Ṛk 5.47.3
Saṃhitā
उ॒क्षा स॑मु॒द्रो अ॑रु॒षः सु॑प॒र्णः पूर्व॑स्य॒ योनिं॑ पि॒तुरा वि॑वेश ।
मध्ये॑ दि॒वो निहि॑तः॒ पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सस्पा॒त्यंतौ॑ ॥
उक्षा समुद्रो अरुषः सुपर्णः पूर्वस्य योनिम् पितुर् आ विवेश |
मध्ये दिवो निहितः पृश्निर् अश्मा वि चक्रमे रजसस् पात्य् अन्तौ ||
ukṣā́ samudró aruṣáḥ suparṇáḥ pū́rvasya yónim pitúrā́ viveśa ǀ
mádhye divó níhitaḥ pṛ́śniráśmā ví cakrame rájasaspātyántau ǁ
ukṣā samudro aruṣaḥ suparṇaḥ pūrvasya yonim pitur ā viveśa |
madhye divo nihitaḥ pṛśnir aśmā vi cakrame rajasas pāty antau ||
Padapāṭha
उ॒क्षा । स॒मु॒द्रः । अ॒रु॒षः । सु॒ऽप॒र्णः । पूर्व॑स्य । योनि॑म् । पि॒तुः । आ । वि॒वे॒श॒ ।
मध्ये॑ । दि॒वः । निऽहि॑तः । पृश्निः॑ । अश्मा॑ । वि । च॒क्र॒मे॒ । रज॑सः । पा॒ति॒ । अन्तौ॑ ॥
उक्षा । समुद्रः । अरुषः । सुऽपर्णः । पूर्वस्य । योनिम् । पितुः । आ । विवेश ।
मध्ये । दिवः । निऽहितः । पृश्निः । अश्मा । वि । चक्रमे । रजसः । पाति । अन्तौ ॥
ukṣā́ ǀ samudráḥ ǀ aruṣáḥ ǀ su-parṇáḥ ǀ pū́rvasya ǀ yónim ǀ pitúḥ ǀ ā́ ǀ viveśa ǀ
mádhye ǀ diváḥ ǀ ní-hitaḥ ǀ pṛ́śniḥ ǀ áśmā ǀ ví ǀ cakrame ǀ rájasaḥ ǀ pāti ǀ ántau ǁ
ukṣā ǀ samudraḥ ǀ aruṣaḥ ǀ su-parṇaḥ ǀ pūrvasya ǀ yonim ǀ pituḥ ǀ ā ǀ viveśa ǀ
madhye ǀ divaḥ ǀ ni-hitaḥ ǀ pṛśniḥ ǀ aśmā ǀ vi ǀ cakrame ǀ rajasaḥ ǀ pāti ǀ antau ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.047.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.01.03
- Maṇḍala · Anuvāka · Ṛk
- 05.04.022
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Pratiratha Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.