Ṛk 5.34.8
Saṃhitā
सं यज्जनौ॑ सु॒धनौ॑ वि॒श्वश॑र्धसा॒ववे॒दिंद्रो॑ म॒घवा॒ गोषु॑ शु॒भ्रिषु॑ ।
युजं॒ ह्य१॒॑न्यमकृ॑त प्रवेप॒न्युदीं॒ गव्यं॑ सृजते॒ सत्व॑भि॒र्धुनिः॑ ॥
सं यज् जनौ सुधनौ विश्वशर्धसाव् अवेद् इन्द्रो मघवा गोषु शुभ्रिषु |
युजं ह्य् अन्यम् अकृत प्रवेपन्य् उद् ईं गव्यं सृजते सत्वभिर् धुनिः ||
sám yájjánau sudhánau viśváśardhasāvávedíndro maghávā góṣu śubhríṣu ǀ
yújam hyányámákṛta pravepanyúdīm gávyam sṛjate sátvabhirdhúniḥ ǁ
saṃ yaj janau sudhanau viśvaśardhasāv aved indro maghavā goṣu śubhriṣu |
yujaṃ hy anyam akṛta pravepany ud īṃ gavyaṃ sṛjate satvabhir dhuniḥ ||
Padapāṭha
सम् । यत् । जनौ॑ । सु॒ऽधनौ॑ । वि॒श्वऽश॑र्धसौ । अवे॑त् । इन्द्रः॑ । म॒घऽवा॑ । गोषु॑ । शु॒भ्रिषु॑ ।
युज॑म् । हि । अ॒न्यम् । अकृ॑त । प्र॒ऽवे॒प॒नी । उत् । ई॒म् । गव्य॑म् । सृ॒ज॒ते॒ । सत्व॑ऽभिः । धुनिः॑ ॥
सम् । यत् । जनौ । सुऽधनौ । विश्वऽशर्धसौ । अवेत् । इन्द्रः । मघऽवा । गोषु । शुभ्रिषु ।
युजम् । हि । अन्यम् । अकृत । प्रऽवेपनी । उत् । ईम् । गव्यम् । सृजते । सत्वऽभिः । धुनिः ॥
sám ǀ yát ǀ jánau ǀ su-dhánau ǀ viśvá-śardhasau ǀ ávet ǀ índraḥ ǀ maghá-vā ǀ góṣu ǀ śubhríṣu ǀ
yújam ǀ hí ǀ anyám ǀ ákṛta ǀ pra-vepanī́ ǀ út ǀ īm ǀ gávyam ǀ sṛjate ǀ sátva-bhiḥ ǀ dhúniḥ ǁ
sam ǀ yat ǀ janau ǀ su-dhanau ǀ viśva-śardhasau ǀ avet ǀ indraḥ ǀ magha-vā ǀ goṣu ǀ śubhriṣu ǀ
yujam ǀ hi ǀ anyam ǀ akṛta ǀ pra-vepanī ǀ ut ǀ īm ǀ gavyam ǀ sṛjate ǀ satva-bhiḥ ǀ dhuniḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.034.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.04.03
- Maṇḍala · Anuvāka · Ṛk
- 05.03.018
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Saṃvaraṇa Prājāpatya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.