ViPur, 3, 10
Select a line for its word-by-word analysis.
कथितं चातुराश्रम्यं चातुर्वर्ण्यक्रियास्तथा । (१।२)
kathitaṃ cāturāśramyaṃ cāturvarṇyakriyāstathā |
पुंसः क्रियामहं श्रोतुमिच्छामि द्विजसत्तम ॥ (१।३)
puṃsaḥ kriyāmahaṃ śrotumicchāmi dvijasattama ||
नित्यां नैमित्तिकीं काम्यां क्रियां पुंसामशेषतः । (२।१)
nityāṃ naimittikīṃ kāmyāṃ kriyāṃ puṃsāmaśeṣataḥ |
समाख्याहि भृगुश्रेष्ठ सर्वज्ञो ह्यसि मे मतः ॥ (२।२)
samākhyāhi bhṛguśreṣṭha sarvajño hyasi me mataḥ ||
पुत्रस्य कुर्वीत पिता श्राद्धं चाभ्युदयात्मकम् ॥ (४।२)
putrasya kurvīta pitā śrāddhaṃ cābhyudayātmakam ||
युग्मांस्तु प्राङ्मुखान्विप्रान्भोजयेन्मनुजेश्वर । (५।१)
yugmāṃstu prāṅmukhānviprānbhojayenmanujeśvara |
यथावृत्ति तथा कुर्याद्दैवं पित्र्यं द्विजन्मनाम् ॥ (५।२)
yathāvṛtti tathā kuryāddaivaṃ pitryaṃ dvijanmanām ||
दध्ना यवैः सबदरैर्मिश्रान्पिण्डान्मुदा युतः । (६।१)
dadhnā yavaiḥ sabadarairmiśrānpiṇḍānmudā yutaḥ |
नान्दीमुखेभ्यस्तीर्थेन दद्याद्दैवेन पार्थिव ॥ (६।२)
nāndīmukhebhyastīrthena dadyāddaivena pārthiva ||
देवपूर्वं नराख्यं हि शर्मवर्मादिसंयुतम् ॥ (८।२)
devapūrvaṃ narākhyaṃ hi śarmavarmādisaṃyutam ||
शर्मेति ब्राह्मणस्योक्तं वर्मेति क्षत्रसंश्रयम् । (९।१)
śarmeti brāhmaṇasyoktaṃ varmeti kṣatrasaṃśrayam |
गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ॥ (९।२)
guptadāsātmakaṃ nāma praśastaṃ vaiśyaśūdrayoḥ ||
नामङ्गल्यं जुगुप्स्यं वा नाम कुर्यात्समाक्षरम् ॥ (१०।२)
nāmaṅgalyaṃ jugupsyaṃ vā nāma kuryātsamākṣaram ||
नातिदीर्घं न ह्रस्वं वा नातिगुर्वक्षरान्वितम् । (११।१)
nātidīrghaṃ na hrasvaṃ vā nātigurvakṣarānvitam |
सुखोच्चार्यं तु तन्नाम कुर्याद्यत्प्रवणाक्षरम् ॥ (११।२)
sukhoccāryaṃ tu tannāma kuryādyatpravaṇākṣaram ||
यथोक्तं विधिमाश्रित्य कुर्याद्विद्यापरिग्रहम् ॥ (१२।२)
yathoktaṃ vidhimāśritya kuryādvidyāparigraham ||
गृहीतविद्यो गुरवे दत्त्वा च गुरुदक्षिणाम् । (१३।१)
gṛhītavidyo gurave dattvā ca gurudakṣiṇām |
गार्हस्थ्यमिच्छन्भूपाल कुर्याद्दारपरिग्रहम् ॥ (१३।२)
gārhasthyamicchanbhūpāla kuryāddāraparigraham ||
ब्रह्मचर्येण वा कालं कुर्यात्संकल्पपूर्वकम् । (१४।१)
brahmacaryeṇa vā kālaṃ kuryātsaṃkalpapūrvakam |
गुरोः शुश्रूषणं कुर्यात्तत्पुत्रादेरथापि वा ॥ (१४।२)
guroḥ śuśrūṣaṇaṃ kuryāttatputrāderathāpi vā ||
पूर्वसंकल्पितं यादृक् तादृक् कुर्यान्महीपते ॥ (१५।२)
pūrvasaṃkalpitaṃ yādṛk tādṛk kuryānmahīpate ||
वर्षैरेकगुणां भार्यामुद्वहेत्त्रिगुणः स्वयम् । (१६।१)
varṣairekaguṇāṃ bhāryāmudvahettriguṇaḥ svayam |
नातिकेशामकेशां वा नातिकृष्णां न पिङ्गलाम् ॥ (१६।२)
nātikeśāmakeśāṃ vā nātikṛṣṇāṃ na piṅgalām ||
निसर्गतो विकलाङ्गीमधिकाङ्गीं च नोद्वहेत् । (१७।१)
nisargato vikalāṅgīmadhikāṅgīṃ ca nodvahet |
नाविशुद्धां सरोमां वा ऽकुलजां वातिरोगिणीम् ॥ (१७।२)
nāviśuddhāṃ saromāṃ vā 'kulajāṃ vātirogiṇīm ||
न दुष्टां दुष्टवाचालां व्यङ्गिनीं पितृमातृतः । (१८।१)
na duṣṭāṃ duṣṭavācālāṃ vyaṅginīṃ pitṛmātṛtaḥ |
न श्मश्रुव्यञ्जनवतीं न चैव पुरुषाकृतिम् ॥ (१८।२)
na śmaśruvyañjanavatīṃ na caiva puruṣākṛtim ||
न घर्घरस्वरां क्षामवाक्यां काकस्वरां न च । (१९।१)
na ghargharasvarāṃ kṣāmavākyāṃ kākasvarāṃ na ca |
नातिबद्धेक्षणां तद्वद्वृत्ताक्षीं नोद्वहेत्स्त्रियम् ॥ (१९।२)
nātibaddhekṣaṇāṃ tadvadvṛttākṣīṃ nodvahetstriyam ||
यस्याश्च लोमशे जङ्घे गुल्फौ यस्यास्तथोन्नतौ । (२०।१)
yasyāśca lomaśe jaṅghe gulphau yasyāstathonnatau |
कूपो यस्या हसन्त्याश्च गण्डयोस्तां च नोद्वहेत् ॥ (२०।२)
kūpo yasyā hasantyāśca gaṇḍayostāṃ ca nodvahet ||
नातिरूक्षच्छविं पाण्डुकरजाम् अरुणेक्षणाम् । (२१।१)
nātirūkṣacchaviṃ pāṇḍukarajām aruṇekṣaṇām |
न वामनां नातिदीर्घां नोद्वहेत्संहतभ्रुवम् । (२२।१)
na vāmanāṃ nātidīrghāṃ nodvahetsaṃhatabhruvam |
पञ्चमीं मातृपक्षाच्च पितृपक्षाच्च सप्तमीम् । (२३।१)
pañcamīṃ mātṛpakṣācca pitṛpakṣācca saptamīm |
गृहस्थस्तूद्वहेत्कन्यां न्याय्येन विधिना नृप ॥ (२३।२)
gṛhasthastūdvahetkanyāṃ nyāyyena vidhinā nṛpa ||
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः । (२४।१)
brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ |
गान्धर्वराक्षसौ चान्यौ पैशाचश्चाष्टमो ऽधमः ॥ (२४।२)
gāndharvarākṣasau cānyau paiśācaścāṣṭamo 'dhamaḥ ||
एतेषां यस्य यो धर्मो वर्णस्योक्तो महर्षिभिः । (२५।१)
eteṣāṃ yasya yo dharmo varṇasyokto maharṣibhiḥ |
सधर्मचारिणीं प्राप्य गार्हस्थ्यं सहितस्तया । (२६।१)
sadharmacāriṇīṃ prāpya gārhasthyaṃ sahitastayā |
समुद्वहेद् ददात्येतत्सम्यगूढं महाफलम् ॥ (२६।२)
samudvahed dadātyetatsamyagūḍhaṃ mahāphalam ||
Data courtesy of The Digital Corpus of Sanskrit.