ViPur, 5, 35
Select a line for its word-by-word analysis.
श्रोतुं पराक्रमं ब्रह्मन् तन्ममाख्यातुमर्हसि ॥ (१।३)
śrotuṃ parākramaṃ brahman tanmamākhyātumarhasi ||
मैत्रेय श्रूयतां कर्म यद्रामेणाभवत्कृतम् । (३।२)
maitreya śrūyatāṃ karma yadrāmeṇābhavatkṛtam |
ततः क्रुद्धा महावीर्याः कर्णदुर्योधनादयः । (५।१)
tataḥ kruddhā mahāvīryāḥ karṇaduryodhanādayaḥ |
भीष्मद्रोणादयश्चैनं बबन्धुर्युधि निर्जितम् ॥ (५।२)
bhīṣmadroṇādayaścainaṃ babandhuryudhi nirjitam ||
तच्छ्रुत्वा यादवाः सर्वे क्रोधं दुर्योधनादिषु । (६।१)
tacchrutvā yādavāḥ sarve krodhaṃ duryodhanādiṣu |
मैत्रेय चक्रुश्चक्रुश्च तान्निहन्तुं महोद्यमम् ॥ (६।२)
maitreya cakruścakruśca tānnihantuṃ mahodyamam ||
मोक्ष्यन्ति ते मद्वचनाद्यास्याम्येको हि कौरवान् ॥ (७।२)
mokṣyanti te madvacanādyāsyāmyeko hi kauravān ||
गृहीत्वा विधिवत्सर्वं ततस्तानाह कौरवान् । (१०।१)
gṛhītvā vidhivatsarvaṃ tatastānāha kauravān |
ततस्ते तद्वचः श्रुत्वा भीष्मद्रोणादयो द्विज । (११।१)
tataste tadvacaḥ śrutvā bhīṣmadroṇādayo dvija |
कर्णदुर्योधनाद्याश्च चुक्रुधुर्द्विजसत्तम ॥ (११।२)
karṇaduryodhanādyāśca cukrudhurdvijasattama ||
ऊचुश्च कुपिताः सर्वे बाह्लिकाद्याश्च कौरवाः । (१२।१)
ūcuśca kupitāḥ sarve bāhlikādyāśca kauravāḥ |
अराज्यार्हं यदोर्वंशमवेक्ष्य मुसलायुधम् ॥ (१२।२)
arājyārhaṃ yadorvaṃśamavekṣya musalāyudham ||
आज्ञां कुरुकुलोत्थानां यादवः कः प्रदास्यति ॥ (१३।२)
ājñāṃ kurukulotthānāṃ yādavaḥ kaḥ pradāsyati ||
उग्रसेनो ऽपि यद्याज्ञां कौरवाणां प्रदास्यति । (१४।१)
ugraseno 'pi yadyājñāṃ kauravāṇāṃ pradāsyati |
तदलं पाण्डुरैश्छत्रैर्नृपयोग्यैर्विडम्बितैः ॥ (१४।२)
tadalaṃ pāṇḍuraiśchatrairnṛpayogyairviḍambitaiḥ ||
तद्गच्छ बल मा वा त्वं साम्बमन्यायचेष्टितम् । (१५।१)
tadgaccha bala mā vā tvaṃ sāmbamanyāyaceṣṭitam |
विमोक्ष्यामो न भवतो नोग्रसेनस्य शासनात् ॥ (१५।२)
vimokṣyāmo na bhavato nograsenasya śāsanāt ||
प्रणतिर्या कृतास्माकं मान्यानां कुकुरान्धकैः । (१६।१)
praṇatiryā kṛtāsmākaṃ mānyānāṃ kukurāndhakaiḥ |
ननाम सा कृता केयमाज्ञा स्वामिनि भृत्यतः ॥ (१६।२)
nanāma sā kṛtā keyamājñā svāmini bhṛtyataḥ ||
को दोषो भवतां नीतिर्यत्प्रीत्या नावलोकिता ॥ (१७।२)
ko doṣo bhavatāṃ nītiryatprītyā nāvalokitā ||
प्रेम्णैतन्नैतदस्माकं कुलाद्युष्मत्कुलोचितम् ॥ (१८।२)
premṇaitannaitadasmākaṃ kulādyuṣmatkulocitam ||
इत्युक्त्वा कुरवः सर्वे न मुञ्चामो हरेः सुतम् । (१९।२)
ityuktvā kuravaḥ sarve na muñcāmo hareḥ sutam |
कृतैकनिश्चयास्तूर्णं विविशुर्गजसाह्वयम् ॥ (१९।३)
kṛtaikaniścayāstūrṇaṃ viviśurgajasāhvayam ||
मत्तः कोपेन चाघूर्णस्ततो ऽधिक्षेपजन्मना । (२०।१)
mattaḥ kopena cāghūrṇastato 'dhikṣepajanmanā |
उत्थाय पार्ष्ण्या वसुधां जघान स हलायुधः ॥ (२०।२)
utthāya pārṣṇyā vasudhāṃ jaghāna sa halāyudhaḥ ||
ततो विदारिता पृथ्वी पार्ष्णिघातान्महात्मनः । (२१।१)
tato vidāritā pṛthvī pārṣṇighātānmahātmanaḥ |
उग्रसेनस्य येनाज्ञां मन्यन्ते ऽद्यापि लङ्घनम् ॥ (२३।३)
ugrasenasya yenājñāṃ manyante 'dyāpi laṅghanam ||
आज्ञां प्रतीच्छेद्धर्मेण सह देवैः शचीपतिः । (२४।१)
ājñāṃ pratīccheddharmeṇa saha devaiḥ śacīpatiḥ |
समध्यास्ते सुधर्मां तामुग्रसेनः शचीपतेः ॥ (२४।२)
samadhyāste sudharmāṃ tāmugrasenaḥ śacīpateḥ ||
धिङ् मनुष्यशतोच्छिष्टे तुष्टिरेषां नृपासने । (२५।१)
dhiṅ manuṣyaśatocchiṣṭe tuṣṭireṣāṃ nṛpāsane |
बिभर्ति यस्य भृत्यानां सो ऽप्येषां न महीपतिः ॥ (२५।३)
bibharti yasya bhṛtyānāṃ so 'pyeṣāṃ na mahīpatiḥ ||
अद्य निष्कौरवामुर्वीं कृत्वा यास्यामि तत्पुरीम् ॥ (२६।२)
adya niṣkauravāmurvīṃ kṛtvā yāsyāmi tatpurīm ||
कर्णं दुर्योधनं द्रोणम् अद्य भीष्मं सबाह्लिकम् । (२७।१)
karṇaṃ duryodhanaṃ droṇam adya bhīṣmaṃ sabāhlikam |
सोमदत्तं शलं भीममर्जुनं सयुधिष्ठिरम् । (२८।१)
somadattaṃ śalaṃ bhīmamarjunaṃ sayudhiṣṭhiram |
यमजौ कौरवांश्चान्यान्हत्वा साश्वरथद्विपान् ॥ (२८।२)
yamajau kauravāṃścānyānhatvā sāśvarathadvipān ||
वीरमादाय तं साम्बं सपत्नीकं ततः पुरीम् । (२९।१)
vīramādāya taṃ sāmbaṃ sapatnīkaṃ tataḥ purīm |
द्वारकामुग्रसेनादीन्गत्वा द्रक्ष्यामि बान्धवान् ॥ (२९।२)
dvārakāmugrasenādīngatvā drakṣyāmi bāndhavān ||
भागीरथ्यां क्षिपाम्याशु नगरं नागसाह्वयम् ॥ (३०।२)
bhāgīrathyāṃ kṣipāmyāśu nagaraṃ nāgasāhvayam ||
इत्युक्त्वा मदरक्ताक्षः कर्षणाधोमुखं हलम् । (३१।२)
ityuktvā madaraktākṣaḥ karṣaṇādhomukhaṃ halam |
दृष्ट्वा संक्षुब्धहृदयाश्चुक्रुशुः सर्वकौरवाः ॥ (३२।२)
dṛṣṭvā saṃkṣubdhahṛdayāścukruśuḥ sarvakauravāḥ ||
राम राम महाबाहो क्षम्यतां क्षम्यतां त्वया । (३३।१)
rāma rāma mahābāho kṣamyatāṃ kṣamyatāṃ tvayā |
ततो निर्यातयामासुः साम्बं पत्न्या समन्वितम् । (३५।२)
tato niryātayāmāsuḥ sāmbaṃ patnyā samanvitam |
निष्क्रम्य स्वपुरात्तूर्णं कौरवा मुनिपुंगव ॥ (३५।३)
niṣkramya svapurāttūrṇaṃ kauravā munipuṃgava ||
भीष्मद्रोणकृपादीनां प्रणम्य वदतां प्रियम् । (३६।१)
bhīṣmadroṇakṛpādīnāṃ praṇamya vadatāṃ priyam |
अद्याप्याघूर्णिताकारं लक्ष्यते तत्पुरं द्विज । (३७।१)
adyāpyāghūrṇitākāraṃ lakṣyate tatpuraṃ dvija |
ततस्तु कौरवाः साम्बं सम्पूज्य हलिना सह । (३८।१)
tatastu kauravāḥ sāmbaṃ sampūjya halinā saha |
Data courtesy of The Digital Corpus of Sanskrit.