Ṛk 5.25.4
Saṃhitā
अ॒ग्निर्दे॒वेषु॑ राजत्य॒ग्निर्मर्ते॑ष्वावि॒शन् ।
अ॒ग्निर्नो॑ हव्य॒वाह॑नो॒ऽग्निं धी॒भिः स॑पर्यत ॥
अग्निर् देवेषु राजत्य् अग्निर् मर्तेष्व् आविशन् |
अग्निर् नो हव्यवाहनो ऽग्निं धीभिः सपर्यत ||
agnírdevéṣu rājatyagnírmárteṣvāviśán ǀ
agnírno havyavā́hano’gním dhībhíḥ saparyata ǁ
agnir deveṣu rājaty agnir marteṣv āviśan |
agnir no havyavāhano 'gniṃ dhībhiḥ saparyata ||
Padapāṭha
अ॒ग्निः । दे॒वेषु॑ । रा॒ज॒ति॒ । अ॒ग्निः । मर्ते॑षु । आ॒ऽवि॒शन् ।
अ॒ग्निः । नः॒ । ह॒व्य॒ऽवाह॑नः । अ॒ग्निम् । धी॒भिः । स॒प॒र्य॒त॒ ॥
अग्निः । देवेषु । राजति । अग्निः । मर्तेषु । आऽविशन् ।
अग्निः । नः । हव्यऽवाहनः । अग्निम् । धीभिः । सपर्यत ॥
agníḥ ǀ devéṣu ǀ rājati ǀ agníḥ ǀ márteṣu ǀ ā-viśán ǀ
agníḥ ǀ naḥ ǀ havya-vā́hanaḥ ǀ agním ǀ dhībhíḥ ǀ saparyata ǁ
agniḥ ǀ deveṣu ǀ rājati ǀ agniḥ ǀ marteṣu ǀ ā-viśan ǀ
agniḥ ǀ naḥ ǀ havya-vāhanaḥ ǀ agnim ǀ dhībhiḥ ǀ saparyata ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.025.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.17.04
- Maṇḍala · Anuvāka · Ṛk
- 05.02.049
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasūyava Ātreya
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.