विष्णुपुराणViṣṇupurāṇa

ViPur, 1, 1

1 of 126 · 64 verses

Select a line for its word-by-word analysis.

1.1१.१

पराशरं मुनिवरं कृतपूर्वाह्णिकक्रियम् । (१।१)

parāśaraṃ munivaraṃ kṛtapūrvāhṇikakriyam |

1.2१.२

मैत्रेयः परिपप्रच्छ प्रणिपत्याभिवाद्य च ॥ (१।२)

maitreyaḥ paripapraccha praṇipatyābhivādya ca ||

2.1२.१

त्वत्तो हि वेदाध्ययनम् अधीतम् अखिलं गुरो । (२।१)

tvatto hi vedādhyayanam adhītam akhilaṃ guro |

2.2२.२

धर्मशास्त्राणि सर्वाणि वेदाङ्गानि यथाक्रमम् ॥ (२।२)

dharmaśāstrāṇi sarvāṇi vedāṅgāni yathākramam ||

3.1३.१

त्वत्प्रसादान् मुनिश्रेष्ठ माम् अन्ये नाकृतश्रमम् । (३।१)

tvatprasādān muniśreṣṭha mām anye nākṛtaśramam |

3.2३.२

वक्ष्यन्ति सर्वशास्त्रेषु प्रायशो ये ऽपि विद्विषः ॥ (३।२)

vakṣyanti sarvaśāstreṣu prāyaśo ye 'pi vidviṣaḥ ||

4.1४.१

सो ऽहम् इच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत् । (४।१)

so 'ham icchāmi dharmajña śrotuṃ tvatto yathā jagat |

4.2४.२

बभूव भूयश् च यथा महाभाग भविष्यति ॥ (४।२)

babhūva bhūyaś ca yathā mahābhāga bhaviṣyati ||

5.1५.१

यन्मयं च जगद् ब्रह्मन् यतश् चैतच् चराचरम् । (५।१)

yanmayaṃ ca jagad brahman yataś caitac carācaram |

5.2५.२

लीनम् आसीद् यथा यत्र लयम् एष्यति यत्र च ॥ (५।२)

līnam āsīd yathā yatra layam eṣyati yatra ca ||

6.1६.१

यत्प्रमाणानि भूतानि देवादीनां च संभवम् । (६।१)

yatpramāṇāni bhūtāni devādīnāṃ ca saṃbhavam |

6.2६.२

समुद्रपर्वतानां च संस्थानं च यथा भुवः ॥ (६।२)

samudraparvatānāṃ ca saṃsthānaṃ ca yathā bhuvaḥ ||

7.1७.१

सूर्यादीनां च संस्थानं प्रमाणं मुनिसत्तम । (७।१)

sūryādīnāṃ ca saṃsthānaṃ pramāṇaṃ munisattama |

7.2७.२

देवादीनां तथा वंशान् मनून् मन्वन्तराणि च ॥ (७।२)

devādīnāṃ tathā vaṃśān manūn manvantarāṇi ca ||

8.1८.१

कल्पान् कल्पविकल्पांश् च चतुर्युगविकल्पितान् । (८।१)

kalpān kalpavikalpāṃś ca caturyugavikalpitān |

8.2८.२

कल्पान्तस्य स्वरूपं च युगधर्मांश् च कृत्स्नशः ॥ (८।२)

kalpāntasya svarūpaṃ ca yugadharmāṃś ca kṛtsnaśaḥ ||

9.1९.१

देवर्षिपार्थिवानां च चरितं यन् महामुने । (९।१)

devarṣipārthivānāṃ ca caritaṃ yan mahāmune |

9.2९.२

वेदशाखाप्रणयनं यथावद् व्यासकर्तृकम् ॥ (९।२)

vedaśākhāpraṇayanaṃ yathāvad vyāsakartṛkam ||

10.1१०.१

धर्मांश् च ब्राह्मणादीनां तथा चाश्रमवासिनाम् । (१०।१)

dharmāṃś ca brāhmaṇādīnāṃ tathā cāśramavāsinām |

10.2१०.२

श्रोतुम् इच्छाम्य् अहं सर्वं त्वत्तो वासिष्ठनन्दन ॥ (१०।२)

