विष्णुपुराणViṣṇupurāṇa

ViPur, 5, 28

108 of 126 · 59 verses

Select a line for its word-by-word analysis.

1.1१.१

पराशर उवाच । (१।१)

parāśara uvāca

1.2१.२

चारुदेष्णं सुदेष्णं च चारुदेहं च वीर्यवान् । (१।२)

cārudeṣṇaṃ sudeṣṇaṃ ca cārudehaṃ ca vīryavān |

1.3१.३

सुषेणं चारुगुप्तं च भद्रचारुं तथा परम् ॥ (१।३)

suṣeṇaṃ cāruguptaṃ ca bhadracāruṃ tathā param ||

2.1२.१

चारुविन्दं सुचारुं च चारुं च बलिनां वरम् । (२।१)

cāruvindaṃ sucāruṃ ca cāruṃ ca balināṃ varam |

2.2२.२

रुक्मिण्यजनयत्पुत्रान्कन्यां चारुमतीं तथा ॥ (२।२)

rukmiṇyajanayatputrānkanyāṃ cārumatīṃ tathā ||

3.1३.१

अन्याश्च भार्याः कृष्णस्य बभूवुः सप्त शोभनाः । (३।१)

anyāśca bhāryāḥ kṛṣṇasya babhūvuḥ sapta śobhanāḥ |

3.2३.२

कालिन्दी मित्रविन्दा च सत्या नाग्नजिती तथा ॥ (३।२)

kālindī mitravindā ca satyā nāgnajitī tathā ||

4.1४.१

देवी जाम्बवती चापि रोहिणी कामरूपिणी । (४।१)

devī jāmbavatī cāpi rohiṇī kāmarūpiṇī |

4.2४.२

मद्रराजसुता चान्या सुशीला शीलमण्डना ॥ (४।२)

madrarājasutā cānyā suśīlā śīlamaṇḍanā ||

5.1५.१

सात्राजिती सत्यभामा लक्ष्मणा चारुहासिनी । (५।१)

sātrājitī satyabhāmā lakṣmaṇā cāruhāsinī |

5.2५.२

षोडशासन् सहस्राणि स्त्रीणामन्यानि चक्रिणः ॥ (५।२)

ṣoḍaśāsan sahasrāṇi strīṇāmanyāni cakriṇaḥ ||

6.1६.१

प्रद्युम्नो ऽपि महावीर्यो रुक्मिणस्तनयां शुभाम् । (६।१)

pradyumno 'pi mahāvīryo rukmiṇastanayāṃ śubhām |

6.2६.२

स्वयंवरस्थां जग्राह सा च तं तनयं हरेः ॥ (६।२)

svayaṃvarasthāṃ jagrāha sā ca taṃ tanayaṃ hareḥ ||

7.1७.१

तस्यामस्याभवत्पुत्रो महाबलपराक्रमः । (७।१)

tasyāmasyābhavatputro mahābalaparākramaḥ |

7.2७.२

अनिरुद्धो रणे रुद्धो वीर्योदधिररिंदमः ॥ (७।२)

aniruddho raṇe ruddho vīryodadhirariṃdamaḥ ||

8.1८.१

तस्यापि रुक्मिणः पौत्रीं वरयामास केशवः । (८।१)

tasyāpi rukmiṇaḥ pautrīṃ varayāmāsa keśavaḥ |

8.2८.२

दौहित्राय ददौ रुक्मी तां स्पर्धन्नपि शौरिणा ॥ (८।२)

dauhitrāya dadau rukmī tāṃ spardhannapi śauriṇā ||

9.1९.१

तस्या विवाहे रामाद्या यादवा हरिणा सह । (९।१)

tasyā vivāhe rāmādyā yādavā hariṇā saha |

9.2९.२

रुक्मिणो नगरं जग्मुर्नाम्ना भोजकटं द्विज ॥ (९।२)

rukmiṇo nagaraṃ jagmurnāmnā bhojakaṭaṃ dvija ||

10.1१०.१

विवाहे तत्र निर्वृत्ते प्राद्युम्नेः सुमहात्मनः । (१०।१)

