Ṛk 5.34.5
Saṃhitā
न पं॒चभि॑र्द॒शभि॑र्वष्ट्या॒रभं॒ नासु॑न्वता सचते॒ पुष्य॑ता च॒न ।
जि॒नाति॒ वेद॑मु॒या हंति॑ वा॒ धुनि॒रा दे॑व॒युं भ॑जति॒ गोम॑ति व्र॒जे ॥
न पञ्चभिर् दशभिर् वष्ट्य् आरभं नासुन्वता सचते पुष्यता चन |
जिनाति वेद् अमुया हन्ति वा धुनिर् आ देवयुम् भजति गोमति व्रजे ||
ná pañcábhirdaśábhirvaṣṭyārábham nā́sunvatā sacate púṣyatā caná ǀ
jinā́ti védamuyā́ hánti vā dhúnirā́ devayúm bhajati gómati vrajé ǁ
na pañcabhir daśabhir vaṣṭy ārabhaṃ nāsunvatā sacate puṣyatā cana |
jināti ved amuyā hanti vā dhunir ā devayum bhajati gomati vraje ||
Padapāṭha
न । प॒ञ्चऽभिः॑ । द॒शऽभिः॑ । व॒ष्टि॒ । आ॒ऽरभ॑म् । न । असु॑न्वता । स॒च॒ते॒ । पुष्य॑ता । च॒न ।
जि॒नाति॑ । वा॒ । इत् । अ॒मु॒या । हन्ति॑ । वा॒ । धुनिः॑ । आ । दे॒व॒ऽयुम् । भ॒ज॒ति॒ । गोऽम॑ति । व्र॒जे ॥
न । पञ्चऽभिः । दशऽभिः । वष्टि । आऽरभम् । न । असुन्वता । सचते । पुष्यता । चन ।
जिनाति । वा । इत् । अमुया । हन्ति । वा । धुनिः । आ । देवऽयुम् । भजति । गोऽमति । व्रजे ॥
ná ǀ pañcá-bhiḥ ǀ daśá-bhiḥ ǀ vaṣṭi ǀ ā-rábham ǀ ná ǀ ásunvatā ǀ sacate ǀ púṣyatā ǀ caná ǀ
jinā́ti ǀ vā ǀ ít ǀ amuyā́ ǀ hánti ǀ vā ǀ dhúniḥ ǀ ā́ ǀ deva-yúm ǀ bhajati ǀ gó-mati ǀ vrajé ǁ
na ǀ pañca-bhiḥ ǀ daśa-bhiḥ ǀ vaṣṭi ǀ ā-rabham ǀ na ǀ asunvatā ǀ sacate ǀ puṣyatā ǀ cana ǀ
jināti ǀ vā ǀ it ǀ amuyā ǀ hanti ǀ vā ǀ dhuniḥ ǀ ā ǀ deva-yum ǀ bhajati ǀ go-mati ǀ vraje ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.034.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.03.05
- Maṇḍala · Anuvāka · Ṛk
- 05.03.015
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Saṃvaraṇa Prājāpatya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.