śrotum icchāmy ahaṃ sarvaṃ tvatto vāsiṣṭhanandana ||

11.1११.१

ब्रह्मन् प्रसादप्रवणं कुरुष्व मयि मानसम् । (११।१)

brahman prasādapravaṇaṃ kuruṣva mayi mānasam |

11.2११.२

येनाहम् एतज् जानीयां त्वत्प्रसादान् महामुने ॥ (११।२)

yenāham etaj jānīyāṃ tvatprasādān mahāmune ||

12.1१२.१

पराशर उवाच । (१२।१)

parāśara uvāca

12.2१२.२

साधु मैत्रेय धर्मज्ञ स्मारितो ऽस्मि पुरातनम् । (१२।२)

sādhu maitreya dharmajña smārito 'smi purātanam |

12.3१२.३

पितुः पिता मे भगवान् वसिष्ठो यद् उवाच ह ॥ (१२।३)

pituḥ pitā me bhagavān vasiṣṭho yad uvāca ha ||

13.1१३.१

विश्वामित्रप्रयुक्तेन रक्षसा भक्षितो मया । (१३।१)

viśvāmitraprayuktena rakṣasā bhakṣito mayā |

13.2१३.२

श्रुतस् तातस् ततः क्रोधो मैत्रेयासीन् ममातुलः ॥ (१३।२)

śrutas tātas tataḥ krodho maitreyāsīn mamātulaḥ ||

14.1१४.१

ततो ऽहं रक्षसां सत्रं विनाशाय समारभम् । (१४।१)

tato 'haṃ rakṣasāṃ satraṃ vināśāya samārabham |

14.2१४.२

भस्मीकृताश् च शतशस् तस्मिन् सत्रे निशाचराः ॥ (१४।२)

bhasmīkṛtāś ca śataśas tasmin satre niśācarāḥ ||

15.1१५.१

ततः संक्षीयमाणेषु तेषु रक्षःस्व् अशेषतः । (१५।१)

tataḥ saṃkṣīyamāṇeṣu teṣu rakṣaḥsv aśeṣataḥ |

15.2१५.२

माम् उवाच महाभागो वसिष्ठो ऽस्मत्पितामहः ॥ (१५।२)

mām uvāca mahābhāgo vasiṣṭho 'smatpitāmahaḥ ||

16.1१६.१

अलम् अत्यन्तकोपेन तात मन्युम् इमं जहि । (१६।१)

alam atyantakopena tāta manyum imaṃ jahi |

16.2१६.२

राक्षसा नापराध्यन्ते पितुस् ते विहितं तथा ॥ (१६।२)

rākṣasā nāparādhyante pitus te vihitaṃ tathā ||

17.1१७.१

मूढानाम् एष भवति क्रोधो ज्ञानवतां कुतः । (१७।१)

mūḍhānām eṣa bhavati krodho jñānavatāṃ kutaḥ |

17.2१७.२

हन्यते तात कः केन यतः स्वकृतभुक् पुमान् ॥ (१७।२)

hanyate tāta kaḥ kena yataḥ svakṛtabhuk pumān ||

18.1१८.१

संचितस्यापि महता वत्स क्लेशेन मानवैः । (१८।१)

saṃcitasyāpi mahatā vatsa kleśena mānavaiḥ |

18.2१८.२

यशसस् तपसश् चैव क्रोधो नाशकरः परः ॥ (१८।२)

yaśasas tapasaś caiva krodho nāśakaraḥ paraḥ ||

19.1१९.१

स्वर्गापवर्गव्यासेधकारणं परमर्षयः । (१९।१)

svargāpavargavyāsedhakāraṇaṃ paramarṣayaḥ |

19.2१९.२

वर्जयन्ति सदा क्रोधं तात मा तद्वशो भव ॥ (१९।२)

varjayanti sadā krodhaṃ tāta mā tadvaśo bhava ||

20.1२०.१

अलं निशाचरैर् दग्धैर् दीनैर् अनपराधिभिः । (२०।१)

alaṃ niśācarair dagdhair dīnair anaparādhibhiḥ |

20.2२०.२

सत्रं ते विरमत्व् एतत् क्षमासारा हि साधवः ॥ (२०।२)

satraṃ te viramatv etat kṣamāsārā hi sādhavaḥ ||

21.1२१.१

एवं तातेन तेनाहम् अनुनीतो महात्मना । (२१।१)

evaṃ tātena tenāham anunīto mahātmanā |

21.2२१.२

उपसंहृतवान् सत्रं सद्यस् तद्वाक्यगौरवात् ॥ (२१।२)

upasaṃhṛtavān satraṃ sadyas tadvākyagauravāt ||

22.1२२.१

ततः प्रीतः स भगवान् वसिष्ठो मुनिसत्तमः । (२२।१)

tataḥ prītaḥ sa bhagavān vasiṣṭho munisattamaḥ |

22.2२२.२

सम्प्राप्तश् च तदा तत्र पुलस्त्यो ब्रह्मणः सुतः ॥ (२२।२)

samprāptaś ca tadā tatra pulastyo brahmaṇaḥ sutaḥ ||

23.1२३.१

पितामहेन दत्तार्घ्यः कृतासनपरिग्रहः । (२३।१)

pitāmahena dattārghyaḥ kṛtāsanaparigrahaḥ |

23.2२३.२

माम् उवाच महाभागो मैत्रेय पुलहाग्रजः ॥ (२३।२)

mām uvāca mahābhāgo maitreya pulahāgrajaḥ ||

24.1२४.१

पुलस्त्य उवाच । (२४।१)

pulastya uvāca

24.2२४.२

वैरे महति यद् वाक्याद् गुरोर् अस्याश्रिता क्षमा । (२४।२)

vaire mahati yad vākyād guror asyāśritā kṣamā |

24.3२४.३

त्वया तस्मात् समस्तानि भवाञ्छास्त्राणि वेत्स्यति ॥ (२४।३)

tvayā tasmāt samastāni bhavāñchāstrāṇi vetsyati ||

25.1२५.१

संततेर् न ममोच्छेदः क्रुद्धेनापि यतः कृतः । (२५।१)

saṃtater na mamocchedaḥ kruddhenāpi yataḥ kṛtaḥ |

25.2२५.२

त्वया तस्मान् महाभाग ददाम्य् अन्यं महावरम् ॥ (२५।२)

tvayā tasmān mahābhāga dadāmy anyaṃ mahāvaram ||

26.1२६.१

पुराणसंहिताकर्ता भवान् वत्स भविष्यति । (२६।१)

purāṇasaṃhitākartā bhavān vatsa bhaviṣyati |

26.2२६.२

देवतापारमार्थ्यं च यथावद् वेत्स्यते भवान् ॥ (२६।२)

devatāpāramārthyaṃ ca yathāvad vetsyate bhavān ||

27.1२७.१

प्रवृत्ते च निवृत्ते च कर्मण्य् अस्तमला मतिः । (२७।१)

pravṛtte ca nivṛtte ca karmaṇy astamalā matiḥ |

27.2२७.२

मत्प्रसादाद् असंदिग्धा तव वत्स भविष्यति ॥ (२७।२)

matprasādād asaṃdigdhā tava vatsa bhaviṣyati ||

28.1२८.१

ततश् च भगवान् प्राह वसिष्ठो मे पितामहः । (२८।१)

tataś ca bhagavān prāha vasiṣṭho me pitāmahaḥ |

28.2२८.२

पुलस्त्येन यद् उक्तं ते सर्वम् एतद् भविष्यति ॥ (२८।२)

pulastyena yad uktaṃ te sarvam etad bhaviṣyati ||

29.1२९.१

इति पूर्वं वसिष्ठेन पुलस्त्येन च धीमता । (२९।१)

iti pūrvaṃ vasiṣṭhena pulastyena ca dhīmatā |

29.2२९.२

यद् उक्तं तत् स्मृतिं यातं त्वत्प्रश्नाद् अखिलं मम ॥ (२९।२)

yad uktaṃ tat smṛtiṃ yātaṃ tvatpraśnād akhilaṃ mama ||

30.1३०.१

सो ऽहं वदाम्य् अशेषं ते मैत्रेय परिपृच्छते । (३०।१)

so 'haṃ vadāmy aśeṣaṃ te maitreya paripṛcchate |

30.2३०.२

पुराणसंहितां सम्यक् तां निबोध यथातथम् ॥ (३०।२)

purāṇasaṃhitāṃ samyak tāṃ nibodha yathātatham ||

31.1३१.१

विष्णोः सकाशाद् उद्भूतं जगत् तत्रैव च स्थितम् । (३१।१)

viṣṇoḥ sakāśād udbhūtaṃ jagat tatraiva ca sthitam |

31.2३१.२

स्थितिसंयमकर्तासौ जगतो ऽस्य जगच् च सः ॥ (३१।२)

sthitisaṃyamakartāsau jagato 'sya jagac ca saḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

ViPur, 1, 1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit