Ṛk 5.34.2
Saṃhitā
आ यः सोमे॑न ज॒ठर॒मपि॑प्र॒तामं॑दत म॒घवा॒ मध्वो॒ अंध॑सः ।
यदीं॑ मृ॒गाय॒ हंत॑वे म॒हाव॑धः स॒हस्र॑भृष्टिमु॒शना॑ व॒धं यम॑त् ॥
आ यः सोमेन जठरम् अपिप्रतामन्दत मघवा मध्वो अन्धसः |
यद् ईम् मृगाय हन्तवे महावधः सहस्रभृष्टिम् उशना वधं यमत् ||
ā́ yáḥ sómena jaṭháramápipratā́mandata maghávā mádhvo ándhasaḥ ǀ
yádīm mṛgā́ya hántave mahā́vadhaḥ sahásrabhṛṣṭimuśánā vadhám yámat ǁ
ā yaḥ somena jaṭharam apipratāmandata maghavā madhvo andhasaḥ |
yad īm mṛgāya hantave mahāvadhaḥ sahasrabhṛṣṭim uśanā vadhaṃ yamat ||
Padapāṭha
आ । यः । सोमे॑न । ज॒ठर॑म् । अपि॑प्रत । अम॑न्दत । म॒घऽवा॑ । मध्वः॑ । अन्ध॑सः ।
यत् । ई॒म् । मृ॒गाय॑ । हन्त॑वे । म॒हाऽव॑धः । स॒हस्र॑ऽभृष्टिम् । उ॒शना॑ । व॒धम् । यम॑त् ॥
आ । यः । सोमेन । जठरम् । अपिप्रत । अमन्दत । मघऽवा । मध्वः । अन्धसः ।
यत् । ईम् । मृगाय । हन्तवे । महाऽवधः । सहस्रऽभृष्टिम् । उशना । वधम् । यमत् ॥
ā́ ǀ yáḥ ǀ sómena ǀ jaṭháram ǀ ápiprata ǀ ámandata ǀ maghá-vā ǀ mádhvaḥ ǀ ándhasaḥ ǀ
yát ǀ īm ǀ mṛgā́ya ǀ hántave ǀ mahā́-vadhaḥ ǀ sahásra-bhṛṣṭim ǀ uśánā ǀ vadhám ǀ yámat ǁ
ā ǀ yaḥ ǀ somena ǀ jaṭharam ǀ apiprata ǀ amandata ǀ magha-vā ǀ madhvaḥ ǀ andhasaḥ ǀ
yat ǀ īm ǀ mṛgāya ǀ hantave ǀ mahā-vadhaḥ ǀ sahasra-bhṛṣṭim ǀ uśanā ǀ vadham ǀ yamat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.034.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.03.02
- Maṇḍala · Anuvāka · Ṛk
- 05.03.012
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Saṃvaraṇa Prājāpatya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.