विष्णुपुराणViṣṇupurāṇa

ViPur, 2, 1

23 of 126 · 88 verses

Select a line for its word-by-word analysis.

1.1१.१

मैत्रेय उवाच । (१।१)

maitreya uvāca

1.2१.२

भगवन् सर्वम् आख्यातं ममैतद् अखिलं त्वया । (१।२)

bhagavan sarvam ākhyātaṃ mamaitad akhilaṃ tvayā |

1.3१.३

जगतः सर्गसंबन्धि यत् पृष्टो ऽसि गुरो मया ॥ (१।३)

jagataḥ sargasaṃbandhi yat pṛṣṭo 'si guro mayā ||

2.1२.१

यो ऽयम् अंशो जगत्सृष्टिसंबन्धो गदितस् त्वया । (२।१)

yo 'yam aṃśo jagatsṛṣṭisaṃbandho gaditas tvayā |

2.2२.२

तत्राहं श्रोतुम् इच्छामि भूयो ऽपि मुनिसत्तम ॥ (२।२)

tatrāhaṃ śrotum icchāmi bhūyo 'pi munisattama ||

3.1३.१

प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य यौ । (३।१)

priyavratottānapādau sutau svāyambhuvasya yau |

3.2३.२

तयोर् उत्तानपादस्य ध्रुवः पुत्रस् त्वयोदितः ॥ (३।२)

tayor uttānapādasya dhruvaḥ putras tvayoditaḥ ||

4.1४.१

प्रियव्रतस्य नैवोक्ता भवता द्विज संततिः । (४।१)

priyavratasya naivoktā bhavatā dvija saṃtatiḥ |

4.2४.२

ताम् अहं श्रोतुम् इच्छामि प्रसन्नो वक्तुम् अर्हसि ॥ (४।२)

tām ahaṃ śrotum icchāmi prasanno vaktum arhasi ||

5.1५.१

पराशर उवाच । (५।१)

parāśara uvāca

5.2५.२

कर्दमस्यात्मजां कन्याम् उपयेमे प्रियव्रतः । (५।२)

kardamasyātmajāṃ kanyām upayeme priyavrataḥ |

5.3५.३

सम्राट् कुक्षिश् च तत्कन्ये दशपुत्रास् तथापरे ॥ (५।३)

samrāṭ kukṣiś ca tatkanye daśaputrās tathāpare ||

6.1६.१

महाप्रज्ञा महावीर्या विनीता दयिताः पितुः । (६।१)

mahāprajñā mahāvīryā vinītā dayitāḥ pituḥ |

6.2६.२

प्रियव्रतसुताः ख्यातास् तेषां नामानि मे शृणु ॥ (६।२)

priyavratasutāḥ khyātās teṣāṃ nāmāni me śṛṇu ||

7.1७.१

आग्नीध्रश् चाग्निबाहुश् च वपुष्मान् द्युतिमांस् तथा । (७।१)

āgnīdhraś cāgnibāhuś ca vapuṣmān dyutimāṃs tathā |

7.2७.२

मेधा मेधातिथिर् भव्यः सवनः पुत्र एव च ॥ (७।२)

medhā medhātithir bhavyaḥ savanaḥ putra eva ca ||

8.1८.१

ज्योतिष्मान् दशमस् तेषां सत्यनामा सुतो ऽभवत् । (८।१)

jyotiṣmān daśamas teṣāṃ satyanāmā suto 'bhavat |

8.2८.२

प्रियव्रतस्य पुत्राणां प्रख्याता बलवीर्यतः ॥ (८।२)

priyavratasya putrāṇāṃ prakhyātā balavīryataḥ ||

9.1९.१

मेधाग्निबाहुपुत्रास् तु त्रयो योगपरायणाः । (९।१)

medhāgnibāhuputrās tu trayo yogaparāyaṇāḥ |

9.2९.२

जातिस्मरा महाभागा न राज्याय मनो दधुः ॥ (९।२)

jātismarā mahābhāgā na rājyāya mano dadhuḥ ||

10.1१०.१

निर्ममाः सर्वकालं तु समस्तार्थेषु वै मुने । (१०।१)

nirmamāḥ sarvakālaṃ tu samastārtheṣu vai mune |

10.2१०.२

चक्रुः क्रिया यथान्यायम् अफलाकाङ्क्षिणो हि ते ॥ (१०।२)

cakruḥ kriyā yathānyāyam aphalākāṅkṣiṇo hi te ||

11.1११.१

प्रियव्रतो ददौ तेषां सप्तानां मुनिसत्तम । (११।१)

priyavrato dadau teṣāṃ saptānāṃ munisattama |

11.2११.२

विभज्य सप्त द्वीपानि मैत्रेय सुमहात्मनाम् ॥ (११।२)

vibhajya sapta dvīpāni maitreya sumahātmanām ||

12.1१२.१

जम्बूद्वीपं महाभाग सो ऽग्नीध्राय ददौ पिता । (१२।१)

jambūdvīpaṃ mahābhāga so 'gnīdhrāya dadau pitā |

12.2१२.२

मेधातिथेस् तथा प्रादात् प्लक्षद्वीपम् अथापरम् ॥ (१२।२)

medhātithes tathā prādāt plakṣadvīpam athāparam ||

13.1१३.१

शाल्मले च वपुष्मन्तं नरेन्द्रम् अभिषिक्तवान् । (१३।१)

śālmale ca vapuṣmantaṃ narendram abhiṣiktavān |

13.2१३.२

ज्योतिष्मन्तं कुशद्वीपे राजानं कृतवान् प्रभुः ॥ (१३।२)

jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavān prabhuḥ ||

14.1१४.१

द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत् । (१४।१)

dyutimantaṃ ca rājānaṃ krauñcadvīpe samādiśat |

14.2१४.२

शाकद्वीपेश्वरं चापि भव्यं चक्रे प्रियव्रतः ॥ (१४।२)

śākadvīpeśvaraṃ cāpi bhavyaṃ cakre priyavrataḥ ||

15.1१५.१

पुष्कराधिपतिं चक्रे सवनं चापि स प्रभुः । (१५।१)

puṣkarādhipatiṃ cakre savanaṃ cāpi sa prabhuḥ |

15.2१५.२

जम्बूद्वीपेश्वरो यस् तु आग्नीध्रो मुनिसत्तम । (१५।२)

jambūdvīpeśvaro yas tu āgnīdhro munisattama |

15.3१५.३

तस्य पुत्रा बभूवुस् ते प्रजापतिसमा नव ॥ (१५।३)

tasya putrā babhūvus te prajāpatisamā nava ||

16.1१६.१

नाभिः किंपुरुषश् चैव हरिवर्ष इलावृतः । (१६।१)

nābhiḥ kiṃpuruṣaś caiva harivarṣa ilāvṛtaḥ |

16.2१६.२

रम्यो हिरण्वान् षष्ठस् तु कुरुभद्राश्व एव च । (१६।२)

ramyo hiraṇvān ṣaṣṭhas tu kurubhadrāśva eva ca |

16.3१६.३

केतुमालस् तथैवान्यः साधुचेष्टो नृपो ऽभवत् ॥ (१६।३)

ketumālas tathaivānyaḥ sādhuceṣṭo nṛpo 'bhavat ||

17.1१७.१

जम्बूद्वीपविभागांस्तु तेषां विप्र निशामय । (१७।१)

jambūdvīpavibhāgāṃstu teṣāṃ vipra niśāmaya |

17.2१७.२

पित्रा दत्तं हिमाह्वं तु वर्षं नाभेस् तु दक्षिणम् ॥ (१७।२)

pitrā dattaṃ himāhvaṃ tu varṣaṃ nābhes tu dakṣiṇam ||

18.1१८.१

हेमकूटं तथा वर्षं ददौ किंपुरुषाय सः । (१८।१)

hemakūṭaṃ tathā varṣaṃ dadau kiṃpuruṣāya saḥ |

18.2१८.२

तृतीयं नैषधं वर्षं हरिवर्षाय दत्तवान् ॥ (१८।२)

tṛtīyaṃ naiṣadhaṃ varṣaṃ harivarṣāya dattavān ||

19.1१९.१

इलावृताय प्रददौ मेरुर् यत्र तु मध्यमे । (१९।१)

ilāvṛtāya pradadau merur yatra tu madhyame |

19.2१९.२

नीलाचलाश्रितं वर्षं रम्याय प्रददौ पिता ॥ (१९।२)

nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā ||

20.1२०.१

श्वेतं यद् उत्तरं तस्मात् पित्रा दत्तं हिरण्वते ॥ (२०।१)

śvetaṃ yad uttaraṃ tasmāt pitrā dattaṃ hiraṇvate ||

21.1२१.१

यद् उत्तरं शृङ्गवतो वर्षं तत् कुरवे ददौ । (२१।१)

yad uttaraṃ śṛṅgavato varṣaṃ tat kurave dadau |

21.2२१.२

मेरोः पूर्वेण यद् वर्षं भद्राश्वाय प्रदत्तवान् ॥ (२१।२)

meroḥ pūrveṇa yad varṣaṃ bhadrāśvāya pradattavān ||

22.1२२.१

गन्धमादनवर्षं तु केतुमालाय दत्तवान् । (२२।१)

gandhamādanavarṣaṃ tu ketumālāya dattavān |

22.2२२.२

इत्येतानि ददौ तेभ्यः पुत्रेभ्यः स नरेश्वरः ॥ (२२।२)

ityetāni dadau tebhyaḥ putrebhyaḥ sa nareśvaraḥ ||

23.1२३.१

वर्षेष्वेतेषु तान् पुत्रान् अभिषिच्य स भूपतिः । (२३।१)

varṣeṣveteṣu tān putrān abhiṣicya sa bhūpatiḥ |

23.2२३.२

सालग्रामं महापुण्यं मैत्रेय तपसे ययौ ॥ (२३।२)

sālagrāmaṃ mahāpuṇyaṃ maitreya tapase yayau ||

24.1२४.१

यानि किंपुरुषादीनि वर्षाण्यष्टौ महामुने । (२४।१)

yāni kiṃpuruṣādīni varṣāṇyaṣṭau mahāmune |

24.2२४.२

तेषां स्वाभाविकी सिद्धिः सुखप्राया ह्ययत्नतः ॥ (२४।२)

teṣāṃ svābhāvikī siddhiḥ sukhaprāyā hyayatnataḥ ||

25.1२५.१

विपर्ययो न तेष्वस्ति जरामृत्युभयं न च । (२५।१)

viparyayo na teṣvasti jarāmṛtyubhayaṃ na ca |

25.2२५.२

धर्माधर्मौ न तेष्वास्तां नोत्तमाधममध्यमाः ॥ (२५।२)

dharmādharmau na teṣvāstāṃ nottamādhamamadhyamāḥ ||

26.1२६.१

न तेष्वस्ति युगावस्था क्षेत्रेष्वष्टसु सर्वदा । (२६।१)

na teṣvasti yugāvasthā kṣetreṣvaṣṭasu sarvadā |

26.2२६.२

हिमाह्वयं तु वै वर्षं नाभेर् आसीन्महात्मनः । (२६।२)

himāhvayaṃ tu vai varṣaṃ nābher āsīnmahātmanaḥ |

26.3२६.३

तस्यर्षभो ऽभवत् पुत्रो मेरुदेव्यां महाद्युतिः ॥ (२६।३)

tasyarṣabho 'bhavat putro merudevyāṃ mahādyutiḥ ||

27.1२७.१

ऋषभाद् भरतो जज्ञे ज्येष्ठः पुत्रशतस्य सः । (२७।१)

ṛṣabhād bharato jajñe jyeṣṭhaḥ putraśatasya saḥ |

27.2२७.२

कृत्वा राज्यं स्वधर्मेण तथेष्ट्वा विविधान् मखान् ॥ (२७।२)

kṛtvā rājyaṃ svadharmeṇa tatheṣṭvā vividhān makhān ||

28.1२८.१

अभिषिच्य सुतं वीरं भरतं पृथिवीपतिः । (२८।१)

abhiṣicya sutaṃ vīraṃ bharataṃ pṛthivīpatiḥ |

28.2२८.२

तपसे स महाभागः पुलहस्याश्रमं ययौ ॥ (२८।२)

tapase sa mahābhāgaḥ pulahasyāśramaṃ yayau ||

29.1२९.१

वानप्रस्थविधानेन तत्रापि कृतनिश्चयः । (२९।१)

vānaprasthavidhānena tatrāpi kṛtaniścayaḥ |

29.2२९.२

तपस् तेपे यथान्यायम् इयाज स महीपतिः ॥ (२९।२)

tapas tepe yathānyāyam iyāja sa mahīpatiḥ ||

30.1३०.१

तपसा कर्षितो ऽत्यर्थं कृशो धमनिसंततः । (३०।१)

tapasā karṣito 'tyarthaṃ kṛśo dhamanisaṃtataḥ |

30.2३०.२

नग्नो वीटां मुखे दत्त्वा वीराध्वानं ततो गतः ॥ (३०।२)

nagno vīṭāṃ mukhe dattvā vīrādhvānaṃ tato gataḥ ||

31.1३१.१

ततश् च भारतं वर्षम् एतल्लोकेषु गीयते । (३१।१)

tataś ca bhārataṃ varṣam etallokeṣu gīyate |

31.2३१.२

भरताय यतः पित्रा दत्तं प्रतिष्ठता वनम् ॥ (३१।२)

bharatāya yataḥ pitrā dattaṃ pratiṣṭhatā vanam ||

32.1३२.१

सुमतिर् भरतस्याभूत् पुत्रः परमधार्मिकः । (३२।१)

