ViPur, 5, 26
Select a line for its word-by-word analysis.
भीष्मकः कुण्डिने राजा विदर्भविषये ऽभवत् । (१।२)
bhīṣmakaḥ kuṇḍine rājā vidarbhaviṣaye 'bhavat |
रुक्मी तस्याभवत्पुत्रो रुक्मिणी च वराङ्गना ॥ (१।३)
rukmī tasyābhavatputro rukmiṇī ca varāṅganā ||
न ददौ याचते चैनां रुक्मी द्वेषेण चक्रिणे ॥ (२।२)
na dadau yācate caināṃ rukmī dveṣeṇa cakriṇe ||
भीष्मको रुक्मिणा सार्धं रुक्मिणीमुरुविक्रमः ॥ (३।२)
bhīṣmako rukmiṇā sārdhaṃ rukmiṇīmuruvikramaḥ ||
भीष्मकस्य पुरीं जग्मुः शिशुपालप्रियैषिणः ॥ (४।२)
bhīṣmakasya purīṃ jagmuḥ śiśupālapriyaiṣiṇaḥ ||
कृष्णो ऽपि बलभद्राद्यैर्यादवैर्बहुभिर्वृतः । (५।१)
kṛṣṇo 'pi balabhadrādyairyādavairbahubhirvṛtaḥ |
प्रययौ कुण्डिनं द्रष्टुं विवाहं चेदिभूभृतः ॥ (५।२)
prayayau kuṇḍinaṃ draṣṭuṃ vivāhaṃ cedibhūbhṛtaḥ ||
श्वोभाविनि विवाहे तु तां कन्यां हृतवान्हरिः । (६।१)
śvobhāvini vivāhe tu tāṃ kanyāṃ hṛtavānhariḥ |
ततश्च पौण्ड्रकः श्रीमान्दन्तवक्रो विदूरथः । (७।१)
tataśca pauṇḍrakaḥ śrīmāndantavakro vidūrathaḥ |
कुपितास्ते हरिं हन्तुं चक्रुरुद्योगमुत्तमम् । (८।१)
kupitāste hariṃ hantuṃ cakrurudyogamuttamam |
निर्जिताश्च समागम्य रामाद्यैर्यदुपुंगवैः ॥ (८।२)
nirjitāśca samāgamya rāmādyairyadupuṃgavaiḥ ||
कुण्डिनं न प्रवेक्ष्यामि अहत्वा युधि केशवम् । (९।१)
kuṇḍinaṃ na pravekṣyāmi ahatvā yudhi keśavam |
कृत्वा प्रतिज्ञां रुक्मी च हन्तुं कृष्णमभिद्रुतः ॥ (९।२)
kṛtvā pratijñāṃ rukmī ca hantuṃ kṛṣṇamabhidrutaḥ ||
हत्वा बलं सनागाश्वं पत्तिस्यन्दनसंकुलम् । (१०।१)
hatvā balaṃ sanāgāśvaṃ pattisyandanasaṃkulam |
निर्जितः पातितश्चोर्व्यां लीलयैव स चक्रिणा ॥ (१०।२)
nirjitaḥ pātitaścorvyāṃ līlayaiva sa cakriṇā ||
निर्जित्य रुक्मिणं सम्यगुपयेमे स रुक्मिणीम् । (११।१)
nirjitya rukmiṇaṃ samyagupayeme sa rukmiṇīm |
राक्षसेन विवाहेन सम्प्राप्तां मधुसूदनः ॥ (११।२)
rākṣasena vivāhena samprāptāṃ madhusūdanaḥ ||
तस्यां जज्ञे ऽथ प्रद्युम्नो मदनांशः स वीर्यवान् । (१२।१)
tasyāṃ jajñe 'tha pradyumno madanāṃśaḥ sa vīryavān |
जहार शम्बरो यं वै यो जघान च शम्बरम् ॥ (१२।२)
jahāra śambaro yaṃ vai yo jaghāna ca śambaram ||
Data courtesy of The Digital Corpus of Sanskrit.