Ṛk 5.34.9
Saṃhitā
स॒ह॒स्र॒सामाग्नि॑वेशिं गृणीषे॒ शत्रि॑मग्न उप॒मां के॒तुम॒र्यः ।
तस्मा॒ आपः॑ सं॒यतः॑ पीपयंत॒ तस्मि॑न्क्ष॒त्रमम॑वत्त्वे॒षम॑स्तु ॥
सहस्रसाम् आग्निवेशिं गृणीषे शत्रिम् अग्न उपमां केतुम् अर्यः |
तस्मा आपः संयतः पीपयन्त तस्मिन् क्षत्रम् अमवत् त्वेषम् अस्तु ||
sahasrasā́mā́gniveśim gṛṇīṣe śátrimagna upamā́m ketúmaryáḥ ǀ
tásmā ā́paḥ saṃyátaḥ pīpayanta tásminkṣatrámámavattveṣámastu ǁ
sahasrasām āgniveśiṃ gṛṇīṣe śatrim agna upamāṃ ketum aryaḥ |
tasmā āpaḥ saṃyataḥ pīpayanta tasmin kṣatram amavat tveṣam astu ||
Padapāṭha
स॒ह॒स्र॒ऽसाम् । आग्नि॑ऽवेशिम् । गृ॒णी॒षे॒ । शत्रि॑म् । अ॒ग्ने॒ । उ॒प॒ऽमाम् । के॒तुम् । अ॒र्यः ।
तस्मै॑ । आपः॑ । स॒म्ऽयतः॑ । पी॒प॒य॒न्त॒ । तस्मि॑न् । क्ष॒त्रम् । अम॑ऽवत् । त्वे॒षम् । अ॒स्तु॒ ॥
सहस्रऽसाम् । आग्निऽवेशिम् । गृणीषे । शत्रिम् । अग्ने । उपऽमाम् । केतुम् । अर्यः ।
तस्मै । आपः । सम्ऽयतः । पीपयन्त । तस्मिन् । क्षत्रम् । अमऽवत् । त्वेषम् । अस्तु ॥
sahasra-sā́m ǀ ā́gni-veśim ǀ gṛṇīṣe ǀ śátrim ǀ agne ǀ upa-mā́m ǀ ketúm ǀ aryáḥ ǀ
tásmai ǀ ā́paḥ ǀ sam-yátaḥ ǀ pīpayanta ǀ tásmin ǀ kṣatrám ǀ áma-vat ǀ tveṣám ǀ astu ǁ
sahasra-sām ǀ āgni-veśim ǀ gṛṇīṣe ǀ śatrim ǀ agne ǀ upa-mām ǀ ketum ǀ aryaḥ ǀ
tasmai ǀ āpaḥ ǀ sam-yataḥ ǀ pīpayanta ǀ tasmin ǀ kṣatram ǀ ama-vat ǀ tveṣam ǀ astu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.034.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.04.04
- Maṇḍala · Anuvāka · Ṛk
- 05.03.019
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Saṃvaraṇa Prājāpatya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.