Ṛk 5.25.5
Saṃhitā
अ॒ग्निस्तु॒विश्र॑वस्तमं तु॒विब्र॑ह्माणमुत्त॒मं ।
अ॒तूर्तं॑ श्राव॒यत्प॑तिं पु॒त्रं द॑दाति दा॒शुषे॑ ॥
अग्निस् तुविश्रवस्तमं तुविब्रह्माणम् उत्तमम् |
अतूर्तं श्रावयत्पतिम् पुत्रं ददाति दाशुषे ||
agnístuvíśravastamam tuvíbrahmāṇamuttamám ǀ
atū́rtam śrāvayátpatim putrám dadāti dāśúṣe ǁ
agnis tuviśravastamaṃ tuvibrahmāṇam uttamam |
atūrtaṃ śrāvayatpatim putraṃ dadāti dāśuṣe ||
Padapāṭha
अ॒ग्निः । तु॒विश्र॑वःऽतमम् । तु॒विऽब्र॑ह्माणम् । उ॒त्ऽत॒मम् ।
अ॒तूर्त॑म् । श्र॒व॒यत्ऽप॑तिम् । पु॒त्रम् । द॒दा॒ति॒ । दा॒शुषे॑ ॥
अग्निः । तुविश्रवःऽतमम् । तुविऽब्रह्माणम् । उत्ऽतमम् ।
अतूर्तम् । श्रवयत्ऽपतिम् । पुत्रम् । ददाति । दाशुषे ॥
agníḥ ǀ tuvíśravaḥ-tamam ǀ tuví-brahmāṇam ǀ ut-tamám ǀ
atū́rtam ǀ śravayát-patim ǀ putrám ǀ dadāti ǀ dāśúṣe ǁ
agniḥ ǀ tuviśravaḥ-tamam ǀ tuvi-brahmāṇam ǀ ut-tamam ǀ
atūrtam ǀ śravayat-patim ǀ putram ǀ dadāti ǀ dāśuṣe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.025.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.17.05
- Maṇḍala · Anuvāka · Ṛk
- 05.02.050
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasūyava Ātreya
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.