Ṛk 5.26.7
Saṃhitā
न्य१॒॑ग्निं जा॒तवे॑दसं होत्र॒वाहं॒ यवि॑ष्ठ्यं ।
दधा॑ता दे॒वमृ॒त्विजं॑ ॥
न्य् अग्निं जातवेदसं होत्रवाहं यविष्ठ्यम् |
दधाता देवम् ऋत्विजम् ||
nyágním jātávedasam hotravā́ham yáviṣṭhyam ǀ
dádhātā devámṛtvíjam ǁ
ny agniṃ jātavedasaṃ hotravāhaṃ yaviṣṭhyam |
dadhātā devam ṛtvijam ||
Padapāṭha
नि । अ॒ग्निम् । जा॒तऽवे॑दसम् । हो॒त्र॒ऽवाह॑म् । यवि॑ष्ठ्यम् ।
दधा॑त । दे॒वम् । ऋ॒त्विज॑म् ॥
नि । अग्निम् । जातऽवेदसम् । होत्रऽवाहम् । यविष्ठ्यम् ।
दधात । देवम् । ऋत्विजम् ॥
ní ǀ agním ǀ jātá-vedasam ǀ hotra-vā́ham ǀ yáviṣṭhyam ǀ
dádhāta ǀ devám ǀ ṛtvíjam ǁ
ni ǀ agnim ǀ jāta-vedasam ǀ hotra-vāham ǀ yaviṣṭhyam ǀ
dadhāta ǀ devam ǀ ṛtvijam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.026.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.20.02
- Maṇḍala · Anuvāka · Ṛk
- 05.02.061
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasūyava Ātreya
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.