Ṛk 5.47.5
Saṃhitā
इ॒दं वपु॑र्नि॒वच॑नं जनास॒श्चरं॑ति॒ यन्न॒द्य॑स्त॒स्थुरापः॑ ।
द्वे यदीं॑ बिभृ॒तो मा॒तुर॒न्ये इ॒हेह॑ जा॒ते य॒म्या॒३॒॑ सबं॑धू ॥
इदं वपुर् निवचनं जनासश् चरन्ति यन् नद्यस् तस्थुर् आपः |
द्वे यद् ईम् बिभृतो मातुर् अन्ये इहेह जाते यम्या सबन्धू ||
idám vápurnivácanam janāsaścáranti yánnadyástasthúrā́paḥ ǀ
dvé yádīm bibhṛtó mātúranyé ihéha jāté yamyā́ sábandhū ǁ
idaṃ vapur nivacanaṃ janāsaś caranti yan nadyas tasthur āpaḥ |
dve yad īm bibhṛto mātur anye iheha jāte yamyā sabandhū ||
Padapāṭha
इ॒दम् । वपुः॑ । नि॒ऽवच॑नम् । ज॒ना॒सः॒ । चर॑न्ति । यत् । न॒द्यः॑ । त॒स्थुः । आपः॑ ।
द्वे इति॑ । यत् । ई॒म् । बि॒भृ॒तः । मा॒तुः । अ॒न्ये इति॑ । इ॒हऽइ॑ह । जा॒ते इति॑ । य॒म्या॑ । सब॑न्धू॒ इति॒ सऽब॑न्धू ॥
इदम् । वपुः । निऽवचनम् । जनासः । चरन्ति । यत् । नद्यः । तस्थुः । आपः ।
द्वे इति । यत् । ईम् । बिभृतः । मातुः । अन्ये इति । इहऽइह । जाते इति । यम्या । सबन्धू इति सऽबन्धू ॥
idám ǀ vápuḥ ǀ ni-vácanam ǀ janāsaḥ ǀ cáranti ǀ yát ǀ nadyáḥ ǀ tasthúḥ ǀ ā́paḥ ǀ
dvé íti ǀ yát ǀ īm ǀ bibhṛtáḥ ǀ mātúḥ ǀ anyé íti ǀ ihá-iha ǀ jāté íti ǀ yamyā́ ǀ sábandhū íti sá-bandhū ǁ
idam ǀ vapuḥ ǀ ni-vacanam ǀ janāsaḥ ǀ caranti ǀ yat ǀ nadyaḥ ǀ tasthuḥ ǀ āpaḥ ǀ
dve iti ǀ yat ǀ īm ǀ bibhṛtaḥ ǀ mātuḥ ǀ anye iti ǀ iha-iha ǀ jāte iti ǀ yamyā ǀ sabandhū iti sa-bandhū ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.047.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.01.05
- Maṇḍala · Anuvāka · Ṛk
- 05.04.024
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Pratiratha Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.