Ṛk 5.25.2
Saṃhitā
स हि स॒त्यो यं पूर्वे॑ चिद्दे॒वास॑श्चि॒द्यमी॑धि॒रे ।
होता॑रं मं॒द्रजि॑ह्व॒मित्सु॑दी॒तिभि॑र्वि॒भाव॑सुं ॥
स हि सत्यो यम् पूर्वे चिद् देवासश् चिद् यम् ईधिरे |
होतारम् मन्द्रजिह्वम् इत् सुदीतिभिर् विभावसुम् ||
sá hí satyó yám pū́rve ciddevā́saścidyámīdhiré ǀ
hótāram mandrájihvamítsudītíbhirvibhā́vasum ǁ
sa hi satyo yam pūrve cid devāsaś cid yam īdhire |
hotāram mandrajihvam it sudītibhir vibhāvasum ||
Padapāṭha
सः । हि । स॒त्यः । यम् । पूर्वे॑ । चि॒त् । दे॒वासः॑ । चि॒त् । यम् । ई॒धि॒रे ।
होता॑रम् । म॒न्द्रऽजि॑ह्वम् । इत् । सु॒दी॒तिऽभिः॑ । वि॒भाऽव॑सुम् ॥
सः । हि । सत्यः । यम् । पूर्वे । चित् । देवासः । चित् । यम् । ईधिरे ।
होतारम् । मन्द्रऽजिह्वम् । इत् । सुदीतिऽभिः । विभाऽवसुम् ॥
sáḥ ǀ hí ǀ satyáḥ ǀ yám ǀ pū́rve ǀ cit ǀ devā́saḥ ǀ cit ǀ yám ǀ īdhiré ǀ
hótāram ǀ mandrá-jihvam ǀ ít ǀ sudītí-bhiḥ ǀ vibhā́-vasum ǁ
saḥ ǀ hi ǀ satyaḥ ǀ yam ǀ pūrve ǀ cit ǀ devāsaḥ ǀ cit ǀ yam ǀ īdhire ǀ
hotāram ǀ mandra-jihvam ǀ it ǀ sudīti-bhiḥ ǀ vibhā-vasum ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.025.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.17.02
- Maṇḍala · Anuvāka · Ṛk
- 05.02.047
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasūyava Ātreya
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.