विष्णुपुराणViṣṇupurāṇa

ViPur, 1, 10

10 of 126 · 42 verses

Select a line for its word-by-word analysis.

1.1१.१

मैत्रेय उवाच । (१।१)

maitreya uvāca

1.2१.२

कथितं मे त्वया सर्वं यत् पृष्टो ऽसि महामुने । (१।२)

kathitaṃ me tvayā sarvaṃ yat pṛṣṭo 'si mahāmune |

1.3१.३

भृगुसर्गात् प्रभृत्य् एष सर्गो मे कथ्यतां पुनः ॥ (१।३)

bhṛgusargāt prabhṛty eṣa sargo me kathyatāṃ punaḥ ||

2.1२.१

पराशर उवाच । (२।१)

parāśara uvāca

2.2२.२

भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर् विष्णुपरिग्रहः । (२।२)

bhṛgoḥ khyātyāṃ samutpannā lakṣmīr viṣṇuparigrahaḥ |

2.3२.३

तथा धातृविधातारौ ख्यात्यां जातौ सुतौ भृगोः ॥ (२।३)

tathā dhātṛvidhātārau khyātyāṃ jātau sutau bhṛgoḥ ||

3.1३.१

आयतिर् नियतिश् चैव मेरोः कन्ये महात्मनः । (३।१)

āyatir niyatiś caiva meroḥ kanye mahātmanaḥ |

3.2३.२

धातृविधात्रोस् ते भार्ये तयोर् जातौ सुताव् उभौ ॥ (३।२)

dhātṛvidhātros te bhārye tayor jātau sutāv ubhau ||

4.1४.१

प्राणश् चैव मृकण्डुश् च मार्कण्डेयो मृकण्डुतः । (४।१)

prāṇaś caiva mṛkaṇḍuś ca mārkaṇḍeyo mṛkaṇḍutaḥ |

4.2४.२

ततो वेदशिरा जज्ञे प्राणस्यापि सुतं शृणु ॥ (४।२)

tato vedaśirā jajñe prāṇasyāpi sutaṃ śṛṇu ||

5.1५.१

प्राणस्य द्युतिमान् पुत्रो राजवांश् च ततो ऽभवत् । (५।१)

prāṇasya dyutimān putro rājavāṃś ca tato 'bhavat |

5.2५.२

ततो वंशो महाभाग विस्तारं भार्गवो गतः ॥ (५।२)

tato vaṃśo mahābhāga vistāraṃ bhārgavo gataḥ ||

6.1६.१

पत्नी मरीचेः संभूतिः पौर्णमासम् असूयत । (६।१)

patnī marīceḥ saṃbhūtiḥ paurṇamāsam asūyata |

6.2६.२

विरजाः पर्वतश् चैव तस्य पुत्रौ महात्मनः ॥ (६।२)

virajāḥ parvataś caiva tasya putrau mahātmanaḥ ||

7.1७.१

वंशसंकीर्तने पुत्रान् वदिष्ये ऽहं ततो द्विज । (७।१)

vaṃśasaṃkīrtane putrān vadiṣye 'haṃ tato dvija |

7.2७.२

स्मृतिश् चाङ्गिरसः पत्नी प्रसूता कन्यकास् तथा । (७।२)

smṛtiś cāṅgirasaḥ patnī prasūtā kanyakās tathā |

7.3७.३

सिनीवाली कुहूश् चैव राका चानुमती तथा ॥ (७।३)

sinīvālī kuhūś caiva rākā cānumatī tathā ||

8.1८.१

अनसूया तथैवात्रेर् जज्ञे पुत्रान् अकल्मषान् । (८।१)

anasūyā tathaivātrer jajñe putrān akalmaṣān |

8.2८.२

सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् ॥ (८।२)

somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam ||

9.1९.१

प्रीत्यां पुलस्त्यभार्यायां दत्तोलिस् तत्सुतो ऽभवत् । (९।१)

prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat |

9.2९.२

पूर्वजन्मनि सो ऽगस्त्यः स्मृतः स्वायम्भुवे ऽन्तरे ॥ (९।२)

pūrvajanmani so 'gastyaḥ smṛtaḥ svāyambhuve 'ntare ||

10.1१०.१

कर्दमश् चार्वरीवांश् च सहिष्णुश् च सुतत्रयम् । (१०।१)

kardamaś cārvarīvāṃś ca sahiṣṇuś ca sutatrayam |

10.2१०.२

क्षमा तु सुषुवे भार्या पुलहस्य प्रजापतेः ॥ (१०।२)

kṣamā tu suṣuve bhāryā pulahasya prajāpateḥ ||

11.1११.१

क्रतोश् च सन्नतिर् भार्या वालखिल्यान् असूयत । (११।१)

kratoś ca sannatir bhāryā vālakhilyān asūyata |

11.2११.२

षष्टिस् तानि सहस्राणि ऋषीणाम् ऊर्ध्वरेतसाम् । (११।२)

ṣaṣṭis tāni sahasrāṇi ṛṣīṇām ūrdhvaretasām |

11.3११.३

अङ्गुष्ठपर्वमात्राणां ज्वलद्भास्करतेजसाम् ॥ (११।३)

aṅguṣṭhaparvamātrāṇāṃ jvaladbhāskaratejasām ||

12.1१२.१

ऊर्जायां च वसिष्ठस्य सप्ताजायन्त वै सुताः ॥ (१२।१)

ūrjāyāṃ ca vasiṣṭhasya saptājāyanta vai sutāḥ ||

13.1१३.१

रजो गोत्रोर्ध्वबाहुश् च सवनश् चानघस् तथा । (१३।१)

rajo gotrordhvabāhuś ca savanaś cānaghas tathā |

13.2१३.२

सुतपाः शुक्र इत्य् एते सर्वे सप्तर्षयो ऽमलाः ॥ (१३।२)

sutapāḥ śukra ity ete sarve saptarṣayo 'malāḥ ||

14.1१४.१

यो ऽसाव् अग्निर् अभिमानी ब्रह्मणस् तनयो ऽग्रजः । (१४।१)

yo 'sāv agnir abhimānī brahmaṇas tanayo 'grajaḥ |

14.2१४.२

तस्मात् स्वाहा सुतांल्लेभे त्रीन् उदारौजसो द्विज ॥ (१४।२)

tasmāt svāhā sutāṃllebhe trīn udāraujaso dvija ||

15.1१५.१

पावकं पवमानं च शुचिं चापि जलाशिनम् ॥ (१५।१)

pāvakaṃ pavamānaṃ ca śuciṃ cāpi jalāśinam ||

16.1१६.१

तेषां तु संतताव् अन्ये चत्वारिंशच्च पञ्च च । (१६।१)

teṣāṃ tu saṃtatāv anye catvāriṃśacca pañca ca |

16.2१६.२

कथ्यन्ते वह्नयश् चैते पिता पुत्रत्रयं च यत् ॥ (१६।२)

kathyante vahnayaś caite pitā putratrayaṃ ca yat ||

17.1१७.१

एवम् एकोनपञ्चाशद् वह्नयः परिकीर्तिताः ॥ (१७।१)

evam ekonapañcāśad vahnayaḥ parikīrtitāḥ ||

18.1१८.१

पितरो ब्रह्मणा सृष्टा व्याख्याता ये मया तव । (१८।१)

pitaro brahmaṇā sṛṣṭā vyākhyātā ye mayā tava |

18.2१८.२

अग्निष्वात्ता बर्हिषदो ऽनग्नयः साग्नयश् च ये ॥ (१८।२)

agniṣvāttā barhiṣado 'nagnayaḥ sāgnayaś ca ye ||

19.1१९.१

तेभ्यः स्वधा सुते जज्ञे मेनां वै धारिणीं तथा । (१९।१)

tebhyaḥ svadhā sute jajñe menāṃ vai dhāriṇīṃ tathā |

19.2१९.२

ते उभे ब्रह्मवादिन्यौ योगिन्यौ चाप्य् उभे द्विज ॥ (१९।२)

te ubhe brahmavādinyau yoginyau cāpy ubhe dvija ||

20.1२०.१

उत्तमज्ञानसम्पन्ने सर्वैः समुदितैर् गुणैः ॥ (२०।१)

uttamajñānasampanne sarvaiḥ samuditair guṇaiḥ ||

21.1२१.१

इत्य् एषा दक्षकन्यानां कथितापत्यसंततिः । (२१।१)

ity eṣā dakṣakanyānāṃ kathitāpatyasaṃtatiḥ |

21.2२१.२

श्रद्धावान् संस्मरन्न् एताम् अनपत्यो न जायते ॥ (२१।२)

śraddhāvān saṃsmarann etām anapatyo na jāyate ||

Data courtesy of The Digital Corpus of Sanskrit.

ViPur, 1, 10

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit