विष्णुपुराणViṣṇupurāṇa

ViPur, 3, 12

50 of 126 · 91 verses

Select a line for its word-by-word analysis.

1.1१.१

और्व उवाच । (१।१)

aurva uvāca

1.2१.२

देवगोब्राह्मणान् सिद्धवृद्धाचार्यांस्तथार्चयेत् । (१।२)

devagobrāhmaṇān siddhavṛddhācāryāṃstathārcayet |

1.3१.३

द्विकालं च नमेत्संध्याम् अग्नीनुपचरेत्तथा ॥ (१।३)

dvikālaṃ ca nametsaṃdhyām agnīnupacarettathā ||

2.1२.१

सदानुपहते वस्त्रे प्रशस्ताश्च तथौषधीः । (२।१)

sadānupahate vastre praśastāśca tathauṣadhīḥ |

2.2२.२

गारुडानि च रत्नानि बिभृयात्प्रयतो नरः ॥ (२।२)

gāruḍāni ca ratnāni bibhṛyātprayato naraḥ ||

3.1३.१

प्रस्निग्धामलकेशश्च सुगन्धश्चारुवेषधृक् । (३।१)

prasnigdhāmalakeśaśca sugandhaścāruveṣadhṛk |

3.2३.२

सिताः सुमनसो हृद्या बिभृयाच्च नरः सदा ॥ (३।२)

sitāḥ sumanaso hṛdyā bibhṛyācca naraḥ sadā ||

4.1४.१

किंचित्परस्वं न हरेन्नाल्पमप्यप्रियं वदेत् । (४।१)

kiṃcitparasvaṃ na harennālpamapyapriyaṃ vadet |

4.2४.२

प्रियं च नानृतं ब्रूयान्नान्यदोषानुदीरयेत् ॥ (४।२)

priyaṃ ca nānṛtaṃ brūyānnānyadoṣānudīrayet ||

5.1५.१

नान्यस्त्रियं तथा वैरं रोचयेत्पुरुषेश्वर । (५।१)

nānyastriyaṃ tathā vairaṃ rocayetpuruṣeśvara |

5.2५.२

न दुष्टयानमारोहेत् कूलच्छायां न संश्रयेत् ॥ (५।२)

na duṣṭayānamārohet kūlacchāyāṃ na saṃśrayet ||

6.1६.१

विद्विष्टपतितोन्मत्तबहुवैरादिकीटकैः । (६।१)

vidviṣṭapatitonmattabahuvairādikīṭakaiḥ |

6.2६.२

बन्धकीबन्धकीभर्तृक्षुद्रानृतकथैः सह ॥ (६।२)

bandhakībandhakībhartṛkṣudrānṛtakathaiḥ saha ||

7.1७.१

तथातिव्ययशीलैश्च परिवादरतैः शठैः । (७।१)

tathātivyayaśīlaiśca parivādarataiḥ śaṭhaiḥ |

7.2७.२

बुधो मैत्रीं न कुर्वीत नैकः पन्थानमाश्रयेत् ॥ (७।२)

budho maitrīṃ na kurvīta naikaḥ panthānamāśrayet ||

8.1८.१

नावगाहेज्जलौघस्य वेगमग्रे नरेश्वर । (८।१)

nāvagāhejjalaughasya vegamagre nareśvara |

8.2८.२

प्रदीप्तं वेश्म न विशेन्नारोहेच्छिखरं तरोः ॥ (८।२)

pradīptaṃ veśma na viśennārohecchikharaṃ taroḥ ||

9.1९.१

न कुर्याद्दन्तसंघर्षं न कुष्णीयाच्च नासिकाम् । (९।१)

na kuryāddantasaṃgharṣaṃ na kuṣṇīyācca nāsikām |

9.2९.२

नासंवृतमुखो जृम्भेच्छ्वासकासौ च वर्जयेत् ॥ (९।२)

nāsaṃvṛtamukho jṛmbhecchvāsakāsau ca varjayet ||

10.1१०.१

नोच्चैर्हसेत् सशब्दं च न मुञ्चेत्पवनं बुधः । (१०।१)

noccairhaset saśabdaṃ ca na muñcetpavanaṃ budhaḥ |

10.2१०.२

नखान्न खादयेच्छिन्द्यान्न तृणं न महीं लिखेत् ॥ (१०।२)

nakhānna khādayecchindyānna tṛṇaṃ na mahīṃ likhet ||

11.1११.१

न श्मश्रु भक्षयेल्लोष्टं न मृद्नीयाद्विचक्षणः । (११।१)

na śmaśru bhakṣayelloṣṭaṃ na mṛdnīyādvicakṣaṇaḥ |

11.2११.२

ज्योतींष्यमेध्यः शस्तानि नाभिवीक्षेत च प्रभो ॥ (११।२)

jyotīṃṣyamedhyaḥ śastāni nābhivīkṣeta ca prabho ||

12.1१२.१

नग्नां परस्त्रियं चैव सूर्यं चास्तमनोदये । (१२।१)

nagnāṃ parastriyaṃ caiva sūryaṃ cāstamanodaye |

12.2१२.२

न हुंकुर्याच्छवं चैव शवगन्धो हि सोमजः ॥ (१२।२)

na huṃkuryācchavaṃ caiva śavagandho hi somajaḥ ||

13.1१३.१

चतुष्पथं चैत्यतरुं श्मशानोपवनानि च । (१३।१)

catuṣpathaṃ caityataruṃ śmaśānopavanāni ca |

13.2१३.२

दुष्टस्त्रीसंनिकर्षं च वर्जयेन्निशि सर्वदा ॥ (१३।२)

duṣṭastrīsaṃnikarṣaṃ ca varjayenniśi sarvadā ||

14.1१४.१

पूज्यदेवद्विजज्योतिश्छायां नातिक्रमेद्बुधः । (१४।१)

pūjyadevadvijajyotiśchāyāṃ nātikramedbudhaḥ |

14.2१४.२

नैकः शून्याटवीं गच्छेन्न च शून्यगृहे वसेत् ॥ (१४।२)

naikaḥ śūnyāṭavīṃ gacchenna ca śūnyagṛhe vaset ||

15.1१५.१

केशास्थिकण्टकामेध्यबलिभस्मतुषांस्तथा । (१५।१)

keśāsthikaṇṭakāmedhyabalibhasmatuṣāṃstathā |

15.2१५.२

स्नानार्द्रधरणीं चैव दूरतः परिवर्जयेत् ॥ (१५।२)

snānārdradharaṇīṃ caiva dūrataḥ parivarjayet ||

16.1१६.१

नानार्यानाश्रयेत् कांश्चिन्न जिह्मं रोचयेद्बुधः । (१६।१)

nānāryānāśrayet kāṃścinna jihmaṃ rocayedbudhaḥ |

16.2१६.२

उपसर्पेत न व्यालांश्चिरं तिष्ठेन्न चोत्थितः ॥ (१६।२)

upasarpeta na vyālāṃściraṃ tiṣṭhenna cotthitaḥ ||

17.1१७.१

अतीव जागरस्वप्ने तद्वत्स्थानासने बुधः । (१७।१)

atīva jāgarasvapne tadvatsthānāsane budhaḥ |

17.2१७.२

न सेवेत तथा शय्यां व्यायामं च नरेश्वर ॥ (१७।२)

na seveta tathā śayyāṃ vyāyāmaṃ ca nareśvara ||

18.1१८.१

दंष्ट्रिणः शृङ्गिणश्चैव प्राज्ञो दूरेण वर्जयेत् । (१८।१)

daṃṣṭriṇaḥ śṛṅgiṇaścaiva prājño dūreṇa varjayet |

18.2१८.२

अवश्यायं च राजेन्द्र पुरो वातातपौ तथा ॥ (१८।२)

avaśyāyaṃ ca rājendra puro vātātapau tathā ||

19.1१९.१

न स्नायान्न स्वपेन्नग्नो न चैवोपस्पृशेद्बुधः । (१९।१)

na snāyānna svapennagno na caivopaspṛśedbudhaḥ |

19.2१९.२

मुक्तकच्छश्च नाचामेद्देवाद्यर्चां च वर्जयेत् ॥ (१९।२)

muktakacchaśca nācāmeddevādyarcāṃ ca varjayet ||

20.1२०.१

होमदेवार्चनाद्यासु क्रियास्वाचमने तथा । (२०।१)

homadevārcanādyāsu kriyāsvācamane tathā |

20.2२०.२

नैकवस्त्रः प्रवर्तेत द्विजवाचनके जपे ॥ (२०।२)

naikavastraḥ pravarteta dvijavācanake jape ||

21.1२१.१

नासमञ्जसशीलैस्तु सहासीत कदाचन । (२१।१)

nāsamañjasaśīlaistu sahāsīta kadācana |

21.2२१.२

सद्वृत्तसंनिकर्षो हि क्षणार्धम् अपि शस्यते ॥ (२१।२)

sadvṛttasaṃnikarṣo hi kṣaṇārdham api śasyate ||

22.1२२.१

विरोधं नोत्तमैर्गच्छेन्नाधमैश् च सदा बुधः । (२२।१)

virodhaṃ nottamairgacchennādhamaiś ca sadā budhaḥ |

22.2२२.२

विवाहश्च विवादश्च तुल्यशीलैर्नृपेष्यते ॥ (२२।२)

vivāhaśca vivādaśca tulyaśīlairnṛpeṣyate ||

23.1२३.१

नारभेत कलिं प्राज्ञः शुष्कवैरं च वर्जयेत् । (२३।१)

nārabheta kaliṃ prājñaḥ śuṣkavairaṃ ca varjayet |

23.2२३.२

अप्यल्पहानिः सोढव्या वैरेणार्थागमं त्यजेत् ॥ (२३।२)

apyalpahāniḥ soḍhavyā vaireṇārthāgamaṃ tyajet ||

24.1२४.१

स्नातो नाङ्गानि निर्मार्जेत् स्नानशाट्या न पाणिना । (२४।१)

snāto nāṅgāni nirmārjet snānaśāṭyā na pāṇinā |

24.2२४.२

न च निर्धूनयेत् केशान्नाचामेच्चैव चोत्थितः ॥ (२४।२)

na ca nirdhūnayet keśānnācāmeccaiva cotthitaḥ ||

25.1२५.१

पादेन नाक्रमेत् पादं न पूज्याभिमुखं नयेत् । (२५।१)

pādena nākramet pādaṃ na pūjyābhimukhaṃ nayet |

25.2२५.२

वीरासनं गुरोरग्रे भजेत विनयान्वितः ॥ (२५।२)

vīrāsanaṃ guroragre bhajeta vinayānvitaḥ ||

26.1२६.१

अपसव्यं न गच्छेच्च देवागारचतुष्पथान् । (२६।१)

apasavyaṃ na gacchecca devāgāracatuṣpathān |

26.2२६.२

माङ्गल्यपूज्यांश्च ततो विपरीतान्न दक्षिणम् ॥ (२६।२)

māṅgalyapūjyāṃśca tato viparītānna dakṣiṇam ||

27.1२७.१

सोमाग्न्यर्काम्बुवायूनां पूज्यानां च न संमुखम् । (२७।१)

somāgnyarkāmbuvāyūnāṃ pūjyānāṃ ca na saṃmukham |

27.2२७.२

कुर्यात् ष्ठीवनविण्मूत्रसमुत्सर्गं च पण्डितः ॥ (२७।२)

kuryāt ṣṭhīvanaviṇmūtrasamutsargaṃ ca paṇḍitaḥ ||

28.1२८.१

तिष्ठन्न मूत्रयेत्तद्वत्पन्थानं नावमूत्रयेत् । (२८।१)

tiṣṭhanna mūtrayettadvatpanthānaṃ nāvamūtrayet |

28.2२८.२

श्लेष्मविण्मूत्ररक्तानि सर्वदैव न लङ्घयेत् ॥ (२८।२)

śleṣmaviṇmūtraraktāni sarvadaiva na laṅghayet ||

29.1२९.१

श्लेष्मसिंहानकोत्सर्गो नान्नकाले प्रशस्यते । (२९।१)

śleṣmasiṃhānakotsargo nānnakāle praśasyate |

29.2२९.२

बलिमङ्गलजप्यादौ न होमे न महाजने ॥ (२९।२)

balimaṅgalajapyādau na home na mahājane ||

30.1३०.१

योषितो नावमन्येत न चासां विश्वसेद्बुधः । (३०।१)

yoṣito nāvamanyeta na cāsāṃ viśvasedbudhaḥ |

30.2३०.२

न चैवेर्ष्युर्भवेत् तासु नाधिकुर्यात्कदाचन ॥ (३०।२)

na caiverṣyurbhavet tāsu nādhikuryātkadācana ||

31.1३१.१

मङ्गल्यपुष्परत्नाज्यपूज्यान् अनभिवाद्य च । (३१।१)

maṅgalyapuṣparatnājyapūjyān anabhivādya ca |

31.2३१.२

न निष्क्रमेद्गृहात्प्राज्ञः सदाचारपरो नृपः ॥ (३१।२)

na niṣkramedgṛhātprājñaḥ sadācāraparo nṛpaḥ ||

32.1३२.१

चतुष्पथान्नमस्कुर्यात् काले होमपरो भवेत् । (३२।१)

catuṣpathānnamaskuryāt kāle homaparo bhavet |

32.2३२.२

दीनानभ्युद्धरेत्साधूनुपासीत बहुश्रुतान् ॥ (३२।२)

dīnānabhyuddharetsādhūnupāsīta bahuśrutān ||

33.1३३.१

देवर्षिपूजकः सम्यक्पितृपिण्डोदकप्रदः । (३३।१)

devarṣipūjakaḥ samyakpitṛpiṇḍodakapradaḥ |

33.2३३.२

सत्कर्ता चातिथीनां यः स लोकानुत्तमान्व्रजेत् ॥ (३३।२)

satkartā cātithīnāṃ yaḥ sa lokānuttamānvrajet ||

34.1३४.१

हितं मितं प्रियं काले वश्यात्मा यो ऽभिभाषते । (३४।१)

hitaṃ mitaṃ priyaṃ kāle vaśyātmā yo 'bhibhāṣate |

34.2३४.२

स याति लोकानाह्लादहेतुभूतान्नृपाक्षयान् ॥ (३४।२)

sa yāti lokānāhlādahetubhūtānnṛpākṣayān ||

35.1३५.१

धीमान्ह्रीमान्क्षमायुक्त आस्तिको विनयान्वितः । (३५।१)

dhīmānhrīmānkṣamāyukta āstiko vinayānvitaḥ |

35.2३५.२

विद्याभिजनवृद्धानां याति लोकाननुत्तमान् ॥ (३५।२)

vidyābhijanavṛddhānāṃ yāti lokānanuttamān ||

36.1३६.१

अकालगर्जितादौ तु पर्वस्वाशौचकादिषु । (३६।१)

akālagarjitādau tu parvasvāśaucakādiṣu |

36.2३६.२

अनध्यायं बुधः कुर्यादुपरागादिके तथा ॥ (३६।२)

anadhyāyaṃ budhaḥ kuryāduparāgādike tathā ||

37.1३७.१

शमं नयति यः क्रुद्धान्सर्वबन्धुरमत्सरी । (३७।१)

śamaṃ nayati yaḥ kruddhānsarvabandhuramatsarī |

37.2३७.२

भीताश्वासनकृत् साधुः स्वर्गस्तस्याल्पकं फलम् ॥ (३७।२)

bhītāśvāsanakṛt sādhuḥ svargastasyālpakaṃ phalam ||

38.1३८.१

वर्षातपादिके छत्त्री दण्डी रात्र्यटवीषु च । (३८।१)

varṣātapādike chattrī daṇḍī rātryaṭavīṣu ca |

38.2३८.२

शरीरत्राणकामो वै सोपानत्कः सदा व्रजेत् ॥ (३८।२)

śarīratrāṇakāmo vai sopānatkaḥ sadā vrajet ||

39.1३९.१

नोर्ध्वं न तिर्यग्दूरं वा निरीक्षन्पर्यटेद्बुधः । (३९।१)

nordhvaṃ na tiryagdūraṃ vā nirīkṣanparyaṭedbudhaḥ |

39.2३९.२

युगमात्रं महीपृष्ठं नरो गच्छेद्विलोकयन् ॥ (३९।२)

yugamātraṃ mahīpṛṣṭhaṃ naro gacchedvilokayan ||

40.1४०.१

दोषहेतूनशेषांश्च वश्यात्मा यो निरस्यति । (४०।१)

doṣahetūnaśeṣāṃśca vaśyātmā yo nirasyati |

40.2४०.२

तस्य धर्मार्थकामानां हानिर्नाल्पापि जायते ॥ (४०।२)

tasya dharmārthakāmānāṃ hānirnālpāpi jāyate ||

41.1४१.१

पापे ऽप्यपापः पुरुषे ऽप्यभिधत्ते प्रियाणि यः । (४१।१)

pāpe 'pyapāpaḥ puruṣe 'pyabhidhatte priyāṇi yaḥ |

41.2४१.२

मैत्रीद्रवान्तःकरणस्तस्य मुक्तिः करे स्थिता ॥ (४१।२)

maitrīdravāntaḥkaraṇastasya muktiḥ kare sthitā ||

42.1४२.१

ये कामक्रोधलोभानां वीतरागा न गोचरे । (४२।१)

ye kāmakrodhalobhānāṃ vītarāgā na gocare |

42.2४२.२

सदाचारस्थितास्तेषाम् अनुभावैर्धृता मही ॥ (४२।२)

sadācārasthitāsteṣām anubhāvairdhṛtā mahī ||

43.1४३.१

तस्मात्सत्यं वदेत्प्राज्ञो यत्परप्रीतिकारणम् । (४३।१)

tasmātsatyaṃ vadetprājño yatparaprītikāraṇam |

43.2४३.२

सत्यं यत्परदुःखाय तत्र मौनपरो भवेत् ॥ (४३।२)

satyaṃ yatparaduḥkhāya tatra maunaparo bhavet ||

44.1४४.१

प्रियमुक्तं हितं नैतदिति मत्वा न तद्वदेत् । (४४।१)

priyamuktaṃ hitaṃ naitaditi matvā na tadvadet |

44.2४४.२

श्रेयस्तत्र हितं वाक्यं यद्यप्यत्यन्तमप्रियम् ॥ (४४।२)

śreyastatra hitaṃ vākyaṃ yadyapyatyantamapriyam ||

45.1४५.१

प्राणिनामुपकाराय यदेवेह परत्र च । (४५।१)

prāṇināmupakārāya yadeveha paratra ca |

45.2४५.२

कर्मणा मनसा वाचा तदेव मतिमान्भजेत् ॥ (४५।२)

karmaṇā manasā vācā tadeva matimānbhajet ||

Data courtesy of The Digital Corpus of Sanskrit.

ViPur, 3, 12

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit