ||

11.1११.१

कुशीलचर्याः पाषण्डैर्वृथारूपैः समावृताः । (११।१)

kuśīlacaryāḥ pāṣaṇḍairvṛthārūpaiḥ samāvṛtāḥ |

11.2११.२

बहुयाचनको लोको भविष्यति परस्परम् ॥ (११।२)

bahuyācanako loko bhaviṣyati parasparam ||

12.1१२.१

अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः । (१२।१)

aṭṭaśūlā janapadāḥ śivaśūlāścatuṣpathāḥ |

12.2१२.२

प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे ॥ (१२।२)

pramadāḥ keśaśūlinyo bhaviṣyanti kalau yuge ||

13.1१३.१

शुक्लदन्ताजिनाख्याश्च मुण्डाः काषायवाससः । (१३।१)

śukladantājinākhyāśca muṇḍāḥ kāṣāyavāsasaḥ |

13.2१३.२

शूद्रा धर्मं चरिष्यन्ति युगान्ते समुपस्थिते ॥ (१३।२)

śūdrā dharmaṃ cariṣyanti yugānte samupasthite ||

14.1१४.१

सस्यचौरा भविष्यन्ति तथा चैलाभिमर्षिणः । (१४।१)

sasyacaurā bhaviṣyanti tathā cailābhimarṣiṇaḥ |

14.2१४.२

चौराश्चौरस्य हर्तारो हर्तुर्हर्ता तथापरः ॥ (१४।२)

caurāścaurasya hartāro harturhartā tathāparaḥ ||

15.1१५.१

दुःखप्रचुरताल्पायुर्देहोत्सादः सरोगता । (१५।१)

duḥkhapracuratālpāyurdehotsādaḥ sarogatā |

15.2१५.२

अधर्माभिनिवेशित्वात् तमोवृत्तं कलौ स्मृतम् ॥ (१५।२)

adharmābhiniveśitvāt tamovṛttaṃ kalau smṛtam ||

16.1१६.१

काषायिणो ऽथ निर्ग्रन्थास्तथा कापालिकाश्च ये । (१६।१)

kāṣāyiṇo 'tha nirgranthāstathā kāpālikāśca ye |

16.2१६.२

वेदविक्रयिणश्चान्ये तीर्थविक्रयिणः परे ॥ (१६।२)

vedavikrayiṇaścānye tīrthavikrayiṇaḥ pare ||

17.1१७.१

आसनस्थान् द्विजान् दृष्ट्वा न चलन्त्यल्पबुद्धयः । (१७।१)

āsanasthān dvijān dṛṣṭvā na calantyalpabuddhayaḥ |

17.2१७.२

ताडयन्ति द्विजेन्द्रांश्च शूद्रा राजोपजीविनः ॥ (१७।२)

tāḍayanti dvijendrāṃśca śūdrā rājopajīvinaḥ ||

18.1१८.१

उच्चासनस्थाः शूद्रास्तु द्विजमध्ये परन्तप । (१८।१)

uccāsanasthāḥ śūdrāstu dvijamadhye parantapa |

18.2१८.२

ज्ञात्वा न हिंसते राजा कलौ कालबलेन तु ॥ (१८।२)

jñātvā na hiṃsate rājā kalau kālabalena tu ||

19.1१९.१

पुष्पैश्च हसितैश्चैव तथान्यैर्मङ्गलैर्द्विजाः । (१९।१)

puṣpaiśca hasitaiścaiva tathānyairmaṅgalairdvijāḥ |

19.2१९.२

शूद्रानभ्यर्चयन्त्यल्पश्रुतभाग्यबलान्विताः ॥ (१९।२)

śūdrānabhyarcayantyalpaśrutabhāgyabalānvitāḥ ||

20.1२०.१

न प्रेक्षन्ते ऽर्चितांश्चापि शूद्रा द्विजवरान् नृप । (२०।१)

na prekṣante 'rcitāṃścāpi śūdrā dvijavarān nṛpa |

20.2२०.२

सेवावसरमालोक्य द्वारि तिष्ठन्ति च द्विजाः ॥ (२०।२)

sevāvasaramālokya dvāri tiṣṭhanti ca dvijāḥ ||

21.1२१.१

वाहनस्थान् समावृत्य शूद्राञ् शूद्रोपजीविनः । (२१।१)

vāhanasthān samāvṛtya śūdrāñ śūdropajīvinaḥ |

21.2२१.२

सेवन्ते ब्राह्मणास्तत्र स्तुवन्ति स्तुतिभिः कलौ ॥ (२१।२)

sevante brāhmaṇāstatra stuvanti stutibhiḥ kalau ||

22.1२२.१

अध्यापयन्ति वै वेदाञ् शूद्राञ् शूद्रोपजीविनः । (२२।१)

adhyāpayanti vai vedāñ śūdrāñ śūdropajīvinaḥ |

22.2२२.२

पठन्ति वैदिकान् मन्त्रान् नास्तिक्यं घोरमाश्रिताः ॥ (२२।२)

paṭhanti vaidikān mantrān nāstikyaṃ ghoramāśritāḥ ||

23.1२३.१

तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः । (२३।१)

tapoyajñaphalānāṃ ca vikretāro dvijottamāḥ |

23.2२३.२

यतयश्च भविष्यन्ति शतशो ऽथ सहस्रशः ॥ (२३।२)

yatayaśca bhaviṣyanti śataśo 'tha sahasraśaḥ ||

24.1२४.१

नाशयन्ति ह्यधीतानि नाधिगच्छन्ति चानघ । (२४।१)

nāśayanti hyadhītāni nādhigacchanti cānagha |

24.2२४.२

गायन्ति लौकिकैर्गानैर्दैवतानि नराधिप ॥ (२४।२)

gāyanti laukikairgānairdaivatāni narādhipa ||

25.1२५.१

वामपाशुपताचारास्तथा वै पाञ्चरात्रिकाः । (२५।१)

vāmapāśupatācārāstathā vai pāñcarātrikāḥ |

25.2२५.२

भविष्यन्ति कलौ तस्मिन् ब्राह्मणाः क्षत्रियास्तथा ॥ (२५।२)

bhaviṣyanti kalau tasmin brāhmaṇāḥ kṣatriyāstathā ||

26.1२६.१

ज्ञानकर्मण्युपरते लोके निष्क्रियतां गते । (२६।१)

jñānakarmaṇyuparate loke niṣkriyatāṃ gate |

26.2२६.२

कीटमूषकसर्पाश्च धर्षयिष्यन्ति मानवान् ॥ (२६।२)

kīṭamūṣakasarpāśca dharṣayiṣyanti mānavān ||

27.1२७.१

कुर्वन्ति चावताराणि ब्राह्मणानां कुलेषु वै । (२७।१)

kurvanti cāvatārāṇi brāhmaṇānāṃ kuleṣu vai |

27.2२७.२

दधीचशापनिर्दग्धाः पुरा दक्षाध्वरे द्विजाः ॥ (२७।२)

dadhīcaśāpanirdagdhāḥ purā dakṣādhvare dvijāḥ ||

28.1२८.१

निन्दन्ति च महादेवं तमसाविष्टचेतसः । (२८।१)

nindanti ca mahādevaṃ tamasāviṣṭacetasaḥ |

28.2२८.२

वृथा धर्मं चरिष्यन्ति कलौ तस्मिन् युगान्तिके ॥ (२८।२)

vṛthā dharmaṃ cariṣyanti kalau tasmin yugāntike ||

29.1२९.१

ये चान्ये शापनिर्दग्धा गौतमस्य महात्मनः । (२९।१)

ye cānye śāpanirdagdhā gautamasya mahātmanaḥ |

29.2२९.२

सर्वे ते च भविष्यन्ति ब्राह्मणाद्याः स्वजातिषु ॥ (२९।२)

sarve te ca bhaviṣyanti brāhmaṇādyāḥ svajātiṣu ||

30.1३०.१

विनिन्दन्ति हृषीकेशं ब्राह्मणान् ब्रह्मवादिनः । (३०।१)

vinindanti hṛṣīkeśaṃ brāhmaṇān brahmavādinaḥ |

30.2३०.२

वेदबाह्यव्रताचारा दुराचारा वृथाश्रमाः ॥ (३०।२)

vedabāhyavratācārā durācārā vṛthāśramāḥ ||

31.1३१.१

मोहयन्ति जनान् सर्वान् दर्शयित्वा फलानि च । (३१।१)

mohayanti janān sarvān darśayitvā phalāni ca |

31.2३१.२

तमसाविष्टमनसो बैडालवृत्तिकाधमाः ॥ (३१।२)

tamasāviṣṭamanaso baiḍālavṛttikādhamāḥ ||

32.1३२.१

कलौ रुद्रो महादेवो लोकानामीश्वरः परः । (३२।१)

kalau rudro mahādevo lokānāmīśvaraḥ paraḥ |

32.2३२.२

न देवता भवेन्नॄणां देवतानां च दैवतम् ॥ (३२।२)

na devatā bhavennṝṇāṃ devatānāṃ ca daivatam ||

33.1३३.१

करिष्यत्यवताराणि शङ्करो नीललोहितः । (३३।१)

kariṣyatyavatārāṇi śaṅkaro nīlalohitaḥ |

33.2३३.२

श्रौतस्मार्तप्रतिष्ठार्थं भक्तानां हितकाम्यया ॥ (३३।२)

śrautasmārtapratiṣṭhārthaṃ bhaktānāṃ hitakāmyayā ||

34.1३४.१

उपदेक्ष्यति तज्ज्ञानं शिष्याणां ब्रह्मसंज्ञितम् । (३४।१)

upadekṣyati tajjñānaṃ śiṣyāṇāṃ brahmasaṃjñitam |

34.2३४.२

सर्ववेदान्तसारं हि धर्मान् वेदनिदर्शितान् ॥ (३४।२)

sarvavedāntasāraṃ hi dharmān vedanidarśitān ||

35.1३५.१

ये तं विप्रा निषेवन्ते येन केनोपचारतः । (३५।१)

ye taṃ viprā niṣevante yena kenopacārataḥ |

35.2३५.२

विजित्य कलिजान् दोषान् यान्ति ते परमं पदम् ॥ (३५।२)

vijitya kalijān doṣān yānti te paramaṃ padam ||

36.1३६.१

अनायासेन सुमहत् पुण्यमाप्नोति मानवः । (३६।१)

anāyāsena sumahat puṇyamāpnoti mānavaḥ |

36.2३६.२

अनेकदोषदुष्टस्य कलेरेष महान् गुणः ॥ (३६।२)

anekadoṣaduṣṭasya kalereṣa mahān guṇaḥ ||

37.1३७.१

तस्मात् सर्वप्रयत्नेन प्राप्य माहेश्वरं युगम् । (३७।१)

tasmāt sarvaprayatnena prāpya māheśvaraṃ yugam |

37.2३७.२

विशेषाद् ब्राह्मणो रुद्रमीशानं शरणं व्रजेत् ॥ (३७।२)

viśeṣād brāhmaṇo rudramīśānaṃ śaraṇaṃ vrajet ||

38.1३८.१

ये नमन्ति विरूपाक्षमीशानं कृत्तिवाससम् । (३८।१)

ye namanti virūpākṣamīśānaṃ kṛttivāsasam |

38.2३८.२

प्रसन्नचेतसो रुद्रं ते यान्ति परमं पदम् ॥ (३८।२)

prasannacetaso rudraṃ te yānti paramaṃ padam ||

39.1३९.१

यथा रुद्रनमस्कारः सर्वकर्मफलो ध्रुवम् । (३९।१)

yathā rudranamaskāraḥ sarvakarmaphalo dhruvam |

39.2३९.२

अन्यदेवनमस्कारान्न तत्फलमवाप्नुयात् ॥ (३९।२)

anyadevanamaskārānna tatphalamavāpnuyāt ||

40.1४०.१

एवंविधे कलियुगे दोषाणामेकशोधनम् । (४०।१)

evaṃvidhe kaliyuge doṣāṇāmekaśodhanam |

40.2४०.२

महादेवनमस्कारो ध्यानं दानमिति श्रुतिः ॥ (४०।२)

mahādevanamaskāro dhyānaṃ dānamiti śrutiḥ ||

41.1४१.१

तस्मादनीश्वरानन्यान् त्यक्त्वा देवं महेश्वरम् । (४१।१)

tasmādanīśvarānanyān tyaktvā devaṃ maheśvaram |

41.2४१.२

समाश्रयेद् विरूपाक्षं यदीच्छेत् परमं पदम् ॥ (४१।२)

samāśrayed virūpākṣaṃ yadīcchet paramaṃ padam ||

42.1४२.१

नार्चयन्तीह ये रुद्रं शिवं त्रिदशवन्दितम् । (४२।१)

nārcayantīha ye rudraṃ śivaṃ tridaśavanditam |

42.2४२.२

तेषां दानं तपो यज्ञो वृथा जीवितमेव च ॥ (४२।२)

teṣāṃ dānaṃ tapo yajño vṛthā jīvitameva ca ||

43.1४३.१

नमो रुद्राय महते देवदेवाय शूलिने । (४३।१)

namo rudrāya mahate devadevāya śūline |

43.2४३.२

त्र्यम्बकाय त्रिनेत्राय योगिनां गुरवे नमः ॥ (४३।२)

tryambakāya trinetrāya yogināṃ gurave namaḥ ||

44.1४४.१

नमो ऽस्तु वामदेवाय महादेवाय वेधसे । (४४।१)

namo 'stu vāmadevāya mahādevāya vedhase |

44.2४४.२

शंभवे स्थाणवे नित्यं शिवाय परमेष्ठिने । (४४।२)

śaṃbhave sthāṇave nityaṃ śivāya parameṣṭhine |

44.3४४.३

नमः सोमाय रुद्राय महाग्रासाय हेतवे ॥ (४४।३)

namaḥ somāya rudrāya mahāgrāsāya hetave ||

45.1४५.१

प्रपद्ये ऽहं विरूपाक्षं शरण्यं ब्रह्मचारिणम् । (४५।१)

prapadye 'haṃ virūpākṣaṃ śaraṇyaṃ brahmacāriṇam |

45.2४५.२

महादेवं महायोगमीशानं चाम्बिकापतिम् ॥ (४५।२)

mahādevaṃ mahāyogamīśānaṃ cāmbikāpatim ||

46.1४६.१

योगिनां योगदातारं योगमायासमावृतम् । (४६।१)

yogināṃ yogadātāraṃ yogamāyāsamāvṛtam |

46.2४६.२

योगिनां गुरुम् आचार्यं योगिगम्यं पिनाकिनम् ॥ (४६।२)

yogināṃ gurum ācāryaṃ yogigamyaṃ pinākinam ||

47.1४७.१

संसारतारणं रुद्रं ब्रह्माणं ब्रह्मणो ऽधिपम् । (४७।१)

saṃsāratāraṇaṃ rudraṃ brahmāṇaṃ brahmaṇo 'dhipam |

47.2४७.२

शाश्वतं सर्वगं ब्रह्मण्यं ब्राह्मणप्रियम् ॥ (४७।२)

śāśvataṃ sarvagaṃ brahmaṇyaṃ brāhmaṇapriyam ||

48.1४८.१

कपर्दिनं कालमूर्तिममूर्तिं परमेश्वरम् । (४८।१)

kapardinaṃ kālamūrtimamūrtiṃ parameśvaram |

48.2४८.२

एकमूर्तिं महामूर्तिं वेदवेद्यं दिवस्पतिम् ॥ (४८।२)

ekamūrtiṃ mahāmūrtiṃ vedavedyaṃ divaspatim ||

49.1४९.१

नीलकण्ठं विश्वमूर्तिं व्यापिनं विश्वरेतसम् । (४९।१)

nīlakaṇṭhaṃ viśvamūrtiṃ vyāpinaṃ viśvaretasam |

49.2४९.२

कालाग्निं कालदहनं कामदं कामनाशनम् ॥ (४९।२)