sumatir bharatasyābhūt putraḥ paramadhārmikaḥ |

32.2३२.२

कृत्वा सम्यग् ददौ तस्मै राज्यम् इष्टमखः पिता ॥ (३२।२)

kṛtvā samyag dadau tasmai rājyam iṣṭamakhaḥ pitā ||

33.1३३.१

पुत्रसंक्रामितश्रीस् तु भरतः स महीपतिः । (३३।१)

putrasaṃkrāmitaśrīs tu bharataḥ sa mahīpatiḥ |

33.2३३.२

योगाभ्यासरतः प्राणान् सालग्रामे ऽत्यजन्मुने ॥ (३३।२)

yogābhyāsarataḥ prāṇān sālagrāme 'tyajanmune ||

34.1३४.१

अजायत च विप्रो ऽसौ योगिनां प्रवरे कुले । (३४।१)

ajāyata ca vipro 'sau yogināṃ pravare kule |

34.2३४.२

मैत्रेय तस्य चरितं कथयिष्यामि ते पुनः ॥ (३४।२)

maitreya tasya caritaṃ kathayiṣyāmi te punaḥ ||

35.1३५.१

सुमतेस्तेजसस्तस्माद् इन्द्रद्युम्नो व्यजायत । (३५।१)

sumatestejasastasmād indradyumno vyajāyata |

35.2३५.२

परमेष्ठी ततस्तस्मात् प्रतिहारस् तदन्वयः ॥ (३५।२)

parameṣṭhī tatastasmāt pratihāras tadanvayaḥ ||

36.1३६.१

प्रतिहर्तेति विख्यात उत्पन्नस् तस्य चात्मजः । (३६।१)

pratiharteti vikhyāta utpannas tasya cātmajaḥ |

36.2३६.२

भुवस् तस्माद् अथोद्गीथः प्रस्तावस् तत्सुतो विभुः ॥ (३६।२)

bhuvas tasmād athodgīthaḥ prastāvas tatsuto vibhuḥ ||

37.1३७.१

पृथुस् ततस् ततो नक्तो नक्तस्यापि गयः सुतः । (३७।१)

pṛthus tatas tato nakto naktasyāpi gayaḥ sutaḥ |

37.2३७.२

नरो गयस्य तनयस् तत्पुत्रो ऽभूद् विराट् ततः ॥ (३७।२)

naro gayasya tanayas tatputro 'bhūd virāṭ tataḥ ||

38.1३८.१

तस्य पुत्रो महावीर्यो धीमांस्तस्माद् अजायत । (३८।१)

tasya putro mahāvīryo dhīmāṃstasmād ajāyata |

38.2३८.२

महान्तो ऽपि ततश् चाभून् मनस्युस्तस्य चात्मजः ॥ (३८।२)

mahānto 'pi tataś cābhūn manasyustasya cātmajaḥ ||

39.1३९.१

त्वष्टा त्वष्टुश् च विरजो रजस् तस्याप्यभूत् सुतः । (३९।१)

tvaṣṭā tvaṣṭuś ca virajo rajas tasyāpyabhūt sutaḥ |

39.2३९.२

शतजिद् रजसस् तस्य जज्ञे पुत्रशतं मुने ॥ (३९।२)

śatajid rajasas tasya jajñe putraśataṃ mune ||

40.1४०.१

विष्वग्ज्योतिःप्रधानास् ते यैर् इमा वर्धिताः प्रजाः । (४०।१)

viṣvagjyotiḥpradhānās te yair imā vardhitāḥ prajāḥ |

40.2४०.२

तैर् इदं भारतं वर्षं नवभेदम् अलंकृतम् ॥ (४०।२)

tair idaṃ bhārataṃ varṣaṃ navabhedam alaṃkṛtam ||

41.1४१.१

तेषां वंशप्रसूतैस् तु भुक्तेयं भारती पुरा । (४१।१)

teṣāṃ vaṃśaprasūtais tu bhukteyaṃ bhāratī purā |

41.2४१.२

कृतत्रेतादिसर्गेण युगाख्या ह्य् एकसप्ततिः ॥ (४१।२)

kṛtatretādisargeṇa yugākhyā hy ekasaptatiḥ ||

42.1४२.१

एष स्वायंभुवः सर्गो येनेदं पूरितं जगत् । (४२।१)

eṣa svāyaṃbhuvaḥ sargo yenedaṃ pūritaṃ jagat |

42.2४२.२

वाराहे तु मुने कल्पे पूर्वमन्वन्तराधिपः ॥ (४२।२)

vārāhe tu mune kalpe pūrvamanvantarādhipaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

ViPur, 2, 1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit