ViPur, 3, 6
Select a line for its word-by-word analysis.
सुमन्तुस्तस्य पुत्रो ऽभूत्सुकर्मास्याप्यभूत्सुतः । (२।१)
sumantustasya putro 'bhūtsukarmāsyāpyabhūtsutaḥ |
हिरण्यनाभः कौसल्यः पौष्पिञ्जिश्च द्विजोत्तम । (४।१)
hiraṇyanābhaḥ kausalyaḥ pauṣpiñjiśca dvijottama |
उदीच्याः सामगाः शिष्यास्तस्य पञ्चदश स्मृताः ॥ (४।२)
udīcyāḥ sāmagāḥ śiṣyāstasya pañcadaśa smṛtāḥ ||
हिरण्यनाभात्तावत्यः संहिता यैर्द्विजोत्तमैः । (५।१)
hiraṇyanābhāttāvatyaḥ saṃhitā yairdvijottamaiḥ |
गृहीतास्ते ऽपि चोच्यन्ते पण्डितैः प्राच्यसामगाः ॥ (५।२)
gṛhītāste 'pi cocyante paṇḍitaiḥ prācyasāmagāḥ ||
लोकाक्षिः कुथुमिश्चैव कुषीदी लाङ्गलिस्तथा । (६।१)
lokākṣiḥ kuthumiścaiva kuṣīdī lāṅgalistathā |
पौष्पिञ्जिशिष्यास्तद्भेदैः संहिता बहुलीकृताः ॥ (६।२)
pauṣpiñjiśiṣyāstadbhedaiḥ saṃhitā bahulīkṛtāḥ ||
अथर्वणाम् अथो वक्ष्ये संहितानां समुच्चयम् । (८।२)
atharvaṇām atho vakṣye saṃhitānāṃ samuccayam |
शिष्यमध्यापयामास कबन्धं सो ऽपि तं द्विधा । (९।१)
śiṣyamadhyāpayāmāsa kabandhaṃ so 'pi taṃ dvidhā |
कृत्वा तु देवदर्शाय तथा पथ्याय दत्तवान् ॥ (९।२)
kṛtvā tu devadarśāya tathā pathyāya dattavān ||
देवदर्शस्य शिष्यास्तु मौद्गो ब्रह्मबलिस्तथा । (१०।१)
devadarśasya śiṣyāstu maudgo brahmabalistathā |
शौल्कायनिः पिप्पलादस्तथान्यो मुनिसत्तम ॥ (१०।२)
śaulkāyaniḥ pippalādastathānyo munisattama ||
पथ्यस्यापि त्रयः शिष्याः कृता यैर्द्विज संहिताः । (११।१)
pathyasyāpi trayaḥ śiṣyāḥ kṛtā yairdvija saṃhitāḥ |
शौनकस्तु द्विधा कृत्वा ददावेकां तु बभ्रवे । (१२।१)
śaunakastu dvidhā kṛtvā dadāvekāṃ tu babhrave |
द्वितीयां संहितां प्रादात्सैन्धवाय च संज्ञिने ॥ (१२।२)
dvitīyāṃ saṃhitāṃ prādātsaindhavāya ca saṃjñine ||
सैन्धवान्मुञ्जकेशश्च ऽभिनद्वेदं द्विधा पुनः । (१३।१)
saindhavānmuñjakeśaśca 'bhinadvedaṃ dvidhā punaḥ |
नक्षत्रकल्पो वेदानां संहितानां तथैव च ॥ (१३।२)
nakṣatrakalpo vedānāṃ saṃhitānāṃ tathaiva ca ||
चतुर्थः स्यादाङ्गिरसः शान्तिकल्पश्च पञ्चमः । (१४।१)
caturthaḥ syādāṅgirasaḥ śāntikalpaśca pañcamaḥ |
श्रेष्ठास्त्वथर्वणाम् एते संहितानां विकल्पकाः ॥ (१४।२)
śreṣṭhāstvatharvaṇām ete saṃhitānāṃ vikalpakāḥ ||
आख्यानैश्चाप्युपाख्यानैर्गाथाभिः कल्पशुद्धिभिः । (१५।१)
ākhyānaiścāpyupākhyānairgāthābhiḥ kalpaśuddhibhiḥ |
प्रख्यातो व्यासशिष्यो ऽभूत्सूतो वै रोमहर्षणः । (१६।१)
prakhyāto vyāsaśiṣyo 'bhūtsūto vai romaharṣaṇaḥ |
पुराणसंहितां तस्मै ददौ व्यासो महामुनिः ॥ (१६।२)
purāṇasaṃhitāṃ tasmai dadau vyāso mahāmuniḥ ||
सुमतिश्चाग्निवर्चाश्च मित्रायुः शांसपायनः । (१७।१)
sumatiścāgnivarcāśca mitrāyuḥ śāṃsapāyanaḥ |
अकृतव्रणो ऽथ सावर्णिः षट्शिष्यास्तस्य चाभवन् ॥ (१७।२)
akṛtavraṇo 'tha sāvarṇiḥ ṣaṭśiṣyāstasya cābhavan ||
काश्यपः संहिताकर्ता सावर्णिः शांशपायनः । (१८।१)
kāśyapaḥ saṃhitākartā sāvarṇiḥ śāṃśapāyanaḥ |
आद्यं सर्वपुराणानां पुराणं ब्राह्ममुच्यते । (२०।१)
ādyaṃ sarvapurāṇānāṃ purāṇaṃ brāhmamucyate |
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा । (२१।१)
brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā |
तथान्यं नारदीयं च मार्कण्डेयं च सप्तमम् ॥ (२१।२)
tathānyaṃ nāradīyaṃ ca mārkaṇḍeyaṃ ca saptamam ||
दशमं ब्रह्मवैवर्तं लैङ्गमेकादशं स्मृतम् ॥ (२२।२)
daśamaṃ brahmavaivartaṃ laiṅgamekādaśaṃ smṛtam ||
वाराहं द्वादशं चैव स्कान्दं चात्र त्रयोदशम् । (२३।१)
vārāhaṃ dvādaśaṃ caiva skāndaṃ cātra trayodaśam |
चतुर्दशं वामनं च कौर्मं पञ्चदशं स्मृतम् । (२३।२)
caturdaśaṃ vāmanaṃ ca kaurmaṃ pañcadaśaṃ smṛtam |
मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् ॥ (२३।३)
mātsyaṃ ca gāruḍaṃ caiva brahmāṇḍaṃ ca tataḥ param ||
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । (२४।१)
sargaśca pratisargaśca vaṃśo manvantarāṇi ca |
सर्वेष्वेतेषु कथ्यन्ते वंशानुचरितं च यत् ॥ (२४।२)
sarveṣveteṣu kathyante vaṃśānucaritaṃ ca yat ||
एतद्वैष्णवसंज्ञं वै पाद्मस्य समनन्तरम् ॥ (२५।२)
etadvaiṣṇavasaṃjñaṃ vai pādmasya samanantaram ||
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ (२७।२)
purāṇaṃ dharmaśāstraṃ ca vidyā hyetāścaturdaśa ||
आयुर्वेदो धनुर्वेदो गान्धर्वश्चैव ते त्रयः । (२८।१)
āyurvedo dhanurvedo gāndharvaścaiva te trayaḥ |
अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव ताः ॥ (२८।२)
arthaśāstraṃ caturthaṃ tu vidyā hyaṣṭādaśaiva tāḥ ||
ज्ञेया ब्रह्मर्षयः पूर्वं तेभ्यो देवर्षयः पुनः । (२९।१)
jñeyā brahmarṣayaḥ pūrvaṃ tebhyo devarṣayaḥ punaḥ |
इति शाखाः समाख्याताः शाखाभेदास्तथैव च । (३०।१)
iti śākhāḥ samākhyātāḥ śākhābhedāstathaiva ca |
सर्वमन्वन्तरेष्वेवं शाखाभेदाः समाः स्मृताः ॥ (३१।१)
sarvamanvantareṣvevaṃ śākhābhedāḥ samāḥ smṛtāḥ ||
प्राजापत्या श्रुतिर्नित्या तद्विकल्पास्त्विमे द्विज ॥ (३२।१)
prājāpatyā śrutirnityā tadvikalpāstvime dvija ||
एतत्तवोदितं सर्वं यत्पृष्टो ऽहमिह त्वया । (३३।१)
etattavoditaṃ sarvaṃ yatpṛṣṭo 'hamiha tvayā |
मैत्रेय वेदसम्बद्धं किमन्यत्कथयामि ते ॥ (३३।२)
maitreya vedasambaddhaṃ kimanyatkathayāmi te ||
Data courtesy of The Digital Corpus of Sanskrit.