Ṛk 5.9.5
Saṃhitā
अध॑ स्म॒ यस्या॒र्चयः॑ स॒म्यक्सं॒यंति॑ धू॒मिनः॑ ।
यदी॒मह॑ त्रि॒तो दि॒व्युप॒ ध्माते॑व॒ धम॑ति॒ शिशी॑ते ध्मा॒तरी॑ यथा ॥
अध स्म यस्यार्चयः सम्यक् संयन्ति धूमिनः |
यद् ईम् अह त्रितो दिव्य् उप ध्मातेव धमति शिशीते ध्मातरी यथा ||
ádha sma yásyārcáyaḥ samyáksaṃyánti dhūmínaḥ ǀ
yádīmáha tritó divyúpa dhmā́teva dhámati śíśīte dhmātárī yathā ǁ
adha sma yasyārcayaḥ samyak saṃyanti dhūminaḥ |
yad īm aha trito divy upa dhmāteva dhamati śiśīte dhmātarī yathā ||
Padapāṭha
अध॑ । स्म॒ । यस्य॑ । अ॒र्चयः॑ । स॒म्यक् । स॒म्ऽयन्ति॑ । धू॒मिनः॑ ।
यत् । ई॒म् । अह॑ । त्रि॒तः । दि॒वि । उप॑ । ध्माता॑ऽइव । धम॑ति । शिशी॑ते । ध्मा॒तरि॑ । य॒था॒ ॥
अध । स्म । यस्य । अर्चयः । सम्यक् । सम्ऽयन्ति । धूमिनः ।
यत् । ईम् । अह । त्रितः । दिवि । उप । ध्माताऽइव । धमति । शिशीते । ध्मातरि । यथा ॥
ádha ǀ sma ǀ yásya ǀ arcáyaḥ ǀ samyák ǀ sam-yánti ǀ dhūmínaḥ ǀ
yát ǀ īm ǀ áha ǀ tritáḥ ǀ diví ǀ úpa ǀ dhmā́tā-iva ǀ dhámati ǀ śíśīte ǀ dhmātári ǀ yathā ǁ
adha ǀ sma ǀ yasya ǀ arcayaḥ ǀ samyak ǀ sam-yanti ǀ dhūminaḥ ǀ
yat ǀ īm ǀ aha ǀ tritaḥ ǀ divi ǀ upa ǀ dhmātā-iva ǀ dhamati ǀ śiśīte ǀ dhmātari ǀ yathā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.009.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.01.05
- Maṇḍala · Anuvāka · Ṛk
- 05.01.090
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Gaya Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.