vivāhe tatra nirvṛtte prādyumneḥ sumahātmanaḥ |

10.2१०.२

कलिङ्गराजप्रमुखा रुक्मिणं वाक्यमब्रुवन् ॥ (१०।२)

kaliṅgarājapramukhā rukmiṇaṃ vākyamabruvan ||

11.1११.१

अनक्षज्ञो हली द्यूते तथास्य व्यसनं महत् । (११।१)

anakṣajño halī dyūte tathāsya vyasanaṃ mahat |

11.2११.२

न जयामो बलं कस्माद् द्यूते नैनं महाद्युते ॥ (११।२)

na jayāmo balaṃ kasmād dyūte nainaṃ mahādyute ||

12.1१२.१

पराशर उवाच । (१२।१)

parāśara uvāca

12.2१२.२

तथेति तानाह नृपान् रुक्मी बलसमन्वितः । (१२।२)

tatheti tānāha nṛpān rukmī balasamanvitaḥ |

12.3१२.३

सभायां सह रामेण चक्रे द्यूतं च वै तदा ॥ (१२।३)

sabhāyāṃ saha rāmeṇa cakre dyūtaṃ ca vai tadā ||

13.1१३.१

सहस्रमेकं निष्काणां रुक्मिणा विजितो बलः । (१३।१)

sahasramekaṃ niṣkāṇāṃ rukmiṇā vijito balaḥ |

13.2१३.२

द्वितीये ऽपि पणे चान्यत्सहस्रं रुक्मिणा जितः ॥ (१३।२)

dvitīye 'pi paṇe cānyatsahasraṃ rukmiṇā jitaḥ ||

14.1१४.१

ततो दशसहस्राणि निष्काणां पणमाददे । (१४।१)

tato daśasahasrāṇi niṣkāṇāṃ paṇamādade |

14.2१४.२

बलभद्रो ऽजयत्तानि रुक्मी द्यूतविदां वरः ॥ (१४।२)

balabhadro 'jayattāni rukmī dyūtavidāṃ varaḥ ||

15.1१५.१

ततो जहास स्वनवत्कलिङ्गाधिपतिर्द्विज । (१५।१)

tato jahāsa svanavatkaliṅgādhipatirdvija |

15.2१५.२

दन्तान्विदर्शयन्मूढो रुक्मी चाह मदोद्धतः ॥ (१५।२)

dantānvidarśayanmūḍho rukmī cāha madoddhataḥ ||

16.1१६.१

अविद्यो ऽयं मया द्यूते बलदेवः पराजितः । (१६।१)

avidyo 'yaṃ mayā dyūte baladevaḥ parājitaḥ |

16.2१६.२

मुधैवाक्षावलेपान्धो यो ऽवमेने ऽक्षकोविदान् ॥ (१६।२)

mudhaivākṣāvalepāndho yo 'vamene 'kṣakovidān ||

17.1१७.१

दृष्ट्वा कलिङ्गराजानं प्रकाशदशनाननम् । (१७।१)

dṛṣṭvā kaliṅgarājānaṃ prakāśadaśanānanam |

17.2१७.२

रुक्मिणं चापि दुर्वाक्यं कोपं चक्रे हलायुधः ॥ (१७।२)

rukmiṇaṃ cāpi durvākyaṃ kopaṃ cakre halāyudhaḥ ||

18.1१८.१

ततः कोपपरीतात्मा निष्ककोटिं हलायुधः । (१८।१)

tataḥ kopaparītātmā niṣkakoṭiṃ halāyudhaḥ |

18.2१८.२

ग्लहं जग्राह रुक्मी च तदर्थे ऽक्षानपातयत् ॥ (१८।२)

glahaṃ jagrāha rukmī ca tadarthe 'kṣānapātayat ||

19.1१९.१

अजयद्बलदेवस्तं प्राहोच्चैस्तं जितं मया । (१९।१)

ajayadbaladevastaṃ prāhoccaistaṃ jitaṃ mayā |

19.2१९.२

मयेति रुक्मी प्राहोच्चैरलीकोक्तैरलं बल ॥ (१९।२)

mayeti rukmī prāhoccairalīkoktairalaṃ bala ||

20.1२०.१

त्वयोक्तो ऽयं ग्लहः सत्यं न मयैषो ऽनुमोदितः । (२०।१)

tvayokto 'yaṃ glahaḥ satyaṃ na mayaiṣo 'numoditaḥ |

20.2२०.२

एवं त्वया चेद्विजितं मया न विजितं कथम् ॥ (२०।२)

evaṃ tvayā cedvijitaṃ mayā na vijitaṃ katham ||

21.1२१.१

पराशर उवाच । (२१।१)

parāśara uvāca

21.2२१.२

अथान्तरिक्षे वागुच्चैः प्राह गम्भीरनादिनी । (२१।२)

athāntarikṣe vāguccaiḥ prāha gambhīranādinī |

21.3२१.३

बलदेवस्य तं कोपं वर्धयन्ती महात्मनः ॥ (२१।३)

baladevasya taṃ kopaṃ vardhayantī mahātmanaḥ ||

22.1२२.१

जितं बलेन धर्मेण रुक्मिणा भाषितं मृषा । (२२।१)

jitaṃ balena dharmeṇa rukmiṇā bhāṣitaṃ mṛṣā |

22.2२२.२

अनुक्त्वापि वचः किंचित्कृतं भवति कर्मणा ॥ (२२।२)

anuktvāpi vacaḥ kiṃcitkṛtaṃ bhavati karmaṇā ||

23.1२३.१

ततो बलः समुत्थाय कोपसंरक्तलोचनः । (२३।१)

tato balaḥ samutthāya kopasaṃraktalocanaḥ |

23.2२३.२

जघानाष्टापदेनैव रुक्मिणं स महाबलः ॥ (२३।२)

jaghānāṣṭāpadenaiva rukmiṇaṃ sa mahābalaḥ ||

24.1२४.१

कलिङ्गराजं चादाय विस्फुरन्तं बलाद्बलः । (२४।१)

kaliṅgarājaṃ cādāya visphurantaṃ balādbalaḥ |

24.2२४.२

बभञ्ज दन्तान्कुपितो यैः प्रकाशं जहास सः ॥ (२४।२)

babhañja dantānkupito yaiḥ prakāśaṃ jahāsa saḥ ||

25.1२५.१

आकृष्य च महास्तम्भं जातरूपमयं बलः । (२५।१)

ākṛṣya ca mahāstambhaṃ jātarūpamayaṃ balaḥ |

25.2२५.२

जघान ये ऽन्ये तत्पक्षाः भूभृतः कुपितो बलः ॥ (२५।२)

jaghāna ye 'nye tatpakṣāḥ bhūbhṛtaḥ kupito balaḥ ||

26.1२६.१

ततो हाहाकृतं सर्वं पलायनपरं द्विज । (२६।१)

tato hāhākṛtaṃ sarvaṃ palāyanaparaṃ dvija |

26.2२६.२

तद्राजमण्डलं सर्वं बभूव कुपिते बले ॥ (२६।२)

tadrājamaṇḍalaṃ sarvaṃ babhūva kupite bale ||

27.1२७.१

बलेन निहतं श्रुत्वा रुक्मिणं मधुसूदनः । (२७।१)

balena nihataṃ śrutvā rukmiṇaṃ madhusūdanaḥ |

27.2२७.२

नोवाच किंचिन्मैत्रेय रुक्मिणीबलयोर्भयात् ॥ (२७।२)

novāca kiṃcinmaitreya rukmiṇībalayorbhayāt ||

28.1२८.१

ततो ऽनिरुद्धमादाय कृतोद्वाहं द्विजोत्तमः । (२८।१)

tato 'niruddhamādāya kṛtodvāhaṃ dvijottamaḥ |

28.2२८.२

द्वारकामाजगामाथ यदुचक्रं स केशवः ॥ (२८।२)

dvārakāmājagāmātha yaducakraṃ sa keśavaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

ViPur, 5, 28

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit