Ṛk 5.57.1
Saṃhitā
आ रु॑द्रास॒ इंद्र॑वंतः स॒जोष॑सो॒ हिर॑ण्यरथाः सुवि॒ताय॑ गंतन ।
इ॒यं वो॑ अ॒स्मत्प्रति॑ हर्यते म॒तिस्तृ॒ष्णजे॒ न दि॒व उत्सा॑ उद॒न्यवे॑ ॥
आ रुद्रास इन्द्रवन्तः सजोषसो हिरण्यरथाः सुविताय गन्तन |
इयं वो अस्मत् प्रति हर्यते मतिस् तृष्णजे न दिव उत्सा उदन्यवे ||
ā́ rudrāsa índravantaḥ sajóṣaso híraṇyarathāḥ suvitā́ya gantana ǀ
iyám vo asmátpráti haryate matístṛṣṇáje ná divá útsā udanyáve ǁ
ā rudrāsa indravantaḥ sajoṣaso hiraṇyarathāḥ suvitāya gantana |
iyaṃ vo asmat prati haryate matis tṛṣṇaje na diva utsā udanyave ||
Padapāṭha
आ । रु॒द्रा॒सः॒ । इन्द्र॑ऽवन्तः । स॒ऽजोष॑सः । हिर॑ण्यऽरथाः । सु॒वि॒ताय॑ । ग॒न्त॒न॒ ।
इ॒यम् । वः॒ । अ॒स्मत् । प्रति॑ । ह॒र्य॒ते॒ । म॒तिः । तृ॒ष्णऽजे॑ । न । दि॒वः । उत्साः॑ । उ॒द॒न्यवे॑ ॥
आ । रुद्रासः । इन्द्रऽवन्तः । सऽजोषसः । हिरण्यऽरथाः । सुविताय । गन्तन ।
इयम् । वः । अस्मत् । प्रति । हर्यते । मतिः । तृष्णऽजे । न । दिवः । उत्साः । उदन्यवे ॥
ā́ ǀ rudrāsaḥ ǀ índra-vantaḥ ǀ sa-jóṣasaḥ ǀ híraṇya-rathāḥ ǀ suvitā́ya ǀ gantana ǀ
iyám ǀ vaḥ ǀ asmát ǀ práti ǀ haryate ǀ matíḥ ǀ tṛṣṇá-je ǀ ná ǀ diváḥ ǀ útsāḥ ǀ udanyáve ǁ
ā ǀ rudrāsaḥ ǀ indra-vantaḥ ǀ sa-joṣasaḥ ǀ hiraṇya-rathāḥ ǀ suvitāya ǀ gantana ǀ
iyam ǀ vaḥ ǀ asmat ǀ prati ǀ haryate ǀ matiḥ ǀ tṛṣṇa-je ǀ na ǀ divaḥ ǀ utsāḥ ǀ udanyave ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.057.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.21.01
- Maṇḍala · Anuvāka · Ṛk
- 05.05.001
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.