Ṛk 5.12.2
Saṃhitā
ऋ॒तं चि॑कित्व ऋ॒तमिच्चि॑किद्ध्यृ॒तस्य॒ धारा॒ अनु॑ तृंधि पू॒र्वीः ।
नाहं या॒तुं सह॑सा॒ न द्व॒येन॑ ऋ॒तं स॑पाम्यरु॒षस्य॒ वृष्णः॑ ॥
ऋतं चिकित्व ऋतम् इच् चिकिद्ध्य् ऋतस्य धारा अनु तृन्धि पूर्वीः |
नाहं यातुं सहसा न द्वयेन ऋतं सपाम्य् अरुषस्य वृष्णः ||
ṛtám cikitva ṛtámíccikiddhyṛtásya dhā́rā ánu tṛndhi pūrvī́ḥ ǀ
nā́hám yātúm sáhasā ná dvayéna ṛtám sapāmyaruṣásya vṛ́ṣṇaḥ ǁ
ṛtaṃ cikitva ṛtam ic cikiddhy ṛtasya dhārā anu tṛndhi pūrvīḥ |
nāhaṃ yātuṃ sahasā na dvayena ṛtaṃ sapāmy aruṣasya vṛṣṇaḥ ||
Padapāṭha
ऋ॒तम् । चि॒कि॒त्वः॒ । ऋ॒तम् । इत् । चि॒कि॒द्धि॒ । ऋ॒तस्य॑ । धाराः॑ । अनु॑ । तृ॒न्धि॒ । पू॒र्वीः ।
न । अ॒हम् । या॒तुम् । सह॑सा । न । द्व॒येन॑ । ऋ॒तम् । स॒पा॒मि॒ । अ॒रु॒षस्य॑ । वृष्णः॑ ॥
ऋतम् । चिकित्वः । ऋतम् । इत् । चिकिद्धि । ऋतस्य । धाराः । अनु । तृन्धि । पूर्वीः ।
न । अहम् । यातुम् । सहसा । न । द्वयेन । ऋतम् । सपामि । अरुषस्य । वृष्णः ॥
ṛtám ǀ cikitvaḥ ǀ ṛtám ǀ ít ǀ cikiddhi ǀ ṛtásya ǀ dhā́rāḥ ǀ ánu ǀ tṛndhi ǀ pūrvī́ḥ ǀ
ná ǀ ahám ǀ yātúm ǀ sáhasā ǀ ná ǀ dvayéna ǀ ṛtám ǀ sapāmi ǀ aruṣásya ǀ vṛ́ṣṇaḥ ǁ
ṛtam ǀ cikitvaḥ ǀ ṛtam ǀ it ǀ cikiddhi ǀ ṛtasya ǀ dhārāḥ ǀ anu ǀ tṛndhi ǀ pūrvīḥ ǀ
na ǀ aham ǀ yātum ǀ sahasā ǀ na ǀ dvayena ǀ ṛtam ǀ sapāmi ǀ aruṣasya ǀ vṛṣṇaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.012.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.04.02
- Maṇḍala · Anuvāka · Ṛk
- 05.01.107
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Sutambhara Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.