Ṛk 5.25.7
Saṃhitā
यद्वाहि॑ष्ठं॒ तद॒ग्नये॑ बृ॒हद॑र्च विभावसो ।
महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी॑रते ॥
यद् वाहिष्ठं तद् अग्नये बृहद् अर्च विभावसो |
महिषीव त्वद् रयिस् त्वद् वाजा उद् ईरते ||
yádvā́hiṣṭham tádagnáye bṛhádarca vibhāvaso ǀ
máhiṣīva tvádrayístvádvā́jā údīrate ǁ
yad vāhiṣṭhaṃ tad agnaye bṛhad arca vibhāvaso |
mahiṣīva tvad rayis tvad vājā ud īrate ||
Padapāṭha
यत् । वाहि॑ष्ठम् । तत् । अ॒ग्नये॑ । बृ॒हत् । अ॒र्च॒ । वि॒भा॒व॒सो॒ इति॑ विभाऽवसो ।
महि॑षीऽइव । त्वत् । र॒यिः । त्वत् । वाजाः॑ । उत् । ई॒र॒ते॒ ॥
यत् । वाहिष्ठम् । तत् । अग्नये । बृहत् । अर्च । विभावसो इति विभाऽवसो ।
महिषीऽइव । त्वत् । रयिः । त्वत् । वाजाः । उत् । ईरते ॥
yát ǀ vā́hiṣṭham ǀ tát ǀ agnáye ǀ bṛhát ǀ arca ǀ vibhāvaso íti vibhā-vaso ǀ
máhiṣī-iva ǀ tvát ǀ rayíḥ ǀ tvát ǀ vā́jāḥ ǀ út ǀ īrate ǁ
yat ǀ vāhiṣṭham ǀ tat ǀ agnaye ǀ bṛhat ǀ arca ǀ vibhāvaso iti vibhā-vaso ǀ
mahiṣī-iva ǀ tvat ǀ rayiḥ ǀ tvat ǀ vājāḥ ǀ ut ǀ īrate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.025.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.18.02
- Maṇḍala · Anuvāka · Ṛk
- 05.02.052
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasūyava Ātreya
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.