kālāgniṃ kāladahanaṃ kāmadaṃ kāmanāśanam ||

50.1५०.१

नमस्ये गिरिशं देवं चन्द्रावयवभूषणम् । (५०।१)

namasye giriśaṃ devaṃ candrāvayavabhūṣaṇam |

50.2५०.२

विलोहितं लेलिहानम् आदित्यं परमेष्ठिनम् । (५०।२)

vilohitaṃ lelihānam ādityaṃ parameṣṭhinam |

50.3५०.३

उग्रं पशुपतिं भीमं भास्करं तमसः परम् ॥ (५०।३)

ugraṃ paśupatiṃ bhīmaṃ bhāskaraṃ tamasaḥ param ||

51.1५१.१

इत्येतल्लक्षणं प्रोक्तं युगानां वै समासतः । (५१।१)

ityetallakṣaṇaṃ proktaṃ yugānāṃ vai samāsataḥ |

51.2५१.२

अतीतानागतानां वै यावन्मन्वन्तरक्षयः ॥ (५१।२)

atītānāgatānāṃ vai yāvanmanvantarakṣayaḥ ||

52.1५२.१

मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै । (५२।१)

manvantareṇa caikena sarvāṇyevāntarāṇi vai |

52.2५२.२

व्याख्यातानि न संदेहः कल्पः कल्पेन चैव हि ॥ (५२।२)

vyākhyātāni na saṃdehaḥ kalpaḥ kalpena caiva hi ||

53.1५३.१

मन्वन्तरेषु सर्वेषु अतीतानागतेषु वै । (५३।१)

manvantareṣu sarveṣu atītānāgateṣu vai |

53.2५३.२

तुल्याभिमानिनः सर्वे नामरूपैर्भवन्त्युत ॥ (५३।२)

tulyābhimāninaḥ sarve nāmarūpairbhavantyuta ||

54.1५४.१

एवमुक्तो भगवता किरीटी श्वेतवाहनः । (५४।१)

evamukto bhagavatā kirīṭī śvetavāhanaḥ |

54.2५४.२

बभार परमां भक्तिमीशाने ऽव्यभिचारिणीम् ॥ (५४।२)

babhāra paramāṃ bhaktimīśāne 'vyabhicāriṇīm ||

55.1५५.१

नमश्चकार तमृषिं कृष्णद्वैपायनं प्रभुम् । (५५।१)

namaścakāra tamṛṣiṃ kṛṣṇadvaipāyanaṃ prabhum |

55.2५५.२

सर्वज्ञं सर्वकर्तारं साक्षाद् विष्णुं व्यवस्थितम् ॥ (५५।२)

sarvajñaṃ sarvakartāraṃ sākṣād viṣṇuṃ vyavasthitam ||

56.1५६.१

तमुवाच पुनर्व्यासः पार्थं परपुरंजयम् । (५६।१)

tamuvāca punarvyāsaḥ pārthaṃ parapuraṃjayam |

56.2५६.२

कराभ्यां सुशुभाभ्यां च संस्पृश्य प्रणतं मुनिः ॥ (५६।२)

karābhyāṃ suśubhābhyāṃ ca saṃspṛśya praṇataṃ muniḥ ||

57.1५७.१

धन्यो ऽस्यनुगृहीतो ऽसि त्वादृशो ऽन्यो न विद्यते । (५७।१)

dhanyo 'syanugṛhīto 'si tvādṛśo 'nyo na vidyate |

57.2५७.२

त्रैलोक्ये शङ्करे नूनं भक्तः परपुरञ्जय ॥ (५७।२)

trailokye śaṅkare nūnaṃ bhaktaḥ parapurañjaya ||

58.1५८.१

दृष्टवानसि तं देवं विश्वाक्षं विश्वतोमुखम् । (५८।१)

dṛṣṭavānasi taṃ devaṃ viśvākṣaṃ viśvatomukham |

58.2५८.२

प्रत्यक्षमेव सर्वेशं रुद्रं सर्वजगद्गुरुम् ॥ (५८।२)

pratyakṣameva sarveśaṃ rudraṃ sarvajagadgurum ||

59.1५९.१

ज्ञानं तदैश्वरं दिव्यं यथावद् विदितं त्वया । (५९।१)

jñānaṃ tadaiśvaraṃ divyaṃ yathāvad viditaṃ tvayā |

59.2५९.२

स्वयमेव हृषीकेशः प्रीत्योवाच सनातनः ॥ (५९।२)

svayameva hṛṣīkeśaḥ prītyovāca sanātanaḥ ||

60.1६०.१

गच्छ गच्छ स्वकं स्थानं न शोकं कर्तुमर्हसि । (६०।१)

gaccha gaccha svakaṃ sthānaṃ na śokaṃ kartumarhasi |

60.2६०.२

व्रजस्व परया भक्त्या शरण्यं शरणं शिवम् ॥ (६०।२)

vrajasva parayā bhaktyā śaraṇyaṃ śaraṇaṃ śivam ||

61.1६१.१

एवमुक्त्वा स भगवाननुगृह्यार्जुनं प्रभुः । (६१।१)

evamuktvā sa bhagavānanugṛhyārjunaṃ prabhuḥ |

61.2६१.२

जगाम शङ्करपुरीं समाराधयितुं भवम् ॥ (६१।२)

jagāma śaṅkarapurīṃ samārādhayituṃ bhavam ||

62.1६२.१

पाण्डवेयो ऽपि तद्वाक्यात् सम्प्राप्य शरणं शिवम् । (६२।१)

pāṇḍaveyo 'pi tadvākyāt samprāpya śaraṇaṃ śivam |

62.2६२.२

संत्यज्य सर्वकर्माणि तद्भक्तिपरमो ऽभवत् ॥ (६२।२)

saṃtyajya sarvakarmāṇi tadbhaktiparamo 'bhavat ||

63.1६३.१

नार्जुनेन समः शंभोर्भक्त्या भूतो भविष्यति । (६३।१)

nārjunena samaḥ śaṃbhorbhaktyā bhūto bhaviṣyati |

63.2६३.२

मुक्त्वा सत्यवतीसूनुं कृष्णं वा देवकीसुतम् ॥ (६३।२)

muktvā satyavatīsūnuṃ kṛṣṇaṃ vā devakīsutam ||

64.1६४.१

तस्मै भगवते नित्यं नमः सत्याय धीमते । (६४।१)

tasmai bhagavate nityaṃ namaḥ satyāya dhīmate |

64.2६४.२

पाराशर्याय मुनये व्यासायामिततेजसे ॥ (६४।२)

pārāśaryāya munaye vyāsāyāmitatejase ||

65.1६५.१

कृष्णद्वैपायनः साक्षाद् विष्णुरेव सनातनः । (६५।१)

kṛṣṇadvaipāyanaḥ sākṣād viṣṇureva sanātanaḥ |

65.2६५.२

को ह्यन्यस्तत्त्वतो रुद्रं वेत्ति तं परमेश्वरम् ॥ (६५।२)

ko hyanyastattvato rudraṃ vetti taṃ parameśvaram ||

66.1६६.१

नमः कुरुध्वं तमृषिं कृष्णं सत्यवतीसुतम् । (६६।१)

namaḥ kurudhvaṃ tamṛṣiṃ kṛṣṇaṃ satyavatīsutam |

66.2६६.२

पाराशर्यं महात्मानं योगिनं विष्णुमव्ययम् ॥ (६६।२)

pārāśaryaṃ mahātmānaṃ yoginaṃ viṣṇumavyayam ||

67.1६७.१

एवमुक्तास्तु मुनयः सर्व एव समाहिताः । (६७।१)

evamuktāstu munayaḥ sarva eva samāhitāḥ |

67.2६७.२

प्रणेमुस्तं महात्मानं व्यासं सत्यवतीसुतम् ॥ (६७।२)

praṇemustaṃ mahātmānaṃ vyāsaṃ satyavatīsutam ||

68.1६८.१

इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायां पूर्वविभागे अष्टाविंशो ऽध्यायः ॥ (६८।१)

iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭāviṃśo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

KūPur, 1, 28

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit