विष्णुपुराणViṣṇupurāṇa

ViPur, 1, 11

11 of 126 · 132 verses

Select a line for its word-by-word analysis.

1.1१.१

पराशर उवाच । (१।१)

parāśara uvāca

1.2१.२

प्रियव्रतोत्तानपादौ मनोः स्वायम्भुवस्य तु । (१।२)

priyavratottānapādau manoḥ svāyambhuvasya tu |

1.3१.३

द्वौ पुत्रौ सुमहावीर्यौ धर्मज्ञौ कथितौ तव ॥ (१।३)

dvau putrau sumahāvīryau dharmajñau kathitau tava ||

2.1२.१

तयोर् उत्तानपादस्य सुरुच्याम् उत्तमः सुतः । (२।१)

tayor uttānapādasya surucyām uttamaḥ sutaḥ |

2.2२.२

अभीष्टायाम् अभूद् ब्रह्मन् पितुर् अत्यन्तवल्लभः ॥ (२।२)

abhīṣṭāyām abhūd brahman pitur atyantavallabhaḥ ||

3.1३.१

सुनीतिर् नाम या राज्ञस् तस्याभून् महिषी द्विज । (३।१)

sunītir nāma yā rājñas tasyābhūn mahiṣī dvija |

3.2३.२

स नातिप्रीतिमांस् तस्यां तस्याश् चाभूद् ध्रुवः सुतः ॥ (३।२)

sa nātiprītimāṃs tasyāṃ tasyāś cābhūd dhruvaḥ sutaḥ ||

4.1४.१

राजासनस्थितस्याङ्कं पितुर् भ्रातरम् आश्रितम् । (४।१)

rājāsanasthitasyāṅkaṃ pitur bhrātaram āśritam |

4.2४.२

दृष्ट्वोत्तमं ध्रुवश् चक्रे तम् आरोढुं मनोरथम् ॥ (४।२)

dṛṣṭvottamaṃ dhruvaś cakre tam āroḍhuṃ manoratham ||

5.1५.१

प्रत्यक्षं भूपतिस् तस्याः सुरुच्या नाभ्यनन्दत । (५।१)

pratyakṣaṃ bhūpatis tasyāḥ surucyā nābhyanandata |

5.2५.२

प्रणयेनागतं पुत्रम् उत्सङ्गारोहणोत्सुकम् ॥ (५।२)

praṇayenāgataṃ putram utsaṅgārohaṇotsukam ||

6.1६.१

सपत्नी तनयं दृष्ट्वा तम् अङ्कारोहणोत्सुकम् । (६।१)

sapatnī tanayaṃ dṛṣṭvā tam aṅkārohaṇotsukam |

6.2६.२

स्वपुत्रं च तथारूढं सुरुचिर् वाक्यम् अब्रवीत् ॥ (६।२)

svaputraṃ ca tathārūḍhaṃ surucir vākyam abravīt ||

7.1७.१

क्रियते किं वृथा वत्स महान् एष मनोरथः । (७।१)

kriyate kiṃ vṛthā vatsa mahān eṣa manorathaḥ |

7.2७.२

अन्यस्त्रीगर्भजातेन असंभूय ममोदरे । (७।२)

anyastrīgarbhajātena asaṃbhūya mamodare |

7.3७.३

उत्तमोत्तमम् अप्राप्यम् अविवेको ऽभिवाञ्छसि ॥ (७।३)

uttamottamam aprāpyam aviveko 'bhivāñchasi ||

8.1८.१

सत्यं सुतस् त्वम् अप्य् अस्य किन्तु न त्वं मया धृतः ॥ (८।१)

satyaṃ sutas tvam apy asya kintu na tvaṃ mayā dhṛtaḥ ||

9.1९.१

एतद् राजासनं सर्वभूभृत्संश्रयकेतनम् । (९।१)

etad rājāsanaṃ sarvabhūbhṛtsaṃśrayaketanam |

9.2९.२

योग्यं ममैव पुत्रस्य किम् आत्मा क्लिश्यते त्वया ॥ (९।२)

yogyaṃ mamaiva putrasya kim ātmā kliśyate tvayā ||

10.1१०.१

उच्चैर् मनोरथस् ते ऽयं मत्पुत्रस्येव किं वृथा । (१०।१)

uccair manorathas te 'yaṃ matputrasyeva kiṃ vṛthā |

10.2१०.२

सुनीत्याम् आत्मनो जन्म किं त्वया नावगम्यते ॥ (१०।२)

sunītyām ātmano janma kiṃ tvayā nāvagamyate ||

11.1११.१

पराशर उवाच । (११।१)

parāśara uvāca

11.2११.२

उत्सृज्य पितरं बालस् तच्छ्रुत्वा मातृभाषितम् । (११।२)

utsṛjya pitaraṃ bālas tacchrutvā mātṛbhāṣitam |

11.3११.३

जगाम कुपितो मातुर् निजाया द्विज मन्दिरम् ॥ (११।३)

jagāma kupito mātur nijāyā dvija mandiram ||

12.1१२.१

तं दृष्ट्वा कुपितं पुत्रम् ईषत्प्रस्फुरिताधरम् । (१२।१)

taṃ dṛṣṭvā kupitaṃ putram īṣatprasphuritādharam |

12.2१२.२

सुनीतिर् अङ्कम् आरोप्य मैत्रेयैतद् अभाषत ॥ (१२।२)

sunītir aṅkam āropya maitreyaitad abhāṣata ||

13.1१३.१

सुनीतिर् उवाच । (१३।१)

sunītir uvāca

13.2१३.२

वत्स कः कोपहेतुस् ते कश् च त्वां नाभिनन्दति । (१३।२)

vatsa kaḥ kopahetus te kaś ca tvāṃ nābhinandati |

13.3१३.३

को ऽवजानाति पितरं तव यस् ते ऽपराध्यति ॥ (१३।३)

ko 'vajānāti pitaraṃ tava yas te 'parādhyati ||

14.1१४.१

पराशर उवाच । (१४।१)

parāśara uvāca

14.2१४.२

इत्य् उक्तः सकलं मात्रे कथयामास तद् यथा । (१४।२)

ity uktaḥ sakalaṃ mātre kathayāmāsa tad yathā |

14.3१४.३

सुरुचिः प्राह भूपालप्रत्यक्षम् अतिगर्विता ॥ (१४।३)

suruciḥ prāha bhūpālapratyakṣam atigarvitā ||

15.1१५.१

निःश्वस्य सेति कथिते तस्मिन् पुत्रेण दुर्मनाः । (१५।१)

niḥśvasya seti kathite tasmin putreṇa durmanāḥ |

15.2१५.२

श्वासक्षामेक्षणा दीना सुनीतिर् वाक्यम् अब्रवीत् ॥ (१५।२)

śvāsakṣāmekṣaṇā dīnā sunītir vākyam abravīt ||

16.1१६.१

सुनीतिर् उवाच । (१६।१)

sunītir uvāca

16.2१६.२

सुरुचिः सत्यम् आहेदं स्वल्पभाग्यो ऽसि पुत्रक । (१६।२)

suruciḥ satyam āhedaṃ svalpabhāgyo 'si putraka |

16.3१६.३

न हि पुण्यवतां वत्स सपत्नैर् एवम् उच्यते ॥ (१६।३)

na hi puṇyavatāṃ vatsa sapatnair evam ucyate ||

17.1१७.१

नोद्वेगस् तात कर्तव्यः कृतं यद् भवता पुरा । (१७।१)

nodvegas tāta kartavyaḥ kṛtaṃ yad bhavatā purā |

17.2१७.२

तत् को ऽपहर्तुं शक्नोति दातुं कश् चाकृतं त्वया ॥ (१७।२)

tat ko 'pahartuṃ śaknoti dātuṃ kaś cākṛtaṃ tvayā ||

18.1१८.१

राजासनं तथा छत्रं वराश्वा वरवारणाः । (१८।१)

rājāsanaṃ tathā chatraṃ varāśvā varavāraṇāḥ |

18.2१८.२

यस्य पुण्यानि तस्यैव मत्वैतच्छाम्य पुत्रक ॥ (१८।२)

yasya puṇyāni tasyaiva matvaitacchāmya putraka ||

19.1१९.१

अन्यजन्मकृतैः पुण्यैः सुरुच्यां सुरुचिर् नृपः । (१९।१)

anyajanmakṛtaiḥ puṇyaiḥ surucyāṃ surucir nṛpaḥ |

19.2१९.२

भार्येति प्रोच्यते चान्या मद्विधा पुण्यवर्जिता ॥ (१९।२)

bhāryeti procyate cānyā madvidhā puṇyavarjitā ||

20.1२०.१

पुण्योपचयसम्पन्नस् तस्याः पुत्रस् तथोत्तमः । (२०।१)

puṇyopacayasampannas tasyāḥ putras tathottamaḥ |

20.2२०.२

मम पुत्रस् तथा जातः स्वल्पपुण्यो ध्रुवो भवान् ॥ (२०।२)

mama putras tathā jātaḥ svalpapuṇyo dhruvo bhavān ||

21.1२१.१

तथापि दुःखं न भवान् कर्तुम् अर्हति पुत्रक । (२१।१)

tathāpi duḥkhaṃ na bhavān kartum arhati putraka |

21.2२१.२

यस्य यावत् स तेनैव स्वेन तुष्यति बुद्धिमान् ॥ (२१।२)

yasya yāvat sa tenaiva svena tuṣyati buddhimān ||

22.1२२.१

यदि चेद् दुःखम् अत्यर्थं सुरुच्या वचनात् तव । (२२।१)

yadi ced duḥkham atyarthaṃ surucyā vacanāt tava |

22.2२२.२

तत् पुण्योपचये यत्नं कुरु सर्वफलप्रदे ॥ (२२।२)

tat puṇyopacaye yatnaṃ kuru sarvaphalaprade ||

23.1२३.१

सुशीलो भव धर्मात्मा मैत्रः प्राणिहिते रतः । (२३।१)

suśīlo bhava dharmātmā maitraḥ prāṇihite rataḥ |

23.2२३.२

निम्नं यथापः प्रवणाः पात्रम् आयान्ति संपदः ॥ (२३।२)

nimnaṃ yathāpaḥ pravaṇāḥ pātram āyānti saṃpadaḥ ||

24.1२४.१

ध्रुव उवाच । (२४।१)

dhruva uvāca

24.2२४.२

अम्ब यत् त्वम् इदं प्राह प्रशमाय वचो मम । (२४।२)

amba yat tvam idaṃ prāha praśamāya vaco mama |

24.3२४.३

नैतद् दुर्वचसा भिन्ने हृदये मम तिष्ठति ॥ (२४।३)

naitad durvacasā bhinne hṛdaye mama tiṣṭhati ||

25.1२५.१

सो ऽहं तथा यतिष्यामि यथा सर्वोत्तमोत्तमम् । (२५।१)

so 'haṃ tathā yatiṣyāmi yathā sarvottamottamam |

25.2२५.२

स्थानं प्राप्स्याम्य् अशेषाणां जगताम् अभिपूजितम् ॥ (२५।२)

sthānaṃ prāpsyāmy aśeṣāṇāṃ jagatām abhipūjitam ||

26.1२६.१

सुरुचिर् दयिता राज्ञस् तस्या जातो ऽस्मि नोदरात् । (२६।१)

surucir dayitā rājñas tasyā jāto 'smi nodarāt |

26.2२६.२

प्रभावं पश्य मे ऽम्ब त्वं धृतस्यापि तवोदरे ॥ (२६।२)

prabhāvaṃ paśya me 'mba tvaṃ dhṛtasyāpi tavodare ||

27.1२७.१

उत्तमः स मम भ्राता यो गर्भेण धृतस् तया । (२७।१)

uttamaḥ sa mama bhrātā yo garbheṇa dhṛtas tayā |

27.2२७.२

स राजासनम् आप्नोतु पित्रा दत्तं तथास्तु तत् ॥ (२७।२)

sa rājāsanam āpnotu pitrā dattaṃ tathāstu tat ||

28.1२८.१

नान्यदत्तम् अभीप्स्यामि स्थानम् अम्ब स्वकर्मणा । (२८।१)

nānyadattam abhīpsyāmi sthānam amba svakarmaṇā |

28.2२८.२

इच्छामि तद् अहं स्थानं यन् न प्राप पिता मम ॥ (२८।२)

icchāmi tad ahaṃ sthānaṃ yan na prāpa pitā mama ||

29.1२९.१

पराशर उवाच । (२९।१)

parāśara uvāca

29.2२९.२

निर्जगाम गृहान् मातुर् इत्य् उक्त्वा मातरं ध्रुवः । (२९।२)

nirjagāma gṛhān mātur ity uktvā mātaraṃ dhruvaḥ |

29.3२९.३

पुराच्च निर्गम्य ततस् तद्बाह्योपवनं ययौ ॥ (२९।३)

purācca nirgamya tatas tadbāhyopavanaṃ yayau ||

30.1३०.१

स ददर्श मुनींस् तत्र सप्त पूर्वागतान् ध्रुवः । (३०।१)

sa dadarśa munīṃs tatra sapta pūrvāgatān dhruvaḥ |

30.2३०.२

कृष्णाजिनोत्तरीयेषु विष्टरेषु समास्थितान् ॥ (३०।२)

kṛṣṇājinottarīyeṣu viṣṭareṣu samāsthitān ||

31.1३१.१

स राजपुत्रस् तान् सर्वान् प्रणिपत्याभ्यभाषत । (३१।१)

sa rājaputras tān sarvān praṇipatyābhyabhāṣata |

31.2३१.२

प्रश्रयावनतः सम्यग् अभिवादनपूर्वकम् ॥ (३१।२)

praśrayāvanataḥ samyag abhivādanapūrvakam ||

32.1३२.१

ध्रुव उवाच । (३२।१)

dhruva uvāca

32.2३२.२

उत्तानपादतनयं मां निबोधत सत्तमाः । (३२।२)

uttānapādatanayaṃ māṃ nibodhata sattamāḥ |

32.3३२.३

जातं सुनीत्यां निर्वेदाद् युष्माकं प्राप्तम् अन्तिकम् ॥ (३२।३)

jātaṃ sunītyāṃ nirvedād yuṣmākaṃ prāptam antikam ||

33.1३३.१

ऋषय ऊचुः । (३३।१)

ṛṣaya ūcuḥ |

33.2३३.२

चतुःपञ्चाब्दसम्भूतो बालस् त्वं नृपनन्दन । (३३।२)

catuḥpañcābdasambhūto bālas tvaṃ nṛpanandana |

33.3३३.३

निर्वेदकारणं किंचित् तव नाद्यापि विद्यते ॥ (३३।३)

nirvedakāraṇaṃ kiṃcit tava nādyāpi vidyate ||

34.1३४.१

न चिन्त्यं भवतः किंचिद् ध्रियते भूपतिः पिता । (३४।१)

na cintyaṃ bhavataḥ kiṃcid dhriyate bhūpatiḥ pitā |

34.2३४.२

न चैवेष्टवियोगादि तव पश्याम बालक ॥ (३४।२)

na caiveṣṭaviyogādi tava paśyāma bālaka ||

35.1३५.१

शरीरे न च ते व्याधिर् अस्माभिर् उपलक्ष्यते । (३५।१)

śarīre na ca te vyādhir asmābhir upalakṣyate |

35.2३५.२

निर्वेदः किंनिमित्तस् ते कथ्यतां यदि विद्यते ॥ (३५।२)

nirvedaḥ kiṃnimittas te kathyatāṃ yadi vidyate ||

36.1३६.१

पराशर उवाच । (३६।१)

parāśara uvāca

36.2३६.२

ततः स कथयामास सुरुच्या यद् उदाहृतम् । (३६।२)

tataḥ sa kathayāmāsa surucyā yad udāhṛtam |

36.3३६.३

तन् निशम्य ततः प्रोचुर् मुनयस् ते परस्परम् ॥ (३६।३)

tan niśamya tataḥ procur munayas te parasparam ||

37.1३७.१

अहो क्षात्रं परं तेजो बालस्यापि यद् अक्षमा । (३७।१)

aho kṣātraṃ paraṃ tejo bālasyāpi yad akṣamā |

37.2३७.२

सपत्न्या मातुर् उक्तस्य हृदयान् नापसर्पति ॥ (३७।२)

sapatnyā mātur uktasya hṛdayān nāpasarpati ||

38.1३८.१

भो भोः क्षत्रियदायाद निर्वेदाद् यत् त्वयाधुना । (३८।१)

bho bhoḥ kṣatriyadāyāda nirvedād yat tvayādhunā |

38.2३८.२

कर्तुं व्यवसितं तन् नः कथ्यतां यदि रोचते ॥ (३८।२)

kartuṃ vyavasitaṃ tan naḥ kathyatāṃ yadi rocate ||

39.1३९.१

यच्च कार्यं तवास्माभिः साहाय्यम् अमितद्युते । (३९।१)

yacca kāryaṃ tavāsmābhiḥ sāhāyyam amitadyute |

39.2३९.२

तद् उच्यतां विवक्षुस् त्वम् अस्माभिर् उपलक्ष्यसे ॥ (३९।२)

tad ucyatāṃ vivakṣus tvam asmābhir upalakṣyase ||

40.1४०.१

ध्रुव उवाच । (४०।१)

dhruva uvāca

40.2४०.२

नाहम् अर्थम् अभीप्सामि न राज्यं द्विजसत्तमाः । (४०।२)

nāham artham abhīpsāmi na rājyaṃ dvijasattamāḥ |

40.3४०.३

तत् स्थानम् एकम् इच्छामि भुक्तं नान्येन यत् पुरा ॥ (४०।३)

tat sthānam ekam icchāmi bhuktaṃ nānyena yat purā ||

41.1४१.१

एतन् मे क्रियतां सम्यक् कथ्यतां प्राप्यते यथा । (४१।१)

etan me kriyatāṃ samyak kathyatāṃ prāpyate yathā |

41.2४१.२

स्थानम् अग्र्यं समस्तेभ्यः स्थानेभ्यो मुनिसत्तमाः ॥ (४१।२)

sthānam agryaṃ samastebhyaḥ sthānebhyo munisattamāḥ ||

42.1४२.१

मरीचिर् उवाच । (४२।१)

marīcir uvāca

42.2४२.२

अनाराधितगोविन्दैर् नरैः स्थानं नृपात्मज । (४२।२)

anārādhitagovindair naraiḥ sthānaṃ nṛpātmaja |

42.3४२.३

न हि सम्प्राप्यते श्रेष्ठं तस्माद् आराधयाच्युतम् ॥ (४२।३)

na hi samprāpyate śreṣṭhaṃ tasmād ārādhayācyutam ||

43.1४३.१

अत्रिर् उवाच । (४३।१)

atrir uvāca

43.2४३.२

परः पराणां पुरुषो यस्य तुष्टो जनार्दनः । (४३।२)

paraḥ parāṇāṃ puruṣo yasya tuṣṭo janārdanaḥ |

43.3४३.३

स प्राप्नोत्य् अक्षयं स्थानम् एतत् सत्यं मयोदितम् ॥ (४३।३)

sa prāpnoty akṣayaṃ sthānam etat satyaṃ mayoditam ||

44.1४४.१

अङ्गिरा उवाच । (४४।१)

aṅgirā uvāca

44.2४४.२

यस्यान्तः सर्वम् एवेदम् अच्युतस्याव्ययात्मनः । (४४।२)

yasyāntaḥ sarvam evedam acyutasyāvyayātmanaḥ |

44.3४४.३

तम् आराधय गोविन्दं स्थानम् अग्र्यं यदीच्छसि ॥ (४४।३)

tam ārādhaya govindaṃ sthānam agryaṃ yadīcchasi ||

45.1४५.१

पुलस्त्य उवाच । (४५।१)

pulastya uvāca

45.2४५.२

परं ब्रह्म परं धाम यो ऽसौ ब्रह्म तथा परम् । (४५।२)

paraṃ brahma paraṃ dhāma yo 'sau brahma tathā param |

45.3४५.३

तम् आराध्य हरिं याति मुक्तिम् अप्य् अतिदुर्लभाम् ॥ (४५।३)

tam ārādhya hariṃ yāti muktim apy atidurlabhām ||

46.1४६.१

क्रतुर् उवाच । (४६।१)

kratur uvāca

46.2४६.२

यो यज्ञपुरुषो यज्ञे योगे यः परमः पुमान् । (४६।२)

yo yajñapuruṣo yajñe yoge yaḥ paramaḥ pumān |

46.3४६.३

तस्मिंस् तुष्टे यद् अप्राप्यं किं तद् अस्ति जनार्दने ॥ (४६।३)

tasmiṃs tuṣṭe yad aprāpyaṃ kiṃ tad asti janārdane ||

47.1४७.१

पुलह उवाच । (४७।१)

pulaha uvāca

47.2४७.२

ऐन्द्रम् इन्द्रः परं स्थानं यम् आराध्य जगत्पतिम् । (४७।२)

aindram indraḥ paraṃ sthānaṃ yam ārādhya jagatpatim |

47.3४७.३

प्राप यज्ञपतिं विष्णुं तम् आराधय सुव्रत ॥ (४७।३)

prāpa yajñapatiṃ viṣṇuṃ tam ārādhaya suvrata ||

48.1४८.१

वसिष्ठ उवाच । (४८।१)

vasiṣṭha uvāca

48.2४८.२

प्राप्नोष्य् आराधिते विष्णौ मनसा यद् यद् इच्छसि । (४८।२)

prāpnoṣy ārādhite viṣṇau manasā yad yad icchasi |

48.3४८.३

त्रैलोक्यान्तर्गतं स्थानं किमु वत्सोत्तमोत्तमम् ॥ (४८।३)

trailokyāntargataṃ sthānaṃ kimu vatsottamottamam ||

49.1४९.१

ध्रुव उवाच । (४९।१)

dhruva uvāca

49.2४९.२

आराध्यः कथितो देवो भवद्भिः प्रणतस्य मे । (४९।२)

ārādhyaḥ kathito devo bhavadbhiḥ praṇatasya me |

49.3४९.३

मया तत्परितोषाय यज्जप्तव्यं तद् उच्यताम् ॥ (४९।३)

mayā tatparitoṣāya yajjaptavyaṃ tad ucyatām ||

50.1५०.१

यथा चाराधनं तस्य मया कार्यं महात्मनः । (५०।१)

yathā cārādhanaṃ tasya mayā kāryaṃ mahātmanaḥ |

50.2५०.२

प्रसादसुमुखास् तन् मे कथयन्तु महर्षयः ॥ (५०।२)

prasādasumukhās tan me kathayantu maharṣayaḥ ||

51.1५१.१

ऋषय ऊचुः । (५१।१)

ṛṣaya ūcuḥ |

51.2५१.२

राजपुत्र यथा विष्णोर् आराधनपरैर् नरैः । (५१।२)

rājaputra yathā viṣṇor ārādhanaparair naraiḥ |

51.3५१.३

कार्यम् आराधनं तन् नो यथावच्छ्रोतुम् अर्हसि ॥ (५१।३)

kāryam ārādhanaṃ tan no yathāvacchrotum arhasi ||

52.1५२.१

बाह्यार्थाद् अखिलाच्चित्तं त्याजयेत् प्रथमं नरः । (५२।१)

bāhyārthād akhilāccittaṃ tyājayet prathamaṃ naraḥ |

52.2५२.२

तस्मिन्न् एव जगद्धाम्नि ततः कुर्वीत निश्चलम् ॥ (५२।२)

tasminn eva jagaddhāmni tataḥ kurvīta niścalam ||

53.1५३.१

एवम् एकाग्रचित्तेन तन्मयेन धृतात्मना । (५३।१)

evam ekāgracittena tanmayena dhṛtātmanā |

53.2५३.२

जप्तव्यं यन् निबोधैतत् तन् नः पार्थिवनन्दन ॥ (५३।२)

japtavyaṃ yan nibodhaitat tan naḥ pārthivanandana ||

54.1५४.१

हिरण्यगर्भपुरुषप्रधानव्यक्तरूपिणे । (५४।१)

hiraṇyagarbhapuruṣapradhānavyaktarūpiṇe |

54.2५४.२

ॐ नमो वासुदेवाय शुद्धज्ञानस्वभाविने ॥ (५४।२)

oṃ namo vāsudevāya śuddhajñānasvabhāvine ||

55.1५५.१

एतज्जजाप भगवान् जप्यं स्वायम्भुवो मनुः । (५५।१)

etajjajāpa bhagavān japyaṃ svāyambhuvo manuḥ |

55.2५५.२

पितामहस् तव पुरा तस्य तुष्टो जनार्दनः ॥ (५५।२)

pitāmahas tava purā tasya tuṣṭo janārdanaḥ ||

56.1५६.१

ददौ यथाभिलषिताम् ऋद्धिं त्रैलोक्यदुर्लभाम् । (५६।१)

dadau yathābhilaṣitām ṛddhiṃ trailokyadurlabhām |

56.2५६.२

तथा त्वम् अपि गोविन्दं तोषयैतत् सदा जपन् ॥ (५६।२)

tathā tvam api govindaṃ toṣayaitat sadā japan ||

Data courtesy of The Digital Corpus of Sanskrit.

ViPur, 1, 11